न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 199, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् १७७
त्वमघटमानमिति तेषामधिष्ठाता चेतनः कल्प्यते इति चेन्न, तदाश्रयाणामात्मना-
मेव चेतनत्वात् त एवाधिष्ठातारो भविष्यन्ति किमधिष्ठात्रन्तरेणेश्वरेण, तस्यापि
तादृशा परकीयकर्मान्तरापेक्षासङ्कोचितस्वातन्त्र्येण किमैश्वर्येण कार्यम्, रा-
ज्यमिव मन्त्रिपरवशमैश्वर्यं कोपयुज्यते तादृग् यत्रापरनिरपेक्षं रुच्यैव न रच्य-
ते ऽभिमतम् , अन्येनाप्युक्तम्—
किमीश्वरतयेश्वरो यदि न वर्त्तसे स्वेच्छया ।
न हि प्रभवतां क्रियाविधिषु हेतुरन्विष्यते ॥ इति ।
अथ क्रीडार्था जगत्सर्गे भगवतः प्रवृत्तिरीदृशा च शुभाशुभरूपेण जगता सृ-
ष्ट्रेन क्रीडति परमेश्वर इत्युच्यते तर्हि क्रीडासाध्यसुखरहितत्वेन सृष्टेः पूर्वमवा-
प्तसकलानन्दत्वं नाम तस्य रूपमवहीयते ।
न च क्रीडापि निःशेषजनतातङ्ककारिणी ।
आयासबहुला चेयं कर्तुं युक्ता महात्मनः ॥
तस्मान्न जगतां नाथ ईश्वरः स्रष्टा संहर्ता ऽपि भवति ।
न ह्यस्य ध्रियमाणेषु पूर्यन्ते जन्तुकर्मसु ।
सकृत् समस्तत्रैलोक्यनिर्मूलनमनोरथाः ॥
कर्मोपरमपक्षे तु पुनः सृष्टिर्न युज्यते ।
न कर्मनिरपेक्षो हि सर्गवैचित्र्यसंभवः ॥
अथ ब्राह्मेण मानेन संवत्सरशतनिष्ठामधितिष्ठति परमेष्ठिनि महेश्वरस्य
संजिहीर्षा जायते तया तिरोहितस्वफलारम्भशक्तीनि कर्माणि संभवन्तीति संप-
द्यते सकलभुवनप्रलयः पुनश्च तावत्येव रात्रिप्राये काले व्यतीते सिसृक्षा भवति
भगवतः तया ऽभिव्यक्तशक्तीनि कर्माणि कार्यमारभ्यन्ते इति तदप्ययुक्तम्—
उद्भवाभिभवौ तेषां स्यातां चेदीश्वरेच्छया ।
तर्हि सैवास्तु जगतां सर्गसंहारकारणम् ॥
किं कर्मभिः, एवमस्त्विति चेद् न, ईश्वरेच्छावशित्वपक्षे हि त्रयो दुर-
तिक्रमाः दोषाः तस्यैव तावन्महात्मनो निष्करुणत्वमकारणमेव दारुणसर्गका-
रिणः, तथा वैदिकीनां विधिनिषेधचोदनानामानर्थक्यम् ईश्वरेच्छात् एव शुभा-
शुभफलोपभोगसंभवात्, अनिर्मोक्षप्रसङ्गश्च मुक्ता अपि प्रलयसमये इव जीवाः
पुनरीश्वरेच्छया संसरेयुः, तस्मान्नेश्वराधीना जगतां सर्गः संहारो वा ।
इत्यनन्तरगीतेन नयेनेश्वरसाधने ।
नानुमानस्य सामर्थ्यमुपमाने तु का कथा ॥
आगमस्यापि नित्यस्य तत्परत्वमसांप्रतम् ।
तत्प्रणीते तु विश्रम्भः कथं भवतु मादृशाम् ॥
किं चागमस्य प्रामाण्यं तत्प्रणीतत्वहेतुकम् ।
२३ न्या०