न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 243, कुल 654 में से
संदर्भ में पढ़ें[Header] प्रमाणप्रकरणम् २२१
स्य पाटनपूरणानुपलम्भात्, न च शब्ददेशे अर्थः सम्भवति न चार्थदेशे शब्दः
स्थानकरणप्रयत्नानां तद्धेतूनां घटाद्यर्थदेशेऽनुपलम्भात्, व्यापकत्वं तु शब्दस्य
प्रतिषिद्धमेव -
उच्यते, न संश्लेषलक्षणः शब्दार्थसम्बन्धो ऽस्माभिरभ्युपगम्यते, तत्
किं कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावादयः शब्दस्यार्थेन सम्बन्धाः,
एते ऽपि नतराम्, न तर्हि तस्य कश्चिदर्थेन सम्बन्धः, न नास्ति शब्दस्यार्थेन
सम्बन्धः प्रत्ययनियमहेतुत्वाद् धूमादिवत्, तत् किं शब्दार्थयोरविनाभावः
सम्बन्धः सो ऽपि नास्ति, एवं हि शब्दो ऽनुमानमेव स्यात्, कस्तर्हि समय इति
ब्रूमः, को ऽयं समयो नाम, अभिधानाभिधेयनियमनियोगः समय उच्यते, यद्येवं
किमनाशङ्कनीयसंश्लेषपरिचोदनेन तद्दूषणेन च, उच्यते, शब्दार्थाभेदवादिनां
हि वैयाकरणानामेष संश्लेष उपपत्तिमान् समयो ऽप्ययमनुपपन्न एव, स हि
पुरुषकृत सङ्केतः। न च पुरुषेच्छया वस्तुनियमो ऽवकल्पते तदिच्छाया अव्या-
हतप्रसरत्वात्, अर्थो ऽपि किमिति वाचको न भवति, न चैवमस्ति न हि दह-
नमनिच्छन्नपि पुरुषो धूमान्न तं प्रत्येति जलं वा तत इच्छन्नपि प्रतिपद्यते, तत्र
यथा धूमाग्न्योर्नैसर्गिक एवाविनाभावो नाम सम्बन्धः ज्ञप्तये तु भूयोदर्शनादि
निमित्तमाश्रीयते एवं शब्दार्थयोस्सांसिद्धिक एव शक्त्यात्मा सम्बन्धः तद्व्यु-
त्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम्, स्वाभाविके सम्बन्धे सति दीपादि-
वत् किं तद्व्युत्पत्त्यपेक्षणेनेति चेद् न शब्दस्य ज्ञापकत्वात्, ज्ञापकस्य धूमा-
देरेतद्रूपं यत्सम्बन्धग्रहणापेक्षं स्वज्ञाप्यज्ञापकत्वम्, तद्योग्यतादयस्तु प्रत्यक्षसा-
मग्र्यन्तर्गतत्वान्न व्युत्पत्त्यपेक्षा भवन्ति, शक्तिस्तु नैसर्गिकी यथा रूपप्रका-
शिनी दीपादेस्तथा शब्दस्यार्थप्रतिपादने, तस्मान् न समयमात्रादर्थप्रतिपत्तिः ।
अपि चाभिधानाभिधेयनियमनियोगरूपः समयो ज्ञानमेव न ततोऽर्थान्तरं
ज्ञानं चात्मनि वर्त्तते न च शब्दार्थयोरिति न तयोः सम्बन्धः स्यात्, किं च
समयः क्रियमाणः प्रत्युच्चारणं वा क्रियते प्रतिपुरुषं सर्गादौ वा सकृदीश्वरेणेति,
प्रत्युच्चारणं प्राक्तन एव क्रियते नूतनो वा, नवस्य तावत्क्रियमाणस्य कथमर्थ-
प्रत्यायनसामर्थ्यमवगम्यते तदवगतौ वा किं तत्करणेन, पूर्वकृतस्य तदा कृत-
त्वादेव पुनः करणमनुपपन्नम्, एकस्य वस्तुनो ज्ञप्तिरसकृद्भवति नोत्पत्तिः,
प्रतिपुरुषमपि सम्बन्धो भिन्नो ऽभिन्नो वा क्रियते, भेदपक्षे कथमेकार्थसञ्ज्ञानं
गोशब्दस्य सास्नादिमानर्थः केशरादिमानश्वशब्दस्येति, अभेदे ऽपि तथैव कृत-
स्य करणायोगाज् ज्ञानमेव सम्बन्धस्य न करणम्, सर्गादावपि सकृत्सम्बन्ध-
करणमयुक्तं तथाविधकाला सम्भवादेव न हि शब्दार्थव्यवहाररहितः कश्चित्काल
उपपद्यते, तस्मान्नित्यस्यैव सम्बन्धस्य लोकतो व्युत्पत्तिः न पुनः करणम्, व्यु-
त्पत्तिपक्षं च न करणपक्षाभिहिता दोषाः स्पृशन्ति प्रत्यक्षसिद्धत्वात्, प्रत्यक्षं