सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 152, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 152

१३० | न्यायमञ्जर्याम्

अस्यायम्अर्थोऽ यस्य त्वं गोसादृश्यं निरीक्षसे ।
तमेव गवयं विद्याः स चायं संज्ञिनो ग्रहः ॥
संबन्धकारणं चेह विशेषेषु न युज्यते ।
आनन्त्यात्किं तु सामान्ये तच्चेत्थमवधारितम् ॥
प्रत्यक्षपूर्वकं संज्ञाकर्मेति न हि वैदिकी ।
चोदना किं त्ववच्छेदः संज्ञिनो ऽत्र विवक्षितः ॥
स तु प्रत्यक्षतो वा ऽस्तु प्रमाणान्तरतोऽपि वा ।
स्मर्यमाणो ऽपि चार्थोऽस्ति संकेते कारणं क चित् ॥
यो ऽसौ तत्र त्वया दृष्टः प्राणी स हरुरुच्यते ।
क चित्तु कैश्चिन्निर्द्दिश्य परोक्षमुपलक्षणैः ॥
संज्ञिनं व्यवहर्तारस्तत्र संज्ञां नियुञ्जते ।
दन्तुरो रोमशः श्यामो वामनः पृथुलोचनः ॥
यस्तत्र चिपिटग्रीवस्तं चैत्रमवधारयेः ।
एवमत्रापि गोपिण्डसारूप्येणोपलक्षिते ॥
वाच्ये वाचकसंबन्धबोधनं नैव दुर्घटम् ।
अथ सोपप्लवा वाक्याद् बुद्धिरित्यभिधीयते ॥
उपप्लवो ऽपि संबन्धे न कश्चिदनुभूयते ।
यस्त्वस्ति गवयाकारं प्रति कीदृगसाविति ॥
सो ऽपि प्रत्यक्षतो दृष्टे गवये विनिवर्त्तते ।
प्रत्यक्षागमसिद्धे ऽर्थे तस्मान्मानान्तरेण किम् ॥
उपमानस्य प्रमाणान्तरत्वसमर्थनम्—
अत्राहुः , नाटविकरटितवाक्याद्विस्पष्टः संज्ञासंज्ञिसंबन्धप्रत्ययो भवितु-
मर्हति संज्ञिनस्तदानीमप्रत्यक्षत्वात् , यद्यपि गोसारूप्यविशिष्टतया तदवगम उप-
पादितः तथा ऽपि सोपप्लवेव भवति तदानीं बुद्धिः ।
न निराकाङ्क्षताबुद्धिस्तदानीमुपजायते ।
तदुत्पादनपर्यन्तः शब्दव्यापार इष्यते ॥
न चासौ निर्वहत्यत्रवाच्यसंवित्त्यपेक्षणात् ।
शब्देन तदनिर्वाहान्न स्वकार्यं कृतं भवेत् ॥
संबन्धप्रतिपत्तिश्च सामान्ये यदि चेष्यते ।
तदप्यविदितव्यक्ति न सम्यगवधारितम् ॥
गवयाकारवृत्तिश्च तदानीं बुद्ध्युपप्लवः ।
संबन्धे ऽपि दृढधिष्ठाने दधाति श्यामलां धियम्