न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 242, कुल 654 में से
संदर्भ में पढ़ें२२० न्यायमञ्जर्याम्
काव्यसमस्यापूरणे का वार्त्तेति चेत्—
तत्रापि प्रथमस्यैव कवेस्तद्धेतुदर्शनात् ।
तदभिप्रायवेदी तु सो ऽन्यस्तमनुवर्त्तते ॥
अन्यथा ऽनन्वितं काव्यं स्याद्विश्ववसुकाव्यवत् ।
अन्वितत्वे तु सा नूनमाद्यस्यैव कवेर्मतिः ॥
इहाप्येकाशयाभिज्ञद्वितीयेश्वरकल्पने ।
एकाभिप्रायतैव स्यात्किं स्यात्तत्कल्पने फलम् ॥
तस्मादेक एव कर्त्ता सर्वशाखानां काठकादिव्यपदेशस्तु प्रकृष्टाध्ययननि-
बन्धने भविष्यतीति भवद्भिरप्युक्तम्, अपि च यथा तरोर्विचित्राः शाखा भव-
न्ति न च कृत्स्नं पुष्पफलपत्रमेकस्यां शाखायां सन्निहितं भवति किं तु कस्यां
चि त्कस्यां चित्, एवं वेदस्यापि शाखाः पृथगङ्गकर्मोपदेशिन्यो विद्भिन्नाश्च ।
तासां च वृक्षशाखानामेकस्माज्जन्म बीजतः ।
तथैव सर्वशाखानामेकस्मात्पुरुषोत्तमात् ॥
कर्त्ता य एव जगतामखिलात्मवृत्ति-
कर्मप्रपञ्चपरिपाकविचित्रताज्ञः ।
विश्वात्मना तदुपदेशपराः प्रणीता-
स्तेनैव वेदरचना इति युक्तमेतत् ॥
आप्तं तमेव भगवन्तमनादिमीश-
माश्रित्य विश्वसिति वेदवचःसु लोकः ।
तेषामकर्तृकतया न हि कश्चिदेवं
विस्त्रम्भमेति मतिमानिति वर्णितं प्राक् ॥
एवं च पदवाक्यरचनादौ तावद्वेदेषु पुरुषापेक्षित्त्वमुपपादितम् ।
शब्दार्थसम्बन्धनिरूपणम्
यदपि सम्बन्धकरणे पुरुषानपेक्षत्वमुच्यते चित्रभानोरिव दहनशक्तिः
शब्दस्य नैसर्गिकी वाचकशक्तिः व्युत्पत्तिस्तु वृद्धेभ्य एव व्यवहरमाणेभ्य उप-
लभ्यते इति किमत्र पुरुषः करिष्यतीति तदप्यघटमानम्-पुरुषपरिघटित-
समयसम्बन्धव्यतिरेकेण शब्दादर्थप्रत्ययानुत्पत्तेः ।
ननु नैव शब्दस्यार्थेन सम्बन्धः कश्चिदस्ति कस्येदं पुरुषसपेक्षत्वं
तन्निरपेक्षत्वं वा चिन्त्यते, न हि शब्दार्थयोः कुण्डबदरयोरिव संयोगस्व-
भावः तन्तुपटयोरिव समवायात्मा वा सम्बन्धः प्रत्यक्षमुपलभ्यते, त-
न्मूलत्वाच्च सम्बन्धान्तराण्यपि न सन्ति, तदुक्तं मुखे शब्दमुपलभामहे भू-
मावर्थमिति, नाप्यनुमीयते शब्दस्यार्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुख-