सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 239, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 239

याश्चैता निर्विवादसिद्धकर्तृकाः कालिदासादिरचनाः चमत्कारिण्यः तासाम-
न्योन्यविसदृशं रूपमुपलभ्यते एव ।
अमृतेनेव संसिक्ताश्चन्दनेनेव चर्चिताः ।
चन्द्रांशुभिरिवोद्धृष्टाः कालिदासस्य सूक्तयः ॥
प्रकटरसानुगुणविकटाक्षररचनाचमत्कारितसकलकविकुला बाणस्य वाचः,
प्रतिकाव्यं च तानि तानि वैचित्र्याणि दृश्यन्ते एव, नामाख्यातादिवैचित्र्य-
मात्रेण कर्तृभावो वेदे रूपादेव प्रतीयते इति नूतनेयं वाचोयुक्तिः, अपि च
यदि रूपे समाश्वसिति भवतो मनः तदादिमदर्थाभिधानमपि वेदस्य रूपं कथं
न परीक्षसे 'बबरः प्रावाहणिरकामयत' 'कुसुरविन्दः औद्दालकिः अकामयत
पुरूरवा मा स्पृथा' इति, प्रतिसर्गं पुनस्तेषां भावादनादित्वमिति चेत्प्रतिसर्गं
तर्हि वेदान्यत्वमपि भविष्यति यथोक्तम्—“प्रतिमन्वन्तरं चैषा श्रुतिरन्या
विधीयते” इति—
रूपादकृत्रिमत्वं च कल्पना कल्पितैव सा ।
आदिमद्वस्तुबुद्धिस्तु वाचकैरक्षरैः स्फुटैः ॥
तेषामन्यथा व्याख्यानं तु व्याख्यानमेव पठन्त एव त्वध्येतारस्तत आदि-
मतो ऽर्थान्बहूनवगच्छन्तीति नानादिर्वेदः, तस्मान्न रचनात्वमप्रयोजकम् ।
कर्तृस्मरणमेव त्वप्रयोजकमसिद्धत्वात् , सिद्धमपि वा वेदे कर्तृस्मरणमन्य-
थासिद्धं वेदकरणकालस्यातिदवीयस्त्वात् , तत्प्रणेतुश्च पुंसः सकलपुरुषविलक्षण-
त्वान्नियतशरीरपरिग्रहाभावादिदन्तयाऽस्य पाणिनिपिङ्गलादिवत्स्मरणं नास्ति
न तु स नास्त्येवानुमानागमाभ्यां तदवगमात्, कथं पक्षधर्मतया ग्रहीतुं शक्यते
कर्तृस्मरणं तच्चेत्तत्पुरुषसम्बन्धि व्यभिचरति सर्वपुरुषसम्बन्धि तु दुरवग-
मम्, सर्वे पुमांसः कर्त्तारं वेदस्य न स्मरन्तीति कथं जानाति भवान्न हि तव
सकललोकहृदयानि प्रत्यक्षाणि सर्वज्ञत्वप्रसङ्गात् , न च यत्त्वं न जानासि
तदन्यो ऽपि न जानातीति युक्तम् अतिप्रसङ्गात् , तस्मादस्मर्यमाणकर्तृकत्वं
दुर्बोधमेव, अपि च कर्तुरस्मरणे सति सुतरां वेदार्थानुष्ठानं प्रेक्षावतां शिथि-
लीभवेन्न ह्यकर्तृक एवोपदेशः सम्भवति सम्भवन्नपि वा प्रामाण्यनिश्चयनि-
मित्ताभावात्कथं विश्रम्भभूमिरसौ भवेत् , बाधकाभावमात्राच्च न प्रामाण्यनि-
श्चयो वचसामित्युक्तं प्राक् , तस्मादाप्तप्रत्ययादेव निर्विचिकित्सं वेदार्थानुष्ठानं
सप्रतिष्ठानां सम्भवति नान्यथेति, तस्मान्न कर्तृस्मरणस्य रचनात्वप्रतिपक्षत-
योपन्यास उपपन्नः ।
नापि स्वतन्त्रमेवेदं कर्तृभावसाधनं भवितुमर्हति अनुपलब्धिरियमनेन
प्रकारेण किलोच्यते सा ऽनुपपन्ना मानेन कर्तुरुपलम्भान , अनुमानेनापि
यदुपलब्धं तदुपलब्धमेव भवति, ननु कर्तृभावस्मरणबाधितत्वादनुमानमि-