सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 198, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 198

१७६ न्यायमञ्जरीम्
व्यापारवानसर्वज्ञः शरीरी क्लेशसंकुलः ।
घटस्य यादृशः कर्त्ता तादृगेव भवेद् भुवः ।
विशेषसाध्यतायां वा साध्यहीनं निदर्शनम् ॥
कर्त्तृसामान्यसिद्धौ तु विशेषावगतिः कुतः ।
अपि च, सशरीरो वा जगन्ति रचयेदीश्वरः, शरीररहितो वा तदीयं शरी-
रं कार्यं नित्यं वा भवेत् सर्वथा ऽनुपपत्तिः—
अशरीरस्य कर्तृत्वं दृश्यते नहि कस्य चित् ।
देहो ऽप्युत्पत्तिमत्तस्य देहत्वाच्चैत्रदेहवत् ।
कार्यमपीश्वरशरीरं तत्कर्तृकं वा, स्यादीश्वरान्तरकर्तृकं वा तत्र—
स्वयं निजशरीरस्य निर्माणमिति साहसम् ।
कर्त्रन्तरकृते तस्मिन्नीश्वरानन्त्यमापतेत् ॥
भवतु को दोष इति चेत् प्रमाणाभाव एव दोषः, एकस्यापि तावदीश्वरस्य
साधने पर्याकुलतां गताः किं पुनरनन्तानाम् , किं च व्यापारेण वा कुलालादिरिव
कार्याणि सृजेदीश्वर इच्छामात्रेण वा द्वयमपि दुर्घटम् ,
व्यापारेण जगत्सृष्टिः कुतो युगशतैरपि ।
तदिच्छां चानुवर्त्तन्ते न जडाः परमाणवः ॥
अपि च किं ? किमपि प्रयोजनमनुसंधाय जगत्सर्गे प्रवर्त्तते प्रजापतिः
एवमेव वा, निष्प्रयोजनायां प्रवृत्तावप्रेक्षापूर्वककारित्वादुन्मत्ततुल्यो ऽसौ भवेत् ,
पूर्वो ऽपि नास्ति पक्षः ।
अवाप्तसर्वानन्दस्य रागादिरहितात्मनः ।
जगदारभमाणस्य न विद्मः किं प्रयोजनम्
अनुकम्पया प्रवर्त्तत इति चेद् मैवम्—
सर्गात् पूर्वं हि निःशेषक्लेशसंस्पर्शवर्जिताः ।
नास्य मुक्ता इवात्मानो भवन्ति करुणाऽस्पदम् ॥
परमकारुणिकानामपि दुःसहदुःखदहनदन्दह्यमानमनसो जन्तूनवलोकय-
तामुदेति दया न पुनरपवर्गदशावदेषा दुःखशून्यानिति ।
करुणाऽमृतसंसिक्तहृदयो वा जगत्सृजन् ।
कथं सृजति दुर्वारदुःखप्राग्भारदारुणम् ॥
अथ केवलं सुखोपभोगप्रायं जगत्स्रष्टुमेव न जानाति सृष्टमपि वा न चि-
रमवतिष्ठते इत्युच्यते तदप्यचारु, निरतिशयस्वातन्त्र्यसीमनि वर्त्तमानस्य
स्वेच्छानुवर्त्तिसकलपदार्थसार्थस्थितेः परमेश्वरस्य किमसाध्यं नाम भवेत् ,
नानाऽऽत्मगतशुभाशुभकर्मकलापापेक्षः स्रष्टा प्रजापतिरिति चेत् कर्माण्येव हि
तर्हि सृजन्तु जगन्ति किं प्रजापतिना, अथाचेतनानां चेतनानधिष्ठितानां सृष्ट्य-