न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 112, कुल 654 में से
संदर्भ में पढ़ेंअथास्य निर्विकल्पकेनैव सर्वात्मना स्पृष्टत्वात्पिष्टपेषणमयुक्तम् इति सवि-
कल्पमपि अधिगतार्थग्राहित्वादप्रमाणमिति मन्यसे तदपि न साधु पूर्वमेव परि-
हृतत्वात् , न ह्यनधिगताधिगन्तृत्वं प्रामाण्यमित्युक्तम् , गृहीतग्रहणे ऽपि प्रमा-
णस्य प्रमाणत्वानतिवृत्तेः ।
यत्त्वभ्यधायि भिन्नेष्वभेदम्भिन्नेषु च भेदं कल्पयन्त्यः कल्पना अतस्मिं-
स्तद्ग्रहे प्रामाण्यमवजहतीति तद्युक्तं अतस्मिंस्तद्ग्रहो भवत्यप्रमाणत्वकारणं
तत्विह नास्ति तस्य हि बाधकप्रत्ययोपसन्निपातान्निश्चयः, न च भवदुपव-
र्णितासु पञ्चस्वपि जात्यादिकल्पनासु बाधकं किं चिदस्तीति नातस्मिंस्तद्ग्रा-
हिण्यः कल्पना भवन्ति ।
जातिर्जातिमतो भिन्ना गुणी गुणगणात्पृथक् ।
तथैव तत्प्रतीतेश्च कल्पनोक्तिरबाधिका ॥
एतच्चोपरिष्टान्निर्णेष्यते, द्रव्यानाम्नोस्तु भिन्नयोर्भेदेनैव प्रतीतिर्न भेदकल्पना,
न हि देवदत्तशब्दो ऽयमित्येवं तद्वाच्यावगतिरेषा न शब्दो ऽस्यामर्थारूढो ऽव-
भासते न शब्दविवर्त्तरूपेणार्थः परिस्फुरति किं तर्हि—
शब्दस्मृत्याख्यसामग्र्याः सामर्थ्यातिशयाद्भवः ।
प्रत्ययातिशयः सो ऽयमित्येवं प्राक् प्रसाधितम् ॥
दण्ड्यमिति द्रव्याभेदकल्पना तु मन्दमतिभिरेवोदाहृता न हि दण्डो
ऽयमिति देवदत्ते प्रतीतिः अपि तु दण्डीति, तत्र च प्रकृतिप्रत्ययौ पृथगेवोपल-
भ्येते दण्डो ऽस्यास्तीति दण्डी तदिह यथैव वस्तु तथैव तदवसाय इति नाभे-
दारोपः, कर्मणि तद् द्वयमपि नास्ति नाभिन्ने भेदकल्पनम्, न च भिन्ने
ऽप्यभेदकल्पना ।
क्रिया हि तत्त्वतो भिन्ना भेदेनैव च गृह्यते ।
‘चलतीत्यादिबोधेषु तत्स्वरूपावभासनात् ॥
तेन क्रियागुणद्र