न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 241, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणीप्रकरणम् २१९
विचित्रं प्राणिभृत्कर्मफलभोगाश्रयं जगत् ॥
तत्कर्मफलसम्बन्धविदा तदुपदेशिना ।
तेनैव वेदा रचिता इति नान्यस्य कल्पना ॥
एकेनैव च सिद्धे ऽर्थे द्वितीयं कल्पयेम किम् ।
अनेककल्पनाबीजं न हि किं चन विद्यते ॥
जगत्सर्गे तावदेक एवेश्वर इष्यते न द्वौ बहवो वा भिन्नाशयकल्पने एकत्र
वैयर्थ्यादितरत्र व्यवहारवैशसप्रसङ्गेन तत एकस्येश्वरत्वविघातात्, तथा हि—
अनेकेश्वरवादो हि नातीव हृदयङ्गमः ।
ते चेत्सदृशसङ्कल्पाः को ऽर्थो बहुभिरीश्वरैः ॥
सङ्कल्पयति यदेकः शुभमशुभं वा ऽपि सत्यसङ्कल्पः ।
तत्सिद्ध्यति तद्विभवादित्यपरस्तत्र किं कुर्यात् ॥
भिन्नाभिप्रायतायां तु कार्यविप्रतिषेधतः ।
नूनमेकः स्वसङ्कल्पविहत्या ऽनीश्वरो भवेत् ॥
एकस्य किल सङ्कल्पो राजा ऽयं क्रियतामिति ।
हन्यतामिति चान्यस्य तौ समाविशतः कथम् ॥
राज्यसङ्कल्पसाफल्ये विहता वधकामना ।
तस्याः सफलतायां वा राज्यसङ्कल्पविप्लवः ॥
तेन चित्रजगत्कार्यसंवाहानुगुणाशयः ।
एक एवेश्वरः स्रष्टा जगतामिति साधितम् ॥
सर्ववेदानामेककर्तृकत्वम् ।
एवं जगत्सर्गवत्स एव वेदानामध्येकः प्रणेता भवितुमर्हति नानात्वकल्प-
नायां प्रमाणाभावात्कल्पनागौरवप्रसङ्गाच्च, तेन यदुच्यते—
नन्वेकः सर्वशाखानां कर्तेत्यवगतं कुतः ।
बहवो बहुभिर्ग्रन्थाः कथं न रचिता इमे ॥
इति तत्परिहृतं भवति, अतश्चैककर्तृका वेदा यतः परस्परव्यतिषक्तार्थोप-
देशिनो दृश्यन्ते, एकमेव हि कर्म वेदचतुष्टयोपदिष्टं पृथग्भूतैरप्येकार्थसमवा-
यिभिरङ्गैरन्वितं प्रयुज्यते, तत्र हि हौत्रमृग्वेदेन यजुर्वेदेनाध्वर्यवं औद्गात्रं
सामवेदेन ब्रह्मत्वमथर्ववेदेन क्रियते, पैप्पलादादिशाखाभेदोपदिष्टं च तत्तदङ्गजातं
तत्र तत्रापेक्ष्यते, तत्र सर्वशाखाप्रत्ययमेकं कर्मेत्याहुः, एतच्चादूरएवाग्रे नि-
र्णेष्यते ।
एकाभिप्रायबद्धत्वं तेन सर्वत्र गम्यते ।
भवेद्भिन्नाशयानां हि कथंमकार्थमीलनम् ॥