सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 111, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 111

प्रमाणप्रकरणम् ८९
यः प्रागजनको बुद्धेः स लब्ध्वा सहकारिणम् ।
कालान्तरेण तां बुद्धिं विदधत्केन वार्यते ॥
व्यतिरिक्ताव्यतिरिक्तौपकारकरणादिविकल्पास्तु क्षणभङ्गभङ्गे निराकरि-
ष्यन्ते, रूपग्रहणे च चक्षुषः प्रदीपाद्यपेक्षायां दुष्परिहारास्ते विकल्पाः, न वै
किं चिदेकं जनकमिति भवन्तो ऽपि पठन्ति, भवत्पक्षे ऽपि तुल्यास्ते यद्युभया-
दोषो न तैनैकश्चोद्यो भवति, तस्मादुपयोगाविशेषादिन्द्रियालोकमनस्कारविषय-
वद्वाचकस्मरणमपि सामग्र्यन्तर्गतमेतत्प्रत्ययजन्मनि व्याप्रियते इति न वा-
चकस्मरणजनितत्वेन स्मार्त्तत्वादप्रमाणं विकल्पो रूपस्मृत्याख्यसमनन्तरप्रत्यय-
निर्मितस्य निर्विकल्पस्य रसज्ञानस्यापि तथात्वप्रसङ्गात् ।
यच्चेदमुच्यते सो ऽर्थो व्यवहितो भवेदिति तन्न विद्मः कीदृशं व्यवधान-
मर्थस्येति, न हि दीपेन वा मनसा वा विज्ञानहेतुना कदा चिदर्थो व्यवधीयते,
मनोवच्च वाचकस्मृतिरपि सामग्र्यन्तर्गता सती तत्प्रतीतौ व्याप्रियते इति कथ-
मर्थं व्यवदधीत, स्मृतिविषयीकृतः शब्दस्तमर्थं व्यवधत्ते इति चेन्न-शब्दस्य
तत्प्रकाशकत्वेन ज्ञानवद् दीपवद्वा व्यवधायकत्वाभावात्, न चेन्द्रियव्यापारति-
रोधानं व्यवधानं तस्याधुना ऽप्यनुवर्त्तमानत्वात् ।
यथा तद्भावभावित्वादाद्यविज्ञानमक्षजम् ।
तथा तद्भावभावित्वादुत्तरं ज्ञानमक्षजम् ॥
न हि वाचकस्मरणानन्तरमक्षिणी निमील्य विकल्पयति घटो ऽयमिति ।
अथ यावद्वाचकविज्ञानं हृदयपथमवतरति तावत्सो ऽर्थः क्षणिकत्वादति-
क्रान्त इति व्यवहित उच्यते तदपि दुराशामात्रम्, क्षणभङ्गस्योपरिष्टान्निराकरि-
ष्यमाणत्वात् ।
अपि च प्रदर्शितप्राप्त्यादिव्यवहारवत्सन्तानद्वारकमिहापि तद्ग्रहणं भवि-
ष्यतीति सर्वथा न व्यवधानम्, तदेवं समयस्मरणसापेक्षत्वेपि नेन्द्रियार्थसन्नि-
कर्षोत्पन्नतामतिवर्त्तते सविकल्पकं विज्ञानमिति कथमप्रत्यक्षम्, यत्पुनर्विशेष-
णविशेष्यग्रहणादिसामग्र्यपेक्षत्वेन बहुप्रयाससाध्यत्वमप्रामाण्यकारणमभि-
धीयते तदतीव सुभाषितम् , न हि बहुक्लेशसाध्यत्वं नाम प्रामाण्यमुपहन्ति,
उक्तं च न हि गिरिशृङ्गारुह्य यद्गृह्यते तदप्रत्यक्षमिति,रसादिज्ञानापेक्षया च
रूपज्ञानस्य दीपाद्यालोकाहरणप्रयाससाध्यत्वादप्रामाण्यं स्यात् ।
यदपि पूर्वापरपरामर्शरहितचाक्षुषविज्ञानवैपरीत्येन विकल्पज्ञानानां विचा-
रकत्वादप्रमाण्यमुच्यते तदपि न सम्यक्, सर्वत्र ज्ञानस्य विचारकत्वानुपपत्तेः,
विचारको हि माता स हि पश्यति स्मरत्यनुसन्धत्ते विचारयतीच्छति द्वेष्टि
यतते गृह्णाति जहाति सुखमनुभवतीति वक्ष्यामः, अर्थं च स्पृशतो विज्ञानस्य
विचारयतो ऽपि कथमप्रामाण्यं स्यात् ।
१२ न्या० पूर्वा०