न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 151, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् १२९
शब्दव्यापारो यथा परार्थानुमाने, अग्निमानयं पर्वतो धूमवत्वान्महानसवदि-
ति, अत्र हि न पुरुषोपदेशविश्वासादेव शैलस्य कृशानुमत्तां प्रतिपत्ता निमि-
त्तान्तरनिरपेक्षः प्रतिपद्यते अपि तु तदवबोधकधूमाख्यलिङ्गसामर्थ्यादेव, तदिह
यद्याटविको नागरकाय गवयार्थिने तदवगमोपायं प्रसिद्धसाधर्म्यं नाभ्यधास्यत्त-
र्हि तदुपदेश आगमे एव अन्तरभविष्यत् , तदुपदेशात्तु तत एव तदर्थावगम
इति सत्यपि शब्दस्वभावत्वे प्रमाणान्तरमेवेदम् , प्रतिपत्ता ऽपि नागरको नार-
ण्यकवाक्यादेव तं प्राणिनं गवयशब्दवाच्यतया बुध्यते किं तु सारूप्यं प्रसिद्धेन
गवा तस्य पश्यति, किमारण्यकवाक्येन न संप्रत्ययो नागरकस्य, न ब्रूमो न
संप्रत्यय इति किं तु सारूप्यमुपायान्तरं तदवगतावसावुपदिष्टवानिति ततो
ऽवगतिर्भवन्ती न निह्नोतुं शक्यते इति न शाब्दी सा प्रतीतिरपि त्वौपमानि-
कीति वचनमपि भवदिदमुपमानं प्रमाणान्तरमिति युक्तम् , भाष्याक्षराणयपि
चैतत्पक्षसाद्यच्छायामिव वदन्ति लक्ष्यन्ते, तानि तु ग्रन्थगौरवभयान्न योज्यन्ते
इत्यलं प्रसङ्गेन ।
अद्यतनास्तु व्याचक्षते श्रुतातिदेशवाक्यस्य प्रमातुरप्रसिद्धे पिण्डे प्रसिद्धपि-
ण्डसारूप्यज्ञानमिन्द्रियजं संज्ञासंज्ञिसंबन्धप्रतिपत्तिफलमुपमानम् , तद्धीन्द्रिय-
जनितमपि धूमज्ञानमिव तद्गोचरप्रमेयप्रमितिसाधनात्प्रमाणान्तरम् , श्रुताति-
देशवाक्यो हि नागरकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति ततो
वनेचरपुरुषकथितं यथा गौस्तथा गवय इति वचनमनुस्मरति स्मृत्वा च प्रति-
पद्यते अयं गवयशब्दवाच्य इति, तदेतत्संज्ञासंज्ञिसंबन्धज्ञानं तज्जन्यमित्युप-
मानफलमित्युच्यते ।
प्रत्यक्षं तावदेवैतद्विषये न कृतश्रमम् ।
वनस्थगवयाकारपरिच्छेदफलं हि तत् ॥
अनुमानं पुनर्नात्र शङ्कामप्यधिरोहति ।
क लिङ्गलिङ्गिसंबन्धः क्व संज्ञासंज्ञितामतिः ॥
आगमादपि तत्सिद्धिर्न वनेचरभाषितात् ।
तत्कालं संज्ञिनो नास्ति गवयस्य हि दर्शनम् ॥
संज्ञासंज्ञिनोश्च परिच्छेदे सति तत्संबन्धः सुशको भवति नान्यथा, अत
एव प्रत्यक्षपूर्वकं संज्ञाकर्मेत्याचक्षते, एतदाक्षिपति—
उपमानस्य प्रमाणान्तरत्वे आक्षेपः—
ननु नागरकप्रश्नमनुरुध्य वनेचरः ।
ब्रूते ऽतिदेशकं वाक्यं यथा गौर्गवयस्तथा ॥
१७ न्या०