सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 240, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 240

दमुक्तम्-इतरेतराश्रयप्रसङ्गात् अनुपलब्धौ सिद्धायामनुमाननिरासः अनु-
माननिरासे च सत्यनुपलब्धिसिद्धिः, अनुमानप्रामाण्ये ऽपि समानो दोष इति
चेद् न, तस्य प्रतिबन्धमहिम्ना प्रामाण्यसिद्धेः, न हि तस्यानुपलब्धिसिद्धिनि-
रासापेक्षं प्रामाण्यम् ।
तत्रैतत्स्याद् न वयं कर्तृभावे प्रामाण्यं ब्रूमः सकललोकपदार्थव्यवहारिणो
हि मीमांसका., परं तु वेदस्य पौरुषेयतां ब्रुवाणं प्रमाणं पृच्छामः, तच्चास्य
नास्तीति बलादनुपलब्ध्या तदभावनिश्चयो व्यवतिष्ठते इति, स्यादेतदेवं यद्यनु-
मानं न स्यात् , उक्तं च रचनात्वादित्यनुमानम् ।
यत्पुनरवादि वेदेषु पुरुषस्य कर्तृत्वमशक्यं ग्रहीतुमिति तदप्यसाधु,
परोक्षस्य कुविन्दादेरपि अभिनवावग्रकपटादौ कार्ये कथं कर्तृता ऽवगम्यते ।
पटादिरचनां दृष्ट्वा तस्य चेत्सा ऽनुमीयते ।
वेदे ऽपि रचनां दृष्ट्वा कर्तृत्वं तस्य गम्यताम् ॥
शरीरपरिग्रहमन्तरेण प्राणिनामुपदेशस्य कर्तुमशक्यत्वात्कदा चिदीश्वरः
शरीरमपि गृह्णीयादिति कल्प्यते नियतशरीरपरिग्रहाभावाच्च व्यासादिवदसौ
न स्मर्यते ततश्च—
अद्य सद्यः कविः काव्ये यथा कर्त्तेति मीयते ।
तथा तत्कालजैः पुम्भिः सो ऽपि कर्त्तेति माम्यते ॥
यथा परकृताशङ्का तस्मिन् काव्ये व्यपैति ते ।
वेदे ऽप्यन्यकृताशङ्का तथा तेषां व्यपैष्यति ॥
परोक्षमन्तुमानेन यच्च बुद्ध्यामहे वयम् ।
प्रत्यक्षं योगिनां तच्चेत्युक्तं प्रत्यक्षलक्षणे ॥
प्रत्यक्षमनुमानं च तदेवं कर्तृतामितौ ।
मूलप्रमाणमस्तीति स्मृतौ निन्दापरम्परा ॥
मन्त्रार्थवादमूलत्वं तत एव न तत्स्मृतेः !
यथोदितानुगानादिप्रमाणान्तरसम्भवात् ॥
यदपीतरेतराश्रयमभाषि पुरुषोक्ते वेदे प्रामाण्यं वेदप्रामाण्यात्पुरुषसिद्धि-
रिति तदपि न सम्यक् पूव परिहृतत्वात् , अनुमानात्प्रसिद्धे कर्त्तरि वेदवाक्यै-
स्तत्प्रतीतेरुपोद्बलनमिष्यते न त्वागमैकशरण एव कर्त्रवगमः, उक्तं च पूर्व-
मपि पृथिव्यादिना कार्येण कर्तुरनुमानम् ,
वेदकर्त्तुरेव पृथ्व्यादिकर्त्तृत्वम् ।
किं येनैव कर्त्रा पृथिव्यादि कार्यं निर्मितं तेनैव वैदिक्यो रचना निर्मिता
इति चेद् ओमित्युच्यते, किमत्र प्रमाणमिति चेत्—
उच्यते तर्हि सर्वज्ञः स्रष्टुं प्रभवतीदृशम् ।