न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
तृतीयस्तवके ] शब्दस्य वाचकत्वखण्डनम् । २१३
वाक्यस्य संसर्गपरतया पदसमभिव्याहारमात्रेण, न त्वन्यथा । अन्यथा तु गुरुमत-
विदामेव श्लोक आप्तपदप्रक्षेपेण पठनीयः —
प्राथम्यादभिधातृत्वात् तात्पर्यापगमादपि ।
आप्तानामेव सा शक्तिर्वरमभ्युपगम्यताम् ॥ इति ॥
तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे
सति अभिहितानामवश्यमन्वय इति कुतोऽतिप्रसङ्गः ।
न चैवं सति पदार्था एव करणं, तेषामनागतादिरूपतया कारकत्वानुपपत्तौ
तद्विशेषस्य करणत्वस्यायोगात् । तत्संसर्गे प्रमाणान्तरसंकीर्णोदाहरणाभावाच्च ।
बोधनी ।
अन्यथा तु इति । तया पठति प्राथम्यादित्येतदुक्तं भवति । पदार्थेभ्यः पदानां प्राथम्यात्तेषामभि-
धातृत्वस्य च संप्रतिपन्नत्वादभिहितान्वयवादिभिरपि हेषां वाक्यार्थे तात्पर्यस्य चाभ्युपगमादन्वयं
प्रति पदानामेव शक्तिरभ्युपगम्यतां न पदार्थानामिति हि श्लोकेन प्रतिपाद्यते । तत्र यद्याप्तानां सम-
भिव्याहारयोग्यपदोच्चारणव्यतिरेकेण पदेषु शक्त्याधानमभ्युपेक्षीक्रियते तदा पदेभ्य आप्तानामेव प्राथ-
म्यादित्यादिहेतुभिः अन्वयप्रतिपादने शक्तिरङ्गीक्रियतां न पदानामिति ।
तदेवं यतः कुतश्चिदपि प्रतीतेरन्वयप्रतीतिरिस्त्येवेत्युक्तं, संप्रति नास्माकमत्र निर्बन्धः पदाभि-
हितानामन्वयप्रतीतिरित्यतावतैवास्मत्सिद्धान्तसिद्धेस्तत्र चातिप्रसङ्गाभावादित्युपसंहारव्याजेनाह
तस्मात् इति । नन्वेवं वाक्यार्थबुद्धौ पदार्थानामेव कारणत्वापत्तेः अशाब्दो वाक्यार्थः स्यादित्य-
त्राह न चैवम् इति । पूर्वभाविनियमो हि कारणत्वं, तत्कथं संसर्गप्रत्ययपतितानामनागतानां पदा-
र्थानां भवेत्, दूरे च कारणत्वविशेषः करणत्वमिति । न च शब्दादिप्रमाणव्यतिरेकेण पदार्थेभ्य
एवान्वयप्रतीतिः क्वचिदपि दृश्यते येन पदार्थानामेव हेतुत्वं भवेदित्याह प्रमाणान्तरेति ।
प्रकाशः।
तत् किं न स्यादित्याह अन्यथेति । पदानामेवेति गुरुमतश्लोके विशेषः । सा शक्तिरन्विताभिधाने
शक्तिरित्यर्थः ।
तस्मादिति । कविकाय्यस्थले मनसोत्प्रेक्षासहितेषु चिन्तावशोपस्थितेषु पदार्थेषु क्वचिद्दोषव-
शात् क्वचिदनुमानात् संसर्गज्ञानमसंसर्गाग्रहो वा भवतु, यत्र तु शब्दादाकाङ्क्षामुपेतपदार्थोप-
स्थितिस्तत्र पदार्था एव करणम् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते इति न्यायाच्च न शब्दं विना
प्रकारान्तरोपस्थितपदार्थानां शब्दोपस्थापितपदार्थैरन्वयबोध इत्यर्थः ।
तदेवं महन्मुखेन प्रभाकरं निराकृत्य पदार्थकरणत्वसिद्धान्तं निराकरोति न चैवमिति ।
तत्संसर्ग इति । पदं विना यत्र पदार्थज्ञानात् संसर्गज्ञानं, तत्र यथायथं मानान्तरसत्त्वात् पदार्थानां
प्रकाशिका ।
दोषवशादिति । मानसं ज्ञानमिति शेषः । इदं च सर्वमभ्युपगमवादेन मूलकृतोक्तमिति वर्द्धमानोऽपि
यथाश्रुतमेव व्याख्यातवान् । तात्पर्यन्तु मूलव्याख्यायामेवोक्तम् । तदेवमिति । प्राभाकरोक्तातिप्र-
सङ्गनिराकरणं नैयायिकेन तात्पर्यगत्यैव कृतम्, यच्च तात्पर्यं मया प्रागेवोक्तं व्यभिचारिज्ञातीयत-
येत्युपपन्नमम् निर्व्यापारत्वाच्चेत्यापि द्रष्टव्यम् । ननु पदज्ञानमपि न कारणमुत्प्रेक्षास्थले व्यभिचारात्,
न चतत्र मानसमेव ज्ञानं, प्रकृतेऽपि तथासम्भवेन क्लृपनीयप्रमाप्रमावस्य पदज्ञानस्य कारणत्वाकल्प-
मकरन्दः ।
पदज्ञानमपि न करणं, औत्प्रेक्षिकान्वयानुभवे व्यभिचारात् । किञ्च क्लृप्तप्रमागभावेन मनसा पदार्थस्मरण-
टिप्पणी ।
तोक्त इत्यतिशयानुवृत्त्या शक्तिरात एव स्वीकर्या वाक्यार्थधीश्च लिङ्ग पदे इति शक्तिव्यम् । नचै-
४१४. व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां
पदानान्तु पूर्वभावनियमेन पदार्थस्मरणऽवान्तरव्यापारवत्तया तदुपपत्तेः, व्यापार-
स्याव्यवधायकत्वादिति कृतं प्रसक्ताऽनुप्रसक्त्या ॥ १५ ॥
बोधनी ।
पश्यतः श्वेतमित्यादौ तु व्याप्त्यनुसंधानेनैव पदार्थैरन्वयप्रतीतिरित्यनुमानादित्वमेवेति भावः ।
पदानां तु करणत्वे न कश्चिद्दोष इत्याह पदानां तु इति । ननु तेषामपि पदार्थप्रतीतिव्यवधानेन
न पूर्वभावोऽस्तीत्यत उक्तं व्यापारस्येति । यथाहुः– 'पाके ज्वालेव काष्ठानां पदार्थप्रतिपाद-
नम्' इति ॥ १५ ॥
प्रकाशः ।
संसर्गबोधे करणत्वम् । तथाहि काव्यस्थले पदार्थज्ञानव्यापारकमुत्प्रेक्षादिसहकृतं मन एवान्वयानु-
भवे करणम् । न चैवमुत्प्रेक्षाया मानान्तरत्वम् । व्यभिचारजातीयतया लिङ्गादाविव प्रमाकरणता-
वच्छेदकरूपाभावात् । श्वेतोऽश्वो धावतीति धीश्च लैङ्गिकेत्यर्थः । ननु पदानामप्यतीतत्वात्
कथं संसर्गधीकरणत्वम्, अथ पदस्मरणं करणं, तर्हि पदार्थस्मरणमेव करणमस्त्वनावश्यकत्वा-
दित्यत आह पदानां त्विति ।
पदार्थस्मरणस्य निर्व्यापारत्वेनाकरणत्वात् पदार्थस्मरणस्य पदज्ञानव्यापारतया तेन तदन्यथा-
सिद्धभावादनन्यथासिद्धान्वयव्यतिरेकाभ्यामाकाङ्क्षादिमत्पदस्यान्वयानुभवविशेषे कारणत्वाच्च । अ-
पि च व्युत्पत्तिकाले प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यव्यापारदर्शनादन्वितज्ञानोपपत्त्यर्थमन्वित-
बोधकत्वं शब्दस्य गृह्यते । तदत्र तन्निर्वाहार्थमर्थोपस्थितिरपि सहकारिणी कल्प्यते इति न तया
शब्दस्यान्यथासिद्धिरिति शब्दतदर्थयोरुपस्थितयोरन्वयबोधात् कुत्रान्वयज्ञानशक्तत्वमिति संशये
प्रकाशिका ।
नादित्यत आह अनुभवविशेष इति । शाब्दजातीय इत्यर्थः । तथा च नोक्तव्यभिचारो गौरवञ्च
प्रामाणिकम् । विजातीयज्ञानसिद्धौ विजातीयस्य तत्करणस्य स्वीकारात् । न च वैजात्यसिद्धिरैव
कुत इति वाच्यम् । शब्दादमुमर्थं प्रत्येमीत्यनुव्यवसायात् आकाङ्क्षादिज्ञानसहकारितानुपपत्तेश्च ।
अन्यथाऽनुमानमपि न स्यान्मनसैवान्यथासिद्धिरिति जितं (प्राभाकरैः) चार्वाकैः । नन्वेवमपि शाब्दस्य
विजातीयत्वेऽपि मानसमेव कुतो न जायते समाने विषये प्रत्यक्षसामग्र्या बलवत्त्वादिति चेन्न । अलौ-
किकप्रत्यक्षसामग्रीतो मानान्तरसामग्र्या बलवत्त्वात् । अन्यथाऽनुमित्युच्छेदेऽनुमिनोमीत्यनुव्यव-
मकरन्दः ।
सहकृतेनोत्प्रेक्षिकवदन्वयग्रहोपपत्तौ मानान्तरकल्पने गौरवमित्यत आह अनुभवविशेष इति ।
श्रौत्प्रेक्षिकव्यावृत्तशब्दप्रयोज्यजातिमतोत्यर्थः, तथा च नोक्तव्यभिचारः, गौरवञ्च प्रामाणिकं,
विजातीयप्रमासिद्धौ तत्करणस्यावश्यकत्वादिति भावः । ननु तत्सिद्धिरेव कुत इति चेत् । न । अनु-
मिनोमीत्यादिवत् शृणोमीत्यनुव्यवसायात् । ननु प्रत्यक्षसामग्रीबलवत्त्वान्मानसप्रत्यक्षसामग्रीसत्त्वे
तदवश्यम्भाव इति चेत् । न । लौकिकप्रत्यक्षसामग्र्यास्तथात्वेऽप्यलौकिकप्रत्यक्षसामग्र्या दुर्बल-
त्वात्, अन्यथा अनुमितेरप्युच्छेदः स्यात् । ननु प्रयोज्यव्यापारदर्शनात् प्रयोजकत्वमात्रं गृह्यते
टिप्पणी ।
वमुत्प्रेक्षाया मानान्तरत्वमिति । यदसाधारणं सहकार्यासाद्य मनो बहिर्गोचरं प्रमां जनयति
तस्य प्रमाणान्तरत्वादुत्प्रेक्षायास्तथात्वादिति भावः । व्यभिचारजातीयतयेति । बाधितोत्प्रेक्षायाः
स्वजन्यज्ञानेन सह यो विषयस्य व्यभिचारस्तद्वत्तयार्थादप्रमाजनकत्वा तज्जातीयत्वेनावाधितोत्प्रे-
क्षाया अपि न प्रमाकरणत्वरूपं प्रमाणत्वम्, लिङ्गस्य लिङ्गाभासजातीयत्वेऽपि प्रमाणतावच्छेदक-
व्याप्तिपक्षधर्म्मतावत्त्वेन प्रमाणत्वेऽपि प्रकृते तादृशरूपाभावान्न तद्वत् प्रमाणत्वमित्यर्थः । श्वेतोऽ-
श्वो धावतीति धीश्चेति । हेषाशब्दं पक्षीकृत्य जन्यतयाऽन्यशब्दविशेषत्वेन साध्यस्ततः प्रत्यक्षा
पश्यतः श्वैत्यं तत्रोपनीततया मनसा गृह्यते, ततः श्वेतमश्वं पक्षीकृत्य धावनक्रिया खुरनिक्षेपशब्देन
तृतीयस्तवके.] शब्दस्य बाधकत्वखण्डनम्। ४१५
अस्तु तर्हि शब्द एव बाधकं सर्वज्ञे कर्त्तरि, तथा हि—
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्त्ताऽहमिति मन्यते ॥
इत्यादि पठन्ति । अस्यायमर्थः—न पारमार्थिकं चेतनस्य कर्तृत्वमस्ति, आभि-
मानिकं तु तत् । न च सर्वज्ञस्याऽभिमानो, न चासर्वज्ञस्य जगत्कर्तृत्वमस्ति । उच्यते—
न प्रमाणमनाप्तोक्तिर्नार्द्दष्टे क्वचिदाप्तता ।
अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः ॥ १६ ॥
बोधनी ।
अस्तु पृथक् प्रमाणं शब्दः, स एव जगत्कर्त्तरि बाधकः स्यादित्याह अस्तु इति । कथमागमो
जगत्कर्त्तारं बाधत इत्यत्राह अस्यायमर्थ इति । अस्तु तर्ह्याभिमानिकं कर्तृत्वम् ईश्वरस्येत्यत्राह न
च इति । अभिमानो नाम भ्रान्तिः, स कथं सर्वज्ञस्य स्याद्विशेषाग्रहणहेतुकत्वात्तस्या इति । अस्तु
तर्ह्यसर्वज्ञ इत्यत्राह न चासर्वज्ञस्य इति । न प्रमाणम् इति । न तावदनाप्तप्रणीतः शब्दो
प्रकाशः।
प्राथम्याच्छब्दानामेव कारणत्वमवधारयति । किञ्चाग्निः करणम् ओदनः कर्मता पाकः कृतिरिष्टसा-
धनमिति ज्ञानेऽप्यग्निनाौदनं पचेतेत्यत्रेव कुतो नान्वयबोधः ? तावत्पदार्थोपस्थितेरविशेषात् ।
तत्र परस्परमाकाङ्क्षा नेति चेत्, तर्हि साकाङ्क्षपदार्थोपस्थितौ पदविशेषजन्यत्वं तन्त्रमिति नागृही-
तविशेषणान्यायात् पदविशेषोऽप्यन्वयबोधेऽङ्गमिति कथं न तस्य करणत्वम् । पदादसुसर्थं प्रत्येमी-
त्यनुव्यवसाये बाधकाभावाच्चेति सङ्क्षेपः ।
शब्दप्रामाण्यप्रसङ्गागतमन्विताभिधाननिराकरणं, तदनुप्रसक्तञ्चाभिहितान्वयवाद इति विस्तरेण
तन्निराकरणे ग्रन्थगौरवं स्यादित्यत आह कृतमिति ॥ १५ ॥
प्रकृतेरिति । प्रकृतेरचेतनाया, गुणैः सत्त्वादिभिः । सर्वाणि कर्माणि क्रियमाणानि अहं कर्त्तेत्यहं-
कारोत्यव्यामोहवशाच्चेतनो मन्यते इति प्रतिपादनाच्चेतनस्य कर्तृत्वं निषिद्धम् । विशेषविधेः शेष-
नषेधे पर्यवसानादित्यर्थः । कर्त्तेति तृजन्ताम् । अतो, न लोकाव्ययेत्यादिना कृद्योगषष्ठ्या निषेधः ।
न चाभिमानिकं जगत्कर्तृत्वमीश्वरस्येत्याह न चेति । तन्मूलविशेषादर्शनाभावादित्यर्थः । उप-
दर्शिंतमागमो यदि नाप्तोक्तस्तर्ह्यप्रमाणत्वान्न बाधकः । आप्तोक्तश्चेत्, तर्ह्यागमप्रणयनहेतुस्तज्ज्ञान-
मिन्द्रियलिङ्गाद्यभावान्नित्यमुपेयम् । तत्र च विषयस्याहेतुत्वात् सर्वविषयत्वमर्थसिद्धमित्या-
गमोऽप्यन्यपर इत्याह न प्रमाणमिति । न चाप्तोक्तत्वं विना नित्यत्वादागमो मानं,
प्रकाशिका ।
सायविरोधादिति दिक् । नन्वविरोधिपदजन्यपदार्थोपस्थितित्वेनान्वयबोधकत्वम् , अन्यथा तवा-
प्याकांक्षादिविरहाच्छाब्दान्वयबोधाभावेऽपि मानसान्वयबोधानिष्प्रत्यूहं व्यवहारः स्यादित्यरुचेराह
पदादिति ॥ १५ ॥
सर्वविषयत्वमिति । तथा च न्यायसिद्धं जगत्कर्तृत्वं तस्येत्यागमोऽप्यन्यपर इत्यर्थः ।
मकरन्दः ।
न तु हेतुत्वम्, अन्वयव्यतिरेकादेः साधारणतया तत्संशायकत्वादित्यरुचेराह किञ्चेति। नन्वन्वय-
विरोधिपदाजन्यपदार्थोपस्थितित्वेनान्वयबोधकत्वम् , अन्यथा तवाप्याकांक्षादिवैकल्याच्छाब्दान्व-
यबोधानिष्प्रत्यूहो व्यवहारः स्यादित्यरुचेराह पदादिति ॥ १५ ॥
टिप्पणी ।
सम्बन्धविशेषेण पक्षसम्बन्धेन लिङ्गेनानुमेयेल्यर्थः । कविकान्यस्थले च मानसमेकमेव वाक्यार्थज्ञान-
मिति भावः ॥ १५ ॥ ...
तज्ज्ञानमिन्द्रियलिङ्गाद्यभावादिति । प्रकृतिकर्तृत्वाद्यर्थस्यातीन्द्रियत्वेनेन्द्रियस्य तत्र
४१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १५ कारिकान्याख्यायां
यदि हि सर्वज्ञकर्तृभावावेदकः शब्दो नाप्तोक्तः, न तर्हि प्रमाणम् । अथाप्तोऽस्य
वक्ता, कथं न तदर्थदर्शी । अतीन्द्रियार्थदर्शीति चेत् । कथमसर्वज्ञः ? कथं वा न
कर्त्ता । आगमस्यैव प्रणयनात् । न च नित्यागमसम्भवो विच्छेदादित्यावेदितम् १६
अपि च—
न चासौ कचिदेकान्तः सत्त्वस्यापि प्रवेदनात् ॥
निरञ्जनावबोधार्थो न च सन्नपि तत्परः ॥ १७ ॥
बोधनी ।
बाधकस्तस्याप्रमाणत्वात् । अथाप्तोक्तस्तर्हि तदर्थदर्शिना तेन भवितव्यं, यदि चातीन्द्रियमगमार्थं
दृष्ट्वा तं प्रणयेत्तर्हि सर्वज्ञः कर्त्ता च स्यात्, न च नित्य एवागमो बाधकः सर्गप्रलयसम्भवेन
तस्यापास्तत्वादिति निगदव्याख्यातं व्याख्यानमिति ॥ १६ ॥
बाधकं शब्दमभ्युपगम्याप्याह अपि च इति । न चासावागमो जगत्कर्तुरसत्त्व एव नियतः
सत्त्वस्यापि तेन प्रतिपादनोपलम्भात्, ततश्च नानियतत्वात्तेनासत्त्वसिद्धिः, तर्हि तत एव सत्त्वमपि
न सिध्येदित्यत उक्तं निरञ्जनेति । चेतनस्याकर्तृत्वप्रतिपादक आगमो विशेषगुणलक्षणाञ्जनरहि-
तात्मस्वरूपप्रतिपादनार्थत्वेनान्यपरत्वान्नासत्त्वमावेदयति । तर्हि सत्त्वप्रतिपादकोऽप्यन्यपरः स्यादत
प्रकाशः ।
सर्गप्रलययोः साधितत्वादित्याह । न चेति ॥ १६ ॥
न केवलं तत्र बाधकाभावः, अपि तु द्यावाभूमी जनयन् देव एक इत्यादिश्रुतयः साधिका अपि
सन्तीत्याह—
न चासाविति । शब्दयोर्मिथः प्रतिबन्धादपि न बाध इत्याह निरञ्जनेति । बाधकतयाभिमत
आगमः, आत्मनो यन्निरञ्जनत्वं विशेषगुणशून्यत्वं तद्धयेयमित्येवम्परो, न त्वकर्तृत्वबोधनपर इत्यर्थः।
प्रकाशिका।
सर्गप्रलययोरिति । सर्गेति सम्पातायातम् नित्यत्वं हि वेदस्य न व्योमादिवद् वाच्यम् , वर्णनि-
त्यत्वेऽप्यनित्यानुपूर्वीघटितत्वात्, किन्तु प्रवाहनित्यत्वं तन्न चेदं दूषणमित्यवधेयम् ॥ १६ ॥
शब्दयोरिति । यद्यपि मिथः प्रतिबन्धेन बाधो न भवत्येव । तथापि बाधपदेनात्र प्रतिबन्ध
एवोक्तः, विशेषगुणशून्यत्वमिति । अनित्यविशेषगुणशून्यत्वमीश्वरस्येत्यर्थः ॥
मकरन्दः।
सर्वविषयत्वमिति । तथा च तस्य जगत्कर्तृत्वं न्यायप्राप्तमित्यागमोऽन्यपरइत्यर्थः । सर्ग-
प्रलययोरिति । अत्र सर्गेति सम्पातायातम् । प्रलयेऽपि व्योमादिवन्नित्यागमसत्त्वे न विरोधः,
तथापि वर्णनित्यत्वेऽप्यानुपूर्वीघटितस्यानित्यत्वात् प्रवाहनित्यत्वात् प्रवाहनित्यत्वं वाच्यं, तन्नेदमु-
त्तरमिति भावः ॥ १६ ॥
शब्दयोरिति । यद्यपि मिथः प्रतिबन्धाद् बाधो न भवत्येव, तथापि बाधो न दोष
इत्यर्थः । साधकागमस्येति शेषः । बाधकतयाभिमतागमस्यान्यार्थपरतया विरोधाभावेनाप्रतिरोधकत्वा-
दिति भावः ॥
टिप्पणी।
सामाग्र्याभावात् चेतनस्य कर्तृत्वाभावे लिङ्गस्य व्यभिचारादितोऽभावादुक्तवाक्यार्थज्ञाननित्यमुपेय-
मित्यर्थः । सर्वविषयत्वमर्थसिद्धमिति। सर्वज्ञसिद्धौ तदभावपर उक्तागमः, प्रमाणत्वाय प्रथि-
तव्य इत्यर्थः ॥ १७ ॥
न ह्यसत्त्वपक्ष एवागमो नियतः । ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपा-
दनात् । तथा चाग्रे दर्शयिष्यामः । तथा च सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न
बाधकम् । सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेदापाततस्तावदेवमेतत् । यदा
तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते,
तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भवि-
ष्यतीति । न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः ॥ १७ ॥
अस्त्वर्थापत्तिस्तर्हि बाधिका, तथाहि—यद्यऽभविष्यन्नोपादेक्ष्यद्, न ह्यसाव-
नुपदिश्य प्रवर्त्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्या-
भावमौदासीन्यं वाऽऽवेदयति । न । अन्यथैवोपपत्तेः—
हेतुभावे फलाभावात् प्रमाणेऽसति न प्रमा ॥
तदभावात् प्रवृत्तिर्नो कर्मवादेऽप्ययं विधिः ॥ १८ ॥
बोधनी ।
उक्तं न चासौ इति । सत्त्वावेदकस्य नान्यत्र तात्पर्यमिति पञ्चमे वक्ष्याम इति । न हीत्याद्विचिर
णग्रन्थो गतार्थः ॥ १७ ॥
अथार्थापत्तेर्बाधकत्वं निराचिकीर्षुः शङ्कते अर्थापत्तिस्तर्हि इति । असौ सर्वज्ञः सर्वकर्त्ता
वेदाननुपदिश्यैव ज्योतिष्टोमादौ पुरुषान् प्रवर्त्तयितुं कलञ्जभक्षणादिभ्यश्च निवर्त्तयितुं शक्नोत्येवेति
तदर्थस्तस्योपदेशो व्यर्थ इति । नान्यथेति । जगत्कर्तुः सत्त्व एवोपदेशस्योपपत्तेः नासत्व इति ।
तदेवोपपादयन्नाह हेतुभावे इति । न तावदसति हेतौ फलस्यासंभवादसत्युपदेशात्मके प्रमाणे
प्रकाशः ।
उत्तरार्द्धं व्याचष्टे यदा त्विति ॥ १७ ॥
अर्थापत्तिबाधकत्वमुपन्यस्य निराकरोति अस्त्विति । न ह्यसाविति । असार्वज्ञ्यापत्ते-
रिति भावः । हेतुभावे इति । कारणाभावे कार्याभाव इति सामान्यव्याप्तौ कारणविशेषप्रमाणाभावे
कार्यविशेषप्रमा न स्यादित्यर्थः । तदभावेऽनिष्टमाह तदभावादिति । इच्छाद्वारा प्रमाजन्या
प्रवृत्तिरस्मदादीनां नेश्वरेण कारयितुं शक्या, ततः प्रवर्त्तनीयप्रमोत्पादनार्थमेवायमुपदेश इत्यर्थः ।
प्रमाया अभावेऽप्यदृष्टादेव प्रवृत्तिः स्यात् किं वेदेनेति मतेऽप्युपदेशानर्थक्यसेवादृष्टादेव
प्रवृत्तेरित्याह कर्मवादेऽपीति ।
प्रकाशिका ।
असार्वज्ञ्यत्वापत्तेरिति । उपदेशं विनापि यः प्रवर्त्तनोपायः, तस्याज्ञानादित्यर्थः । प्रथमपद-
वैयर्थ्याशङ्कायामाह सामान्यव्याप्ताविति । तथा च विशेषव्याप्तिसाधकत्वेनैव सामान्यव्याप्ति-
रुपन्यस्तेत्याशयः । शक्या इति । उपदेशं विनेति शेषः । उपदेशपदं विनापि सामान्यलक्षणा-
दिजन्यप्रमाद्वारा प्रवृत्तिं कारयितुं शक्यत एवेतीच्छाद्वारेति पूरणविशेषणं स्वीकृतम् , इच्छा चेष्ट-
साधनत्वादिकारकत्वज्ञानसाध्येति नोक्तदोषः । प्रमोत्पादनार्थमिति । इष्टसाधनत्वादिकारकप्र-
मकरन्दः ।
असार्वज्ञ्यापत्तेरिति । उपदेशं विना प्रवर्त्तकत्वस्याज्ञानादित्यर्थः । प्रमाणपदवैयर्थ्यमाश-
ङ्कयाह कारणाभाव इति । तथा च प्रमाणाभावेनेत्यपि मूलं सामान्यव्याप्तिविषयमित्यर्थः ।
इच्छाद्वारेति । उपदेशं विनेति शेषः । इच्छाद्वारेति पूरणं यद्यप्यफलं, तथापि प्रमामात्रं सामा-
न्यलक्षणादिसिद्धमुपपद्यते इतीच्छाजनकं यागादेरिष्टसाधनत्वज्ञानमुपदेशं विना नेत्याशयेन तदुक्तम् ।
प्रवर्त्तनीयेति । इष्टसाधनत्वादिकारकयागादिप्रमोत्पादनार्थमित्यर्थः । नन्वेवमपि वेदान्तररूप
५३ न्या० कु०
४१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १८ कारिकाव्याख्यायो
बुद्धिपूर्वा हि प्रवृत्तिर्न बुद्धिमन्तमन्तपाद्य शक्यसम्पादना, न च प्रकृते बुद्धिरप्युप-
देशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् । भूतावेशन्यायेन प्रवर्त्तयेदिति
चेत् । प्रवर्त्तयेदेव यदि तथा फलसिद्धिः स्यात् । न त्वेवम् । कुत एतदवसितम् ? ।
उपदेशान्यथानुपपत्त्यैव । यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिस्तस्यापि
तुल्यमेतत् । यद्यस्ति प्रवृत्तिनिमित्तमदृष्टं, किमुपदेशेन । तत एव प्रवृत्तिसिद्धेः । न
चेत् , तथापि किमुपदेशेन । तदभावे तस्मिन् सत्यप्यप्रवृत्तेः । नित्यः स्वतन्त्र उप-
देशो न पर्यनुयोज्य इति चेत् । यूयं पर्यनुयोज्याः ? ये तमवधानतो धारयन्ति विचा-
रयन्ति चेति ॥ १८ ॥
बोधनी ।
ज्योतिष्टोमादेः स्वर्गादिसाधनत्वविंषया ' प्रमा भवति, तदभावे च तन्नास्मदादीनां प्रवृत्तिः सिध्येदु-
पदेशश्च नोपदेष्टारं विनेति । ततस्तत्सिद्धिरितरथाऽयमनुयोगप्रकारकर्मवशाद् भूतानां प्रवृत्तिरिति
पक्षे सुलभः कर्मण एव प्रवृत्तिसिद्धेः किमुपदेशेनेति ॥
बुद्धिपूर्वा इति । न हीश्वरोऽपि वस्तुस्वभावातिक्रमेण प्रवर्त्तयतीति प्रकृतज्योतिष्टोमादेः स्वर्गा-
दिसाधनत्व इति । ननु यथा पिशाचादयः प्राणिन आविश्यांबुद्धिपूर्वकमेव प्रवर्त्तयन्ति तथैवायं
किमितिःन प्रवर्त्तयेदित्याह भूतावेशेति । अबुद्धिपूर्वकत्वमनुतिष्ठतां फलाभावान्न तथा प्रवर्त्तय-
तीत्याह प्रवर्त्तयेदेव इति । अबुद्धिपूर्वानुष्ठाने फलाभाव आप्तोपदेशान्यथानुपपत्तेरेवावसेय इति तुरीयं
पादं व्याचष्टे यस्यापि इति । तुल्यतामेवाह यद्यस्ति इति । न हि सत्यपि कारके ज्ञापकाभा-
वेन कार्यं निवर्त्तत इति । तदभावे इति । न हि कारकाभावे ज्ञापकसंभवेन कार्यं भवतीति नित्य
इति पर्यनुयोज्यस्तु कर्ता नास्तीति भावः । तथापि निरर्थकमिमुपदेशं धारयन्तः तदर्थं च विचा-
रयन्तो यूयं मीमांसकाः पर्यनुयोज्या इत्याह यूयम् इति ॥ १८ ॥
प्रकाशः ।
प्रवर्त्तयेदेवेति । विधिवक्येन स्वर्गकामप्रवृत्तिर्हि स्वर्गसाधनमिति बोधनाद् भूतावेशन्यायेन
जनिताऽपि प्रवृत्तिर्न स्वर्गसाधनमित्यर्थः । उपदेशान्यथानुपपत्त्या गत्यन्तरेणापि प्रवर्त्तनम-
शक्यमित्यवधार्यते इत्याह उपदेशेति । वेदादात्मश्रवणस्यापि मोक्षहेतुत्वाद्भेदरूप उपदेश
आवश्यकः, प्रतिपुरुषं भूतावेशादुपदेश एव लघीय़ानिति भावः । यद्यस्तीति । न चादृष्टम-
प्युपदेशात् प्रवृत्तौ स्यादिति वाच्यम् । उपदेशं विनाऽपि पूर्वादिष्टवशादेव यागादौ प्रवर्त्तेत, तद-
दृष्टमप्युपदेशमन्तरेण पूर्वप्रवृत्त्यैवेत्याशयात् । यूयमिति । न च वेदधारणविचारणयोर-
दृष्टजनकत्वश्रुतेरदृष्टार्थतया तयोरुपपत्तिः स्यादिति वाच्यम् । प्रवृत्त्यर्थमपि तदुभयकरणादिति
भावः ॥ १८ ॥
प्रकाशिका ।
मोहादनार्थमित्यर्थः । नन्वेवं आप्तोपदेशकवेदादन्य उपदेशो वेदरूपः किमर्थमत आह प्रतिपुरु-
षमिति ॥ १८ ॥
मकरन्दः ।
उपदेशः कथमित्यत आह प्रतिपुरुषमिति ॥ १८ ॥
टिप्पणी ।
प्रवृत्त्यर्थमपि तदुभयकरणादितीति । स्वर्गकामो यजेतेत्यादौ कामनाया अपि स्वर्ग-
साधनत्वश्रुतेः कामना च नेष्टसाधनत्वज्ञानं विना तच्च नोक्तोपदेशं विना तदर्थस्यालौकिकत्वादिति
प्रवृत्तावायातमपदेशापेक्षणमिति भावः ॥ १८ ॥
तृतीयस्तबके ] अर्थापत्तेर्बाधकत्वखण्डनम् । ४१६
न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसङ्कीर्णोदाहरणाभावात्, प्रकारा-
न्तराभावाच्च ।
तथाहि—
अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः ॥
न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥ १९ ॥
जीवंश्चैत्रो गृहे नास्तीत्यनुपपद्यमानमसति बहिःसद्भावे तमापादयतीत्युदाह-
रन्ति । तत्र चिन्त्यते—किमनुपपन्नं जीवतो गृहाभावस्येति, न ह्यनियम्यस्या-
नियामकं विना किञ्चिदनुपपन्नम् । अतिप्रसङ्गात् । ननु स्वरूपमेव तद् न ताव-
द्वहिःसत्त्वेन कर्त्तव्यं, तदकार्यत्वात् तस्य, स्थितिरैवास्य तेन विना न स्यादि-
त्यस्य स्वभाव इति चेत् । एवं तर्हि तन्नियतस्वभाव एवासौ व्याप्तेरेव व्यतिरे-
कमुखनिरूप्यायास्तथा व्यपदेशात् । कथं वा बहिःसत्त्वमस्योपपादकम् ? । न हि
बोधनी।
तदेवमर्थापत्तेः पृथक्प्रमाणत्वमङ्गीकृत्य बाधकत्वं निरस्तम्, इदानीमनुमानान्तर्भावात्तन्निरासेनेव
निरस्तमित्याह न च इति । अनुमानागोचरस्य प्रमेयस्याभावात् सामग्रीभेदाभावाच्च ततो न भिद्यत
इति । ननु व्याप्याद्व्यापकज्ञानमनुमानम् , अर्थापत्तिस्त्वनुपपद्यमानादुपपादककल्पनं, ततः साम-
ग्रीतो विषयतश्च भेद इत्याशङ्क्याह तथा हि इति । यद्धि येन नियम्यते तस्य तेन विनानुपपं-
र्त्तिर्नान्यस्य, तथा येन यन्नियम्यते तदेव तस्योपपादकं नान्यत् , नियमश्च व्यतिरेकः । ततश्चानु-
पपद्यमानोपपादकत्वाभ्यां व्याप्यव्यापकभाव एवाभिहितः स्यात् । अथ प्रमाणद्वयविरोधे सत्यविरो-
धापादनमर्थापत्तिरिति चेत्, मैवं व्याहतं भाषिष्ठाः । न हि विरोधिनोर्द्वयोरपि प्रामाण्यं संभवति
रज्जुसर्पज्ञानयोरिवान्यतरस्य मिथ्यात्वावश्यंभावात्, प्रमाणयोश्च सतोर्विरोध एव नास्ति स्थूलः शुक्ल
इति वद् द्वयोः समावेशसंभवात् । तस्माज्जीवतो गृहाभावात् वहिर्भावकल्पनमनुमानमेवं व्याप्तिब-
लेन जायमानत्वात् , अन्यथानुमानतया प्रसिद्धे धूमादावपि असौ अनुपपत्तिः प्रमाणद्वयविरोधश्च,
सम इति तदपि प्रमाणान्तरमापद्येतेति । व्याचष्टे जीवंश्चैत्रः इति । किमनुपपन्नं न किञ्चि-
दिति । तदेवाह न हि इति । ननु इति । गृहाभावस्वरूपमेव वहिर्भावेन विनानुपपन्नमिति । तन्न
तावत् इति । तत्स्वरूपमुत्पत्तौ तावन्न तेन विनानुपपन्नमिति । नन्वस्य गृहाभावस्य स्थितिस्तेन
वहिर्भावेन विना नोपपद्यत इत्याह स्थितिरैव इति । हन्तैवं गृहाभावस्तेन वहिर्भावेन नियतस्वभाव
इत्युक्तं स्यादित्याह एवं तर्हि इति । कुत इत्यत्राह व्याप्तेरेव इति । साध्येन विना नैव भवि-
तव्यं साधनेनेति हि व्यतिरेकव्याप्तेर्व्यपदेश इति । द्वितीयं पादं व्याचष्टे कथं वा इति । नन्वयं
स्वभावोऽस्य वहिःसत्त्वस्य यदनेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति, सत्येव वहिःसत्त्वे
प्रकाशः।
प्रकारान्तरेति ॥ अनुमानप्रकारापेक्षया फलवैजात्याभावाद् व्यापारभेदाभावाच्च भिन्नप्रका-
राभावादित्यर्थः ॥
अनियम्यस्येति ॥ अनियम्यस्याव्याप्यस्य न अयुक्तिरयोगोऽनुपपत्तिर्व्यापकमुपपादकं विना,
अपि तु व्याप्यस्य व्यापकं विनाऽनुपपत्तिः । अनियन्ता चाव्यापको नोपपादकोऽपि तु व्यापकत-
येत्यनुपपत्तौ व्याप्तिरस्त्येवेति तज्ज्ञानात् कल्पनमनुमानमेवेत्यर्थः । प्रमाणयोर्विरोधे चाविरोधायार्था-
पत्तिरिति मतान्तरं निरस्यति-न मानयोरिति ॥ एवमङ्गीकारे धूमादग्न्यनुमानमप्यर्थापत्तिरेव
स्यादित्याह प्रसिद्धे चापीति । एवं तर्हीति । जीवतो गृहाभावस्थितिरेव बहिःसत्त्वेन विना नेति
४२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां
अनियामको भवन्नप्यनियम्यमुपपादयति, अतिप्रसङ्गादेव। स्वभावोऽस्य यद-
नेन बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति चेत्। सेयं व्याप्तिरेवान्वय-
मुखनिरूप्या तथा व्यपदिश्यते इति। न वयमविनाभावमर्थापत्तावपजानीमहे,
किन्तु तज्ज्ञानम्, न चाऽसौ सत्तामात्रेण तदनुमानत्वमापादयतीति चेत्। न।
अनुपपत्तिप्रतिसन्धानस्यावश्याभ्युपगन्तव्यत्वात्। अन्यथा त्वतिप्रसङ्गात्, अर्था-
पत्त्याभासाऽनवकाशाच्च। यदा ह्यन्यथैवोपपन्नमन्यथाऽनुपपन्नमिति मन्यते
तदाऽस्य विपर्ययो, न त्वन्यथेति। तथापि कथमत्र व्याप्तिर्गृह्येतेति चेत्। यदाऽ-
हमिह तदा नान्यत्र, यदान्यत्र तदा नेहेति सर्वप्रत्यक्षसिद्धमेतत्, कां तत्रोपि
बोधनी।
गेहासत्त्वमिति यावत्, तदेतदाह एवम् इति(१)। तर्हीयं साध्येन सहैव साधनेन भवितव्यमित्य-
न्वये व्याप्तिरेवोक्ता भवेदित्याह सेयम् इति। न वयम् इति। ज्ञातस्यैवाविनाभावस्यानुमानसाम-
ग्रीत्वादिति भावः। न इति। अनुपपत्तिश्चाविनाभाव एवेत्युक्तमिति भावः। अर्थापत्त्याभा-
सेति। ज्ञानस्य हि हेतुत्वे तद्दोषाद्विपर्ययः संभवतीति। गृहाभावबहिर्भावयोर्व्यधिकरणत्वादुद्दर्महा
व्याप्तिरित्याशयेन पृच्छति तथापि इति। क्वचित्सत्त्वस्य ततोऽन्यत्रासत्त्वेन क्वचिच्चासत्त्वस्य ततोऽ-
न्यत्र सत्त्वेन व्याप्तेः सर्वेषां स्वात्मन्येवैकस्मिंश्च धर्मिणि सुग्रहत्वेन न काचिदत्र कथन्तेत्याह यदा-
हम् इति। ननु कथमेकत्र स्थितेन ततोऽन्यत्र स्वात्मनोऽभावः शक्यावगमः तेषां देशानामेवाप्र-
प्रकाशः।
व्यतिरेकव्याप्तिरेवेत्यर्थः। सेयमिति। वह्निनेव धूमं बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्य-
मतौ धूमे सति वह्निर्भवत्येवेतिवत् सति गृहासत्त्वे जीवतो बहिःसत्त्वं भवत्येवेति अन्वयव्याप्तिरे-
वेत्यर्थः। अर्थापत्तौ कल्प्यकल्पकयोर्व्याप्तिः सत्यपि न ज्ञाता कल्पनाङ्कमिति नैयमनुमानमित्याह
न वयमिति। एवं सत्यनुपपत्तिज्ञानं विनापि कल्पना स्यादिति तज्ज्ञानमावश्यकमित्याह अनु-
पपत्तीति। व्याप्तिज्ञानं विनानुपपत्तेरज्ञानादित्यर्थः। सत्तावस्थितव्याप्त्यैव कल्पनेऽन्यथोपपन्नेऽ-
प्यनुपपत्तिधिया उपपादककल्पना न स्यादित्याह-अर्थापत्त्याभासेति। विपर्यय इति।
उपपादककल्पनरूपो भ्रम इत्यर्थः। न च दोषादेव भ्रमः प्रमाप्रतिबन्धश्च स्यादिति वाच्यम्। यत्र
भ्रमस्तत्र वस्तुतो व्याप्तिरेव नेति कः दोषः सहकारी स्यादित्याशयात्। यदाऽहमिहेति। यद्य-
प्यन्वये जीवितगृहासत्त्वं व्याप्यं व्यापकं च बहिःसत्त्वं, विपर्यये तु बहिरसत्त्वं व्याप्यं गृहसत्त्वं च
प्रकाशिका।
नन्वेवमपि व्याप्तिज्ञाने नायातमित्यत आह व्याप्तिज्ञानं विनेति। उपपादकेति।
उपपादकत्वाभिमतैत्यर्थः। क दोष इति। त्वया स्वरूपसत्या एव व्याप्तेः कल्पनाङ्गत्वान्भ्युपगमाद्
दोषस्य च कल्पकनिरपेक्षस्य कल्पनाङ्गत्वान्भावादिति भावः। यद्यपीति। प्रकृते विवक्षितमिति
मकरन्दः।
नन्वेवमपि व्याप्तिज्ञानं नायातमत्त आह व्याप्तिज्ञानं विनेति। उपपादकेति। उपपादक-
स्वाभिमतकल्पनेत्यर्थः। केति त्वया स्वरूपसद्याप्तिरेव कल्पनाङ्गतेनाभ्युपगमादिति भावः। यद्य-
पीति। अत्र, कृते विवक्षितमिति शेषः। वैपरीत्येऽपि व्याप्यव्यापकभावसम्भवादिति ध्येयम्।
( १) एतदनुसारेण मूले 'अतिप्रसंगात् एवं स्वभाव' इति पाठो द्रष्टव्यः।
तृतीयस्तवके ] अर्थापत्तेर्बाधकत्वखण्डनम् । ४२१
कथन्ता ? । सर्वदेशाप्रत्यक्षत्वे तत्राभावो दुरवधारण इत्यपि नास्ति । तेषामेव
संसर्गस्यात्मनि प्रतिषेधात् । अयोग्यानां प्रतिषेधे का वार्तेति चेत् । तदवयवानां
तत्संसर्गप्रतिषेधादेवानुमानाद् अन्येषां न काचित् , न ह्यकारणीभूतेन परमाणुना
नेदं संसृष्टमिति निश्चेतुं शक्यमिति । न चाऽविनाभावनिश्चयेनापि गमयन्नपद्येत-
बोधनी ।
त्यक्षत्वेन योग्यानुपलम्भाभावादित्याशङ्क्याह सर्वदेश इति । न हि तेषु स्वात्मनो निषेधः किन्तु
स्वात्मनि तेषां संसर्गस्य निषेधः । स्वात्मा च प्रत्यक्ष एव, प्रतियोगिनश्च ते स्मरणमात्रेणोपयु-
ज्यन्ते न प्रत्यक्षत्वेनेति । स्वात्मनि वा कथमयोग्यानां प्रतिषेध इत्याह अयोग्यानाम् इति । तत्रा-
योग्याः परमाण्वादयो द्विविधाः आरब्धस्थूलकार्यावयवभूताः केवलाश्च । तत्र पूर्वेषां स्वात्मनि
निषेधः तदारब्धस्थूलावयविसंसर्गनिषेधादनुमानत एव सुकरस्तदंसंसर्गस्य तदवयवासंसर्गेण व्याप्तेः,
उत्तरेषां तु संसर्गनिषेधे न काचिद्वार्त्ता प्रमाणाभावेनाशक्यत्वादित्याह तदवयवानाम् इति ।
अस्त्येवाविनाभावनिश्चयोऽप्ययमर्थापत्तेः, तथापि नानुमानत्वं पक्षधर्मत्वाभावादित्यत्राह नचावि-
नाभावेति । एवं ह्यनुमानेऽपि पक्षधर्मत्वं निमित्तं न स्यात् व्यधिकरणेनापि साधनेन साध्य-
सिद्धयुपपत्तेरिति । न च व्यधिकरणेन साध्येनाविनाभावः शक्यनिश्चयः, यत्साधनं यत्र देशे
यदा यस्मिन् कालेऽस्ति तत्र तदा वा तत्साध्यमिति देशतः कालतो वा सामानाधिकरण्येनेवाविना-
प्रकाशः ।
व्यापकमिति यथोगप्राथ्याभ्यां यदा नान्यत्र तदाऽहमिह, यदा नेह तदाऽन्यत्रेति वक्तुमर्हति ।
तथापि यत्तदोर्नियमित्त्यैव सम्बन्धः कार्यः, तेन यदा जीवतो गृहासत्त्वं तदा बहिःसत्त्वमित्यन्वय-
व्याप्तिः, यदा तु बहिरसत्त्वं तदा जीवतो गृहसत्त्वमिति व्यतिरेकव्याप्तिरुक्ता । सर्वत्र बहिरभाव एव
प्रत्येतुमशक्योऽधिकरणानामयोग्यत्वादित्याह सर्वदेशेति । न तेषु तेषु देशेष्वभाव निश्चयः,
किन्त्विन्द्रियग्रहणयोग्यानां तावदात्मनि संसर्गाभावो योग्यानुपलब्ध्या निश्चीयते इत्याह—तेषामे-
वेति । सर्वदेशानामित्यर्थः । अयोग्यानामिति । तत्र योग्यानुपलब्धेरसामर्थ्यादित्यर्थः । तद-
वयवानामिति । योग्यानामयोग्या येऽवयवाः, तेषामवयविसंसर्गनिषेधादेव संसर्गनिषेधो निश्चयः ।
न हि यद् येनावयविना न संसृष्टं तत् तदवयवसंसृष्टम् । अवयवावयविविधुरातीन्द्रियद्रव्यसंसर्गस्य
च न विधिनिषेधवार्त्ता, उभयत्र मानाभावादित्यर्थः । ननु जीविगृहभाववहिःसत्त्वयोर्व्याप्तावपि
जीविदेवदत्ताभावो गृहे वर्त्तमानो न बहिःसत्त्वे लिङ्गं, देवदत्तवृत्तित्वा नित्यनुमानाद्भेदोऽर्थापत्तेः
स्यादित्यत आह—न चेति । गृहनिष्ठाभावप्रतियोगित्वस्य लिङ्गत्वातस्य च देवदत्तवृत्तितया पक्ष-
धर्मत्वादित्यर्थः । अन्यथा बहिःसत्त्वगृहनिष्ठाभावयोर्व्यधिकरणत्वेन नियतसामानाधिकरण्यरूपा
व्याप्तिरपि न स्यात् । उपरि सविता भूमेरालोकवत्त्वादित्यत्रापि भूमेरुपरि सन्निहितसवितृकंत्वेनारनु-
प्रकाशिका ।
वाक्यशेषः, वैपरीत्येऽपि व्याप्यव्यापकभावसम्भवादिति ध्येयम्, यदा नेति व्याप्य एव नञर्थस्य
प्रवेशादिति भावः । उभयत्रेति । यद्यप्येवमपि व्याप्तिनिश्चयोऽशक्य एव तथापि प्रत्यक्षाभावेप्यनु-
मानादिना तन्निश्चयसम्भव इति भावः । व्याप्तावपीत्युपलक्षणम् । तन्निश्चयेपीत्यपि द्रष्टव्यम् ।
उपरीति । तथा च तत्रापि सामानाधिकरण्यमस्त्येवेति भावः । ननु स्थूलमिदमेकमेव ज्ञानमिति द्विती-
मकरन्दः ।
यदा नेति । व्याप्य एव नञर्थप्रवेशादिति भावः । उभयत्रेति । यद्यप्येवं संशय इति न व्याप्ति-
निश्चयः स्यात् , तथापि प्रत्यक्षाभावेऽप्यनुमानादपि तत्सम्भव इति भावः । व्याप्तावपीत्युपलक्षणं,
तन्निश्चयेऽपीत्यपि बोध्यम् । उपरीति । तथा च तत्रापि सामानाधिकरण्यमेव व्याप्तिरित्यर्थः ।
ननु स्थूलमिदमेकमित्येकत्वज्ञानमिति द्वितीयंस्य प्रतियोगिनोऽभावदिच न विरोध इत्यंशाहङ्ख्याह
४३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां
र्माऽर्थापत्तिरिति युक्तम् । पक्षधर्मताया अनिमित्तत्वप्रसङ्गात् । अविशेषात्, व्यधि-
करणेनाविनाभावनिश्चयायोगाच्च—यद् यत्र यदेति प्रकारानुपपत्तेः ।
प्रमाणयोर्विरोधे अर्थापत्तिर्विरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति ।
विरोधे हि रज्जुसर्पादिवदेकस्य बाध एव स्यान्न तूभयोः प्रामाण्यम् । प्रामाण्ये
वा न विरोधः। स्थूलमिदमेकमितिवत् सह संभवात् । चैत्रोऽयमयं तुमैत्र इति वद्वा
बोधनी ।
भावस्य निरूपणीयत्वादित्याह व्यधिकरणेनेति । अत्रापि हि देवदत्तं पक्षीकृत्य तस्य बहिःसत्त्वं
गृहासत्त्वेन साध्यत इति पक्षधर्मत्वोपपत्तिरिति भावः ।
तृतीयं पादं व्याचष्टे प्रमाणयोरिति । ननु प्रकृतोदाहरणे जीवनग्राहकस्य गणितानुमानस्य
क्वाप्यस्तीति सामान्यतः प्रवृत्तत्वेन सामान्यानुप्रवेशिनो गेहस्यापि क्रोडीकरणाद्भावप्रमाणेन सहै-
मानादित्याह—व्यधिकरणेनेति । प्रकाशः।
ननु गृहनिष्ठाभावप्रतियोगित्वमपि न लिङ्गम् । प्रतियोगित्वस्य देवदत्तधर्मतया तदसंनिकर्षे
प्रत्यक्षेण ज्ञातुमशक्यत्वात् । कथं वा प्रत्यक्षेण तृतीयलिङ्गपरामर्शः । विशेष्यस्य देवदत्तस्यासंनि-
कर्षात् । व्यतिरेकव्याप्तिगृहनिष्ठाभावयोर्ज्ञानं सहकार्यासाय मनसैव लिङ्गपरामर्श इति चेन्न । अक्षा-
दिवत्तयोर्मानान्तरत्वापातात् । अतीतानागतधूमादप्यनुमितिः कथम् ? तत्रापि लिङ्गपरामर्शा-
भावादिति चेन्न । तत्रापि धूमज्ञानसहकृतादग्निं विना धूमोऽनुपपन्न इति ज्ञानत एवान्वयिज्ञानात् ,
उक्तरीत्याऽनुमितिसामग्र्यभावात् । यत्र चानुपपत्तिज्ञानं विना तृतीयलिङ्गपरामर्शः तत्रैवानुमानात् ।
तस्माद्व्यतिरेकव्याप्तिमुपजीव्य व्यधिकरण एव जीविदेवदत्तगृहभावो बहिःसत्त्वं कल्पयतीति ॥
मैवम् । देवदत्तासंनिकर्षेऽपि तस्य गृहनिष्ठाभावप्रतियोगित्वज्ञानात् । तथाहि—गृहे देवद-
त्तस्याभाव इति प्रत्यक्षेण जायमानमभावज्ञानं, स्मृतं देवदत्तस्य प्रतियोगित्वमपि विषयीकरोति । प्रति-
योगिना सममभावस्य सम्बन्धान्तराभावात् । गृहनिष्ठाभावप्रतियोगित्वे च प्रत्यक्षोपस्थिते स्मृतव्या-
प्तिवैशिष्ट्यमपि प्रत्यक्षेण सुग्रहम् । न च देवदत्तविशेष्यकं बहिःसत्त्वव्याप्यगृहनिष्ठाभावप्रतियो-
गित्वज्ञानं नास्तीति कथं तद्विशेष्यिकानुमितिरिति वाच्यम् । पक्षवृत्तित्वलिङ्गपरामर्शमात्रस्यानुमिति-
हेतुत्वात्, पक्षविशेष्यकत्वस्य चातन्त्रत्वात् ।
सम्प्रदायविदस्तु—अनतिप्रसक्तव्याप्त्यादिस्मृतिसहकृतन्मनस एव तत्र स्मृतदेवदत्तविशेष्यक-
स्तुतीयलिङ्गपरामर्शः । न च सहकारिणो मानान्तरताऽऽपत्तिः, निर्व्यापारत्वादित्याहुः ।
जीवो क्वचिदस्तीति क्वचित्त्वेन गेहस्यापि विषयत्वात् पश्चाद् गेहे नास्तीत्यनयोर्गेहेऽस्ति नास्ती-
त्यत्रेव विरोधज्ञानं करणम् । क्वचिदित्यस्य गेहातिरिक्तविषयत्वकल्पनमविरोधापादकं फलम् । न
चानुमानमत्र प्रभवतीति ततोऽर्थापत्तेर्भेद इति मतमुत्थाप्य निराकरोति—
प्रमाणयोरिति । प्रमाणयोर्विरोधो वास्तवो वा, वस्तुतोऽविरोघेऽपि ज्ञायमानो वा ? । तत्र
नाय इत्याह विरोधे हीति । प्रामाण्ये वा उभयोर्वस्तुनोर्विरुद्धद्वैरूप्यापत्तिरिति भावः । स्थूल-
मिति । यथा घटे स्थौल्यैकत्वग्राहकमानयोर्न विरोधस्तथाऽत्रापीत्यर्थः । अन्त्यं शङ्कते
प्रकाशिका ।
यस्य प्रतियोगिनोऽभावान्न विरोध इत्यत आह यथेति । ननु विरोधज्ञानस्यैव कारणत्वात् किमनुपपद्य-
मकरन्द ।
यथेति । ननु प्रमाणद्वयविरोधज्ञानस्य करणत्वात् किमनुपपद्यमानमित्यसङ्गतमित्यत आह-
टिप्पणी ।
गेहे अस्ति नास्तीत्यत्रेवेति । आपाततो गृहीतस्य विरोधस्योपशमनीयताग्रहः कारणम् ,
प्रमाणयोरुक्तज्ञानयोर्विभिन्नविषयत्वं विनाऽविरोघोऽनुपपन्न इति ज्ञानाद्व्यापारः ।
तृतीयस्तबके ] अर्थापत्तेर्बाधकत्त्वखण्डनम् । ४२३
विषयभेदात् । प्रकृते काप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताऽप्य-
स्तीति चेत् । यद्येवं कचिदस्ति कचिन्नास्तीत्यन्न विरोधः । अत्रापि विरोध एवेति
चेद् , एकं तर्हि भज्येत । न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत् ।
किमनुपपद्यमानम् । विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थाप-
यतीति चेत् । अथाभिन्नविषयतयैव किं न व्यवस्थापयेत् ? । व्यवस्थापनमवि-
रोधापादनम् , एकविषयतयैव चानयोर्विरोधः, स कथं तयैव शमयितव्यः, न
हि यो यद्विषमूर्च्छितः स तेनैवोत्थाप्यते इति चेत् । एकविषयतया अनयोर्विरोध
इत्येतदेव कुतः । विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत् । नन्वियं
व्याप्तिरेव । तथा च घट्टकुट्यां प्रभातमिति । धूमोऽपि वा अनुपपद्यमानतयैव वह्निं
बोधनी ।
क्वचिद्विषयताप्यस्तीत्याह प्रकृते इति । एवं तर्हि भिन्नसामान्यविशेषविषयतया न विरोध इत्याह यद्ये-
वम् इति । नन्वत्राप्यनिर्धारितदेशविषययोरस्तित्वनास्तित्वप्रमाणयोः एकस्य विषयेऽन्यस्यानुप्रवेशा-
दस्त्येव विरोध इत्याह अत्रापि इति । यद्यत्रापि विरोध एव तर्ह्यन्यतरद् बाध्यतेत्याह एकम्
इति । नन्वर्थापत्त्या भिन्नविषयत्वेन व्यवस्थापनान्नैकस्यापि भङ्ग इत्याह न भज्येत इति । सिद्धान्ती
गूढाशयः पृच्छति किमनुपपद्यमानम् इति । एवमर्थापत्तिः प्रवर्त्ततेति पूर्वपक्ष्याह विरोध एव
इति । व्यवस्थापयति प्रमाणद्वयमित्याशयमुद्घाटयन्नेव पुनः पृच्छति अथ इति । अज्ञातपराशय
एवैतर आह व्यवस्थापनम् इति । ततः किमित्यत आह एकविषयतया इति । ततोऽपि किमि-
त्याह स कथम् इति । विषान्तरमूर्च्छितो विषान्तरेणैवोत्थाप्य भवति न तु तेनैवेत्युक्तं यद्वि-
षेति । आशयमाविष्कर्तुं पुनरपि पृच्छति एकविषयतया इति । पूर्वपक्ष्याह विभिन्नेति ।
सिद्धान्ती स्वाशयमाविष्करोति नन्वियम् इति । अयमस्तित्वनास्तित्वप्रमाणयोर्भिन्नदेशसंवन्धि-
त्वस्वभावो व्याप्तिरेव स्वभावप्रतिबन्धलक्षणत्वाद् व्याप्तेस्तथा चानुमानत्वप्रसङ्गभयाद् व्याप्तिं परिहर्त्तुं
प्रवृत्तेन सैव स्वीकृता स्यात् , तथा च घट्कुटीप्रभातम् । घट्कुटी नाम शौल्किकशाला । यथा
हि शौल्किकेभ्यो बिभ्यतो रात्रावेव शुल्कशालातिक्रमितव्येति गच्छतः पान्थस्य तस्यामेव प्रभाता
शर्वरी तयेदमपीति । तुरीयं पादं व्याचष्टे धूमोऽपि वा इति । यदि सतोऽपि व्याप्तिपक्षधर्मतयो-
प्रकाशः ।
अत्रापीति । उक्तस्फोरणेन निराकरोति एकमिति । अर्थापत्त्येति । विषयभेदकल्पनेनेति शेषः ।
किमिति । अनुपपन्नतया ज्ञातस्यैवोपपादनादित्यर्थः । अथेति । विरोधज्ञानान्यथानयोरविरोधक-
ल्पनमेकविषयतयैव किम क्रियते ? कृतकत्वानित्यत्वयोरिव तेनापि विरोधव्यावृत्तेरुपलम्भादि-
त्यर्थः । प्रमाणयोर्वैषयिकविरोधज्ञानं विषयभेदकल्पनया शाम्यति, विरोधंप्रतिसन्धानस्य भावा-
भावग्राहकमानयोरेकविषयतयैवोपलम्भात् , तथा च व्याप्तिज्ञानमावश्यकमित्याह-नन्विति ।
घट्टकुट्यामिति । व्याप्तिभिया विरोधे अविरोधापादनाकारगोपनेन पलायमानस्य व्याप्तावेव
निपातादित्यर्थः । एवमनङ्गीकुर्वतः प्रसिद्धानुमानमर्थापत्तिरेवेति तद्विलोप इत्याह धूमोऽपीति ।
प्रकाशिका ।
मानमित्यसङ्गतमत आह अनुपपन्नतयेति । विरोधज्ञानकारणतापत्तेऽपीति भावः । तेनापीति ।
एकविषयतयेनापीत्यर्थः । प्रमाणयोरिति । यत्र यत्र विरोधज्ञानं तयोरतत्रैकविषयतयैव यत्र वा वैषयि-
मकरन्द ।
अनुपपन्नतयेति । तेनापीति । एकविषयतयेनापीत्यर्थः । प्रमाणयोरिति । यत्र यत्र विरोधज्ञानं
तयोस्तत्रैकविषयतयैव, यत्र वा वैषयिकविरोधज्ञानशान्तिस्तत्र विषयभेदकल्पनयैवेति व्याप्तिरेवेत्य-
४२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां]
गमयेत्, न हि तेन विना असावुपपद्यते । विरोधोऽपि, धूमाद्वह्निना भवितव्यम् ,
अनुपलब्धेश्च न भवितव्यमिति । तथाचानुपलब्धेरर्वाग्भागव्यवस्थापनं, धूमस्य च
व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरर्थापत्तिरिति कुतोऽनुमानम् । वह्निमानय-
मित्यनुमानं व्याप्तेः । अन्यथाऽनुमानाभावे विरोधासिद्धेः। अर्वाग्भागानुपलब्धि-
विरोधेन परभागेऽस्य वह्निरित्यर्थापत्तिरेवेति चेन्न । व्याप्तिग्राहकेन प्रमाणेन विरो-
धस्योक्तत्वात् । नाप्युत्तरार्थापत्तिः । अन्यथा पाण्डुरत्वस्यापालालत्वविरोधेन
बोधिनी ।
रनुपपद्यमानतया गृहाभावो बहिर्भावं गमयेत्ततोऽनुमानत्वोच्छेद इति । न केवलमनुपपत्तिः प्रमाण-
द्वयविरोधोऽपि तत्र वक्तुं शक्यत इत्याह विरोधोऽपि इति । सति धूमे वह्निना भवितव्यमिति
वह्नेः सत्तामेकं प्रमाणं गमयति, अनुपलब्धिश्चासत्तां प्रमाणस्य व्यवहितदेशवह्निविषयत्वव्यवस्था-
पनमर्थापत्तिरेव स्यादिति । ननु चैवमनुमानोच्छेदः धूमाद्वह्निना भवितव्यमित्यस्यानुमानत्वात्तस्य
त्वनुपलब्धिविरोधपरिहाराय पर्वतपरभागव्यवस्थापनमर्थापत्तिरित्याह वह्निमानयम् इति । न
इति । न वयमिदानीं तेन धूमज्ञानजन्मना वह्निज्ञानेनानुपलब्धिविरोधं ब्रूमः येनानुमानमास्पदं
लभेत, किं तर्हि ? पूर्वकालीनेन यत्र यत्र धूमस्तत्र तत्राग्निरस्तीति व्याप्तिग्राहकप्रमाणेनेदानीमनुस-
न्धीयमानेन, अतो न प्रमाणद्वयविरोधसिद्ध्यर्थमनुमानाङ्गीकार इति, परभागावस्थापनं च नार्थापत्ति-
रित्याह नापि इति । यदि तु विरुद्धयोर्विषयव्यवस्थापनमेवार्थापत्तिः स्यात् ततः पाण्डरधूमस्य
पालालाग्निना व्याप्तत्वेनापालालत्वविरोधात् पालालत्वव्यवस्थापनमर्थापत्तिः स्यादित्याह अन्यथा
इति । ननु पाण्डरत्वविशिष्टस्य पालालत्वेन व्याप्तिर्भवन्ती पालालत्वव्यवस्थितिरर्थापत्तिरित्याह
प्रकाशः ।
तदेव स्पष्टयति न हीति । धूमाद् वह्निना भाव्यमित्येनेनानुपलब्धेर्विरोधस्तदा, यदि धूमो वह्नय-
नुमापकः स्यान्नान्यथा, तथा च सिद्धमनुमानम्, देशभेदेन तयोर्विरोधापादनमर्थापत्तिफलमेवे-
त्याह वह्निमानयमिति । नात्रानुमानेन सममनुपलब्धेर्विरोधः, किन्तु वह्निधूमव्याप्तिग्राहकमा-
नेनेत्याह व्याप्तीति । यदि च सामान्यग्राहकमानस्य विशेषतोऽनुपलब्धिरबाधिका, तदा क्वचि-
दस्तीत्यस्यापि गेहे नास्तीत्यनेन सह न विरोध इत्यर्थः । नापीति । अर्वाग्भागानुपलब्धि-
विरोधेनेत्याद्युक्तरूपेन्त्यर्थः । यदि च नैवं, तदा पाण्डरधूमस्यापालालवह्निविरोधात् पालालत्वसिद्धिर-
प्यर्थापत्तिरेव स्यादित्याह अन्यथेति । तेनैव, परभागवह्निर्नैवेत्यर्थः । ननु केवलव्यतिरेकिणि
प्रकाशिका ।
कविोधज्ञानशान्तिः तत्र विषयभेदकल्पनयैवेति व्याप्तिरेवेत्यनुमानादेव विषयभेदकल्पनापीति नार्था-
पत्तिरित्यर्थः । सामान्येति । पर्वतसामानाधिकरण्यमात्रेण वह्निग्राहकमानस्येत्यर्थः । विशेषत
इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च तत्र ज्ञानं न कारणमिति भावः ।
वह्निमानित्यनुमानं व्याप्तिरिति स्यैवार्थान्तरमुत्तरपदेनोक्तमत्रेति भ्रमनिरासायाह अर्वाग्भागेति ।
यद्यपि प्रमाणयोरेव विरोधः परेणार्थापत्तित्वाभिमतो न च प्रकृते तथा, तथापि व्याप्तिज्ञानसत्वेपि
प्रमाणयोश्चेद्विरोधः अर्थापत्तिः स्यादित्यविरोधान्तरमपि तथा स्यादित्याशयेनेदमुक्तमिति ध्येयम् ।
मकरन्दः ।
नुमानादेव विषयभेदकल्पनाऽपीति नार्थापत्तिरित्यर्थः । सामान्येति । पर्वतो वह्निमानिति सामा-
न्यतो ग्राहकस्येत्यर्थः । विशेषत इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च
कुतस्तज्ज्ञानं करणमिति भावः । ननु वह्निमानित्यमित्यादि पूर्वपक्षे प्रथमं नार्थापत्त्यन्तरमुक्तं, तथा
च नाप्युत्तरेत्यसङ्गतमत आह अर्वाग्भागेति । यदि चेति । यद्यपि प्रमाणयोरेव विरोधस्तथा-
त्वेन परामिप्रेतः प्रकृते च न तथा, तथापि यत्रापि व्याप्तिस्तत्र मानान्तरकल्पने विरोधान्तरस्यापि
तृतीयस्तवके ] : अर्थापत्तेर्बाधकत्वखण्डनम् । ४२५
पालालत्वस्थितिरप्यर्थापत्तिरेव स्यात् । तद्विशिष्टस्य तेनैव व्याप्तेर्नैवमिति चेत् ।
यद्येवमर्वाग्भागानुपलभ्यमानवह्नित्वेन विशिष्टस्य धूमस्य तेनैव व्याप्तेः कथमर्वा-
भविष्यतीति तुल्यम् । केवलव्यतिरेक्यनुमानं पराभिमतमर्थापत्तिरन्वयाभावादिति
चेत् । एवं तावता विशेषेणानुमानेऽर्थापत्तिव्यवहारं न वारयामः । तत्रानुमानव्य-
वहारः कुत इति चेत् । अविनाभूतलिङ्गसमुत्पन्नत्वात् । साध्यधर्मेण विना ह्यभव-
नमन्वयिन इव व्यतिरेकिणोऽप्यविशिष्टं, तन्निश्चयश्चाऽन्वयव्यतिरेकाभ्यामन्यतरेण
बोधनी ।
तद्विशिष्टस्य इति । तर्हि विशिष्टस्य धूमस्य वह्निना परभागवर्तिना व्याप्तिर्भवन्ती परभागव्यव-
स्थितिव्वा कथमर्थापत्तिः स्यादित्याह यद्येवम् इति । ननु यत्केवलव्यतिरेक्यनुमानत्वेन नैयायिका-
नामभिमतं तदेव नोऽस्माक्रमर्थापत्तिरन्वयव्याप्त्यभावेन तस्यानुमानत्वायोगात् इत्याह केवलव्य-
तिरेकीति । अस्त्वन्वयो नास्तीत्येतावता विशेषेणार्थापत्तिव्यवहारः, न तावताऽनुमानत्वहानि-
रित्याह एवम् इति । तत्र केवलव्यतिरेकिणि असत्येवान्वये किंनिबन्धनमनुमानत्वमित्याशङ्कयाह
अविनाभूतेति । अविनाभावेन तन्निश्चयेन च मामकं ह्यनुमानं केवलव्यतिरेकिणि चाविनाभा-
वस्तन्निश्चयश्चास्तीत्यनुमानमेव, केवलमेतावान् विशेषः अन्वयव्यतिरेकिणि लिङ्गेऽन्वयव्यतिरेकाभ्यां-
प्रकाशः ।
साध्यसाधनाभावयोर्व्याप्तिरन्वयस्य पक्षधर्मत्वमिति न व्याप्तस्य पक्षधर्मतेत्यनुमानाभावेऽर्थापत्तिः
स्यादित्याह केवलैति । व्यतिरेकव्याप्तावपि पक्षधर्मस्यान्ययस्य गमकत्वम् । न चातिप्रसङ्गः ।
प्रतियोग्यनुयोगिभावस्य नियामकत्वात् । तथा चानुमितिसामग्र्यस्त्येव, परिभाषा त्वंपर्यनुयोज्ये-
त्याह एवमिति । वस्तुतो व्यतिरेकयोः संचारादन्वययोरेव व्याप्तिः, प्रतियोग्यनुयोगिभावस्य
नियामकत्वादिति व्याप्तस्य पक्षधर्मत्वमस्त्येवेति भावः । अन्यतरेण वेति । केवलान्वयिव्यतिरेकि-
णोरित्यर्थः ।
ननु ज्योतिःशास्त्राद् देवदत्तस्य शतवर्षजीवित्वे ज्ञाते, अथ शतवर्षजीवो गृह एवेति नियमे
प्रत्यक्षेण निषिद्धे, पश्चाद् योग्यानुपलब्ध्या निश्चिते गृहाभावो जीवननियमग्राहकसामग्र्योर्बलाबलानि-
रूपणाद् बहिःसत्त्वकल्पनां विना नियमद्वयविषयं संशयं जनयित्वा, जीवनसंशयमापाद्य, तदपनुत्तये
जीवनोपपादकं बहिःसत्त्वं कल्पयति, यथोक्तसामग्र्यनन्तरं बहिरस्तीति प्रतीतेः । तत्रान्वयव्य-
तिरेकाभ्यां जीवनसंशय एव करणम् । जीवित्वाल्लिङ्गविशेषणसन्देहेऽनुमानाभावात् । यथोक्तसामग्री-
प्रभवसंशयस्य च कल्पनाङ्गत्वान् स्थाणुपुरुषसंशयस्य मृतजनिष्यमाणयोर्गृहाभावनिश्चयस्य च तादृ-
शसंशयाजनकस्य नैककोटिनिर्वाहकबहिःसत्त्वकल्पकत्वम् ॥
अथ जीवननियमग्राहकमानयोस्तुल्यबलत्वज्ञाने विशेषादर्शनान्न वहिःसत्त्वकल्पनो, एकस्य
बलवत्त्वाज्ञाने च तेनान्यस्य बाध एवेति न संशयः । तस्माज्जीवनगृहाभावयोर्निश्चय एव वहिःसत्त्वं
कल्प्यते, न तु जीवनसंशये इत्यनुमानादेव बहिःसत्त्वसिद्धिः ॥
तन्न । योग्यानुपलब्धिजनितो गृहाभावनिश्चयः सुदृढ इति जीवननियमग्राहकयोरेकं बाध्यं,
विरुद्धयोरमानत्वात् । तदिह मरणं कल्पयित्वा जीवनग्राहकं बाध्यतामुत बहिःसत्त्वं कल्पयित्वा
मकरन्दः ।
तथात्वं स्यादित्याशयेन तदुक्तमिति ध्येयम् । तथा चार्थपत्तिकल्पितमित्यत एवकारो भिन्नक्रमः ।
तथा च तस्यां दशायां मानान्तराभावादर्थापत्तिकल्पितं जीवित्त्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमा-
नाद्वहिःसत्त्वज्ञानं त्वयाऽपि वाच्यम्, एवञ्चावश्यकतयाऽर्थापत्त्यैव वहिःसत्त्वनिश्चयोऽस्तु, कृतम-
न्तरा जीवित्त्वनिश्चयेनेति तर्कशरीरमेवेदं द्रष्टव्यम् । तेन संशयस्य वहिःसत्त्वकल्पकत्वादिति नोप-
संहारविरोधः, न वा जीवित्त्वस्यार्थापत्तिकल्प्यतोपवर्णनेऽपसिद्धान्त इति ।
५४ न्या० कु०
४२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १९ कारिकाव्याख्यायां
वेति । तस्मादर्थापत्तिरित्यनुमानस्य पर्यायाऽयं तद्विशेषवचनं वा पूर्ववदादिवदिति
युक्तम् ॥ १९ ॥
बोधनी ।
मविनाभावो निश्चीयते, नत्वन्वयिन्यन्वयेनैव व्यतिरेकिणि व्यतिरेकेणैवेति अर्थापत्तेरनुमानान्त-
र्भावमुपसंहरति तस्मात् इति ॥
प्रकाशः ।
नियमग्राहकम् ? । तत्र वहिसत्त्वकल्पने गृहनियमग्राहकमात्रबाधा, मरणकल्पने तु शतवर्षजीवी
देवदत्तः, शतवर्षजीवी गृहे एवेति नियमद्वयस्य बाधः स्यात् । तथा चार्थपत्तिकल्पितं जीवित्वमु-
पजीव्यानुमानादेव बहिःसत्त्वज्ञानं भविष्यतीत्येतावत्तर्कसहितस्य यथोक्तसामग्रीप्रभवसंशयस्य बहिः-
सत्त्वकल्पकत्वात् । न च तस्यां दशायां मानान्तरमस्ति, ततोऽर्थापत्तिसहकारित्वं तर्कस्य । यत्र
च मृतेः गृहस्थिते वा तादृशसंशयाद्वहिःसत्त्वकल्पना, तत्र जीवननियमग्राहकयोरन्यतराभासत्वं,
परोक्षज्ञानस्य जनकज्ञानाप्रमात्वेनाप्रमात्वनियमात् ॥
अत्राहुः-देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टमभावरूपमरणापे-
क्षया जीवनं भावरूपं विषयीकरोति लाघवादिति तत्रैव लाघवं सहकारि ! तथाहि-यथोक्तसंशयद-
शायां जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति तर्कानन्तरमेव बहिःसत्त्वज्ञानमित्यविवादम् ।
तन्न कॢप्तप्रमाणभावे सामान्यतोदृष्ट एव लाघवं सहकारि, न तु कल्पनीयप्रमाणभावे यथोक्तसंशये,
गौरवात् ।
'यच्चोक्तं-'मरणकल्पने शतवर्षावच्छिन्नजीवी गृह एवेत्यस्यापि बाध' इति । तत्र विशिष्टबाधो
विशेष्यबाधात् ० मरणेऽपि जीवी गृह एवेत्यस्य विशेष्यस्याबाधात् ० किन्तु विशेषणबाधात् ।
स च शतवर्षजीवित्वबाध एव । विशेषणाभावायत्तो विशिष्टाभावोऽप्यऽस्तीति चेन्न ! विशेष्यवति
विशिष्टाभावस्य विशेषणाभावात्मकत्वादिति सङ्क्षेपः ।
पूर्ववदादिवदिति । त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टम् (न्याय० १. १. ५)
इति सूत्रे पूर्ववदादिरनुमानविशेष उक्तः ॥ १९ ॥
प्रकाशिका ।
ततोऽर्थापत्तिकल्पितमिति । एवकारो भिन्नक्रम उपजीव्येत्यत्रान्वेति, तथा च मानान्तरा-
भावेऽर्थापत्त्या जीवित्वलिङ्गविशेषणत्वनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वया वाच्यं तद्वरं अर्थापत्यैव
बहिःसत्त्वनिश्चय इत्येव स्वीक्रियतां लाघवाय कृतमर्थान्तराजीवित्वज्ञानेनेति तर्कशरीरमेव सर्वमिदं
द्रष्टव्यम्, अन्यथा यथाश्रुते संशयस्य बहिःसत्त्वकल्पकत्वादित्युपसंहारविरोघो जीवित्वस्यार्थापत्तिविष-
यत्वेऽपसिद्धान्तश्चेति दोषापत्तेः । तत्र जीवनेति । अत्र नियमग्राहकपदेन गृहाभावग्राहकमेवोक्तम् ।
क्वचित् पाठः-जीवनगृहाभावग्राहकयोरिति । स तु सुगम एव ॥ १९ ॥
मकरन्दः ।
जीवननियमेति । गृहे नास्त्येवेति नियमग्राहकमत्रोक्तम् । अत एव जीवनगृहाभावग्राहक-
योरित्येव क्व चित् पाठः ॥ १९ ॥
टिप्पणी ।
तथा चार्थपत्तिकल्पितं जीवित्वमिति । अत्र एवकारो भिन्नक्रमः । तस्यां दशायां
मानान्तराभावादर्थापत्तिकल्पितं जीवित्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वयापि
वाच्यम्, एवञ्चावश्यकतयाऽर्थापत्त्यैव बहिसत्त्वनिश्चयोऽस्तु कृतं तथा जीवित्वनिश्चयेनेति तर्कशरीरमे-
वेदं द्रष्टव्यम् । तेन संशयस्य बहिसत्त्वकल्पकत्वादिति नोपसंहारविरोधः, न वा जीवित्वस्यार्थापत्ति-
कल्पनोपवर्णनेऽपसिद्धान्त इति । यथोक्तसंशये गौरवादिति । तथाचोक्तानुमानेन जीवित्वनिश्चये
तद्विशेषितगृहासत्त्वेन बहिसत्त्वानुमानसम्भवादर्थापत्तिर्न मानान्तरं कल्प्यमिति भावः ॥ १९ ॥
Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari Markdown:
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४२७
अनुपलब्धिस्तु न बाधिकेति चिन्तितम् । न च प्रत्यक्षादेरतिरिच्यते ।
तदुच्यते-
प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्याानुपक्षयात् ।
अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ २० ॥
या हि साक्षात्तारिणी प्रतीतिः सेन्द्रियकरणिका, यथा रूपादिप्रतीतिः । तथैहं-
बोधनी ।
एवमर्थापत्तिर्न बाधिका न भिद्यते चानुमानादित्युक्तम् । अनुपलब्धेस्त्वबाधकत्वस्य चिन्ति-
तत्पूर्वत्वादन्तर्भाव एवं चिन्तनीय इत्याह अनुपलब्धिस्तु इति । तत्तर्विदिह भूतले घटो नास्तीति
प्रतीतेरि न्द्रियकत्वे चतुरो हेतूनुपन्यस्यति प्रतिपत्तेरिति । विप्रतिपन्ना प्रतीतिरिन्द्रियकरणिक अपरो-
क्षरूपत्वात् रूपादिबुद्धिवदिति । अनन्यथोपक्षीणेन्द्रियान्वयव्यतिरेकानुविधायित्वात् अज्ञातकरणत्वाच्च ।
तथेयं प्रतीतिर्भावात्मप्रमाणसहकृतेन मनसा जायते वाह्यार्थानुभवत्वात् । भावरूपं च प्रमाणमिन्द्रिय-
मेव परिशिष्यत इति भावः । भावावेशो भावप्रमाणसहकार इति । तत्राद्यं हेतुं विवृणोति या हि
प्रकाशः ।
अनुपलब्धिस्तु स्वरूपसती परमात्मनो योग्यत्वाभावान्न बाधिका, ज्ञाताऽप्यनुमानरूपतया न
बाधिका, अनुमानबाधकत्वस्य निरस्तत्वादित्याह-
अनुपलब्धिस्त्विति । घटोपलम्भे घटाभावाज्ञानादनुपलब्धिरवश्यं हेतुरिति सैव करणमाव-
श्यकत्वात् । न च प्रतियोग्यनुपलब्धिमात्रं न करणं, प्रतियोगिज्ञानस्याभावधीहेतुत्वात्, नाऽपि
प्रतियोगिसत्त्वप्रमाविरहः, अत्यन्ताभावग्रहे तदप्रसिद्धेरिति वाच्यम् । यादृश्यास्त्वैन्द्रियसहका-
रित्वम् , तादृश्याः करणत्वात् , न तु इन्द्रियमपि तत्करणं, गौरवादिति प्रसङ्गागतं निरस्यति न
चेति । अभावस्य यथायथं प्रत्यक्षादिगम्यत्वादित्यर्थः ।
तत्र प्रत्यक्षगम्यत्वे मानमाह प्रतिपत्तेरिति । जन्यापरोक्षज्ञानस्येन्द्रियजन्यत्वनियमादित्यर्थः ।
तंत्र चान्वयव्यतिरेकतया योग्यानुपलब्धेः सहकारित्वं न निषिद्धयते इति भावः । इन्द्रियस्येत्यादि ।
इन्द्रियव्यापारस्यानन्यथासिद्धत्वादज्ञातकरणजन्यज्ञानत्वाच्चेत्यर्थः । भावावेशाच्चेति । अस्मदा-
दिवाह्यानुभवस्य भावभूतकरणसचिवमनोजन्यत्वनियमादित्यर्थः ।
इन्द्रियकरणिकेति । यद्यप्यत्र मनसा सिद्धसाधनम् । न चेन्द्रियत्वेन तज्जन्यत्वं साध्यम् ।
प्रकाशिका ।
नापीति । अधिकरणविशेष्यकप्रतियोगिसत्त्वप्रमाविरहकरणमित्यर्थः, तेन नानाधिकरणान्तरे ति-
योगिमत्वप्रमायामप्यभावधीः। प्रमापदञ्चाहार्यज्ञाननिवारणाय । अत्यन्तेति । वायौ रूपाभावप्रतीति-
स्थले प्रतियोग्यप्रसिद्धेरित्यर्थः । न चाधिकरणे तादृशप्रमाविशेष्यत्वाभावः करणं समवायाभावस्थले
प्रतियोग्यप्रसिद्धेः, न चाधिकरणविशेष्यकानाहार्य्यतादृशज्ञानाभावः तथा, तथा च तादृशभ्रममादाय
सङ्गतिरिति वाच्यम् । यंत्राधिकरणे स्वस्य न तादृशो भ्रमस्तदधिकरणे तदभावग्रहापत्तेः,
स्वीयत्वस्याज्ञानविशेषणत्वात् , अन्यथा पुरुषान्तरीयं भ्रमदशायामभावग्रहापत्तेरिति दिक् । तादृश्या
इति । तथा च स्वीयतत्तत्कालीनाधिकरणज्ञानेऽनाहार्यप्रतियोगिसत्त्वप्रकारकत्वाभावः करणमिति
मकरन्दः ।
नापीति । अधिकरणे इति शेषः । अत एवाह अत्यन्तेति । वायौ रूपान्त्यन्ताभावग्रहे
अधिकरणे प्रतियोगिप्रमाऽसिद्धेरित्यर्थः । गौरवादिति । उभयकारणकल्पने गौरवादित्यर्थः ।
भूतले घटो नास्तीत्यपि। साक्षात्त्वमस्या असिद्धमिति चेन्न। एकजातीय-
त्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः। न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञात-
मज्ञातञ्चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गाज्ज्ञानस्याकारणत्वप्रस-
ङ्गाच्च। न हि तदतिपत्त्यापि भवतस्तत्कारणत्वं, व्याघातात्। तस्माज्ज्ञातानु-
पलब्धिजन्यस्यासाक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति
न्याय्यम्॥
बोधनी।
इति। प्रतिज्ञायासिद्धो हेतुरित्याह-साक्षात्कारित्वम् इति। न इति। नास्तीति बुद्धयः
काश्चिदज्ञातकरणिकाः, काश्चिद् ज्ञातकरणिकाः, तत्र यद्युभयेऽप्यसाक्षात्कारजातीयाः तत इदं
कारणवैचित्र्यं न स्यादिति। विपर्ययेऽनिष्टमाह लिङ्गेति। असाक्षात्कारिज्ञानजनकस्यापि लिङ्गस्य
सत्ताया हेतुत्वं साक्षात्कारहेतोरपीन्द्रियस्य ज्ञायमानतया हेतुत्वं च प्रसज्येतेति। किं च यद्यज्ञातादपि
करणाज्जातीयमेव ज्ञानं जायेत तदा तत्र कारणमेव तज्ज्ञानं भवेत् व्यतिरेकाभावादित्याह ज्ञानस्य
इति। यत एवं तस्माज्ज्ञातानुपलब्धिजन्यस्यासाक्षात्कारित्वमभ्युपगच्छतामवश्यमज्ञातानुपलब्धिज-
न्यस्य साक्षात्कारित्वमवर्जनीयमित्याह तस्मात् इति।
प्रकाशः।
साक्षात्प्रतीतिकरणस्यैवेन्द्रियतया तेनैव तदनवच्छेदादात्माश्रयात्। तथापि रूपाभावादिप्रतीतेर्ब-
हिरिन्द्रियान्तरराजन्यबहिर्विषयकजन्यसाक्षात्कारित्वाच्चाक्षुषत्वादित्वं साध्यमिति भावः। अनुपलब्धेरपि
ज्ञातानुपलब्ध्यन्तरगम्यत्वेनानवस्थानात् क्वचिदज्ञाता चैव करणमुपेयेत्यशियेनाह एकैति। अज्ञातकर-
णकानुभवत्वं साक्षात्त्वव्यवस्थापकम्, अतः स्मृतेरज्ञातकरणकत्वेऽपि न तदिति भावः। यदि च
नैवं, तदा लिङ्गमपि साक्षात्कारमिन्द्रियमप्यनुमिति जनयेदित्याह लिङ्गेति। ज्ञातकरणकत्वं ज्ञान-
करणकत्वं लिङ्गादेरजनकत्वादिति व्यभिचारादभावज्ञाने तत्करणं न स्यादित्याह ज्ञानस्येति।
तद्विपरीतेति। अज्ञातयोग्यानुपलब्धिकरणकं साक्षात्कारजातीयमित्यर्थः। ननु आङ्गनास्तितायामिन्द्रियं
प्रकाशिका।
भावः। साक्षादिति। तथा चेन्द्रियत्वं न साक्षात्कारिकारणतावच्छेदकमात्माश्रयादिति साध्या-
प्रसिद्धिरिति भावः। स्मृत्यजनकज्ञानकारणमनःसंयोगाश्रयत्त्वादिना तन्निर्वचने यद्यपि नोक्तदोषः,
तथापि समाधिसौलभ्यादाह तथापीति। रासनसाक्षात्कारे व्यभिचार इत्यजन्यान्तम्। अत्रापि
अप्रसिद्धिवारणाय बहिःपदम्। सुखादिसाक्षात्कारे व्यभिचार इति बहिर्विषयकेति। ईश्वरज्ञाने
व्यभिचार इति जन्यपदम्। तच्च लौकिकपरमन्यथोपनीतघटादिगोचरमानससाक्षात्कारे व्यभि-
चारात्। यद्वा बहिर्विषयजन्यसाक्षात्कारत्वं हेतुः, स्वार्थे कन्प्रत्ययः। अस्तु सर्वत्र ज्ञातेवानुपलब्धिः
कारणमत आह अनुपलब्धेरपीति।
मकरन्दः।
साक्षादिति। तथा चेन्द्रियत्वं न साक्षात्प्रतीतौ कारणतावच्छेदकमात्माश्रयादिति तत्साधने बाध
इति भावः। यद्यपि स्मृत्यजनकज्ञानकारणमनोयोगाश्रयत्त्वादिना तन्निर्वचने नोक्तदोषः, तथापि समा-
धिसौकर्यादाह तथापीति। अत्र रासनप्रत्यक्षे व्यभिचारवारणायाजन्यान्तम्। एतच्च रूपाभाव-
बुद्धौ चाक्षुषत्वसाधने रसाभावबुद्धौ रासनत्वसाधने चाक्षुषप्रत्यक्ष एव तद्वारणीय तदित्यवधेयम्।
अप्रसिद्धिवारणाय प्रथमबहिःपदम्। मनोमात्रकरणके व्यभिचारादाह बहिर्विषयकेति। ऐशे
व्यभिचारादाह जन्येति। अनुमित्यादौ व्यभिचारादाह साक्षात्कारित्वादिति। न चोपनीतवि-
षये मानसप्रत्यक्षे व्यभिचारः, जन्यपदेन लौकिकत्वस्य विवक्षितत्वात्। वस्तुतो बहिर्विषयकजन्ये-
त्यत्र स्वार्थिककन्प्रत्ययाद्वहिर्विषयजन्यत्वं विवक्षितम्, तस्य च विषयाजन्यत्वादिति। नन्वस्तु तर्हि
सर्व्वत्र ज्ञातेवानुपलब्धिः करणमित्यत आह अनुपलब्धेरपीति। सामान्याभावेन उपलम्भसामा-
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४२६
ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति । तद् यथा
निपुणतरमनुसृतौ मया मन्दिरे चैत्रो न चोपलब्ध इति श्रुत्वा श्रोताऽनुमिनोति,
नूनं नासीदेवेति । एतेन प्राङ्नानास्तिताऽपि व्याख्याता । ननु तथाप्यवान्तर-
जातिभेदोऽस्तु अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्। कारणविरोधात्-
बोधनी।
स्यादेवं यदि ज्ञातानुपलब्धिः क्वचिदसाक्षात्कारं जनयेत्, न चैवमस्तीत्याशयेनाह ननु क्व नाम
इति । तत्रोदाहरणनोत्तरयति तद्यथा इति । न हि तदा देशान्तरस्थस्य श्रोतुर्योग्यानुपलब्धिरस्ति किं
त्वाप्तवाक्यावगतयाऽनुमिनोतीति । एवं प्रातः कालेऽनुपलब्धस्य मैत्रस्य मध्यन्दिनसमयभाविप्रातस्त-
नाभावज्ञानमप्यनुमानफलमेव मध्यन्दिनानुसंवीयमानप्रास्तनानुपलब्धिलभ्यत्वादित्याह एतेन इति ।
नन्वस्तु ज्ञातानुपलब्धिजन्यादज्ञातानुपलब्धिजन्यस्य जातिभेदः स तु साक्षात्काररूप इति कुत इत्याह
ननु इति । न हि विधाद्वयव्यतिरेकेण ज्ञानावान्तरजातिभेद इत्यभिप्रायेणाह कारणविरोधा-
प्रकाशः।
विनाप्यभावधीरिति व्यभिचारादिन्द्रियमकरणमित्यत आह एतेनेति । यथा शब्दावगतानुपलब्ध्या
लिङ्गेनाभावानुमानं, तथा प्राङ्नास्तितास्थलेऽप्यभावधीर्लिङ्गजेत्यर्थः । ननु तत्रास्मरणं न लिङ्गं, न
हि यावदनुभूतं तावदेव ग्रहणयोग्यमपि स्मर्यत एवेति नियम इति, मैत्रस्य तद्गेहसत्त्वेऽप्यननु-
भवात् संस्कारानुत्पादात्तदनुद्बोधाद् वा तदस्मरणस्योपपत्तेः । न । कश्चिद्विषयविशेष एव हि तादृशो
यो गेहादिनिष्ठतया अनुभूयत एव, तदनुभवेन च संस्कारो जन्यत एव, स च न नश्यति ।
नाऽपि तदुद्बोधकान्तरापेक्षा । विलक्षणविषयविशेषमाहात्म्यात् । यथा श्रीविश्वनाथायतने भगवन्तं
श्रीविश्वनाथमनुभवतः, तथा मैत्रमपि प्रेक्षम् । प्रयोगश्च-तद्गेहं तदा मैत्राभाववत् तत्तुल्यपरिमाण-
घटादिस्मरणेऽपि तद्गतया अस्मर्यमाणत्वात्, यदेवं तदेवं, यथा पटाभाववद् भूतलमिति ।
स्मरणाभावश्च संयुक्तविशेषणतया मनोवेद्य एवेति भावः । केचित्तु यत्र सामान्याभावेन लिङ्गेन
विशेषाभावानुमानं, तत्र ज्ञातानुपलब्धिरनुमानाङ्गमिति तत्परोऽयं ग्रन्थ इत्याहुः ।
ननु ज्ञातानुपलब्धेरसाक्षात्कारजनकत्वेऽप्यज्ञातानुपलब्धिजन्ये अवश्यं साक्षात्कारित्वमिति न
नियमो वैजात्यान्तरेणाप्युपपत्तेरित्याह नन्विति । सर्वत्र असाक्षात्कारित्वस्य ज्ञायमानकरणजन्यत्व-
व्याप्तैस्तन्निवृत्तावसाक्षात्कारित्वव्यावृत्तेरवान्तरजातिः साक्षात्कारित्वमेवेत्याह कारणेति । न च
साक्षात्कारित्वमिन्द्रियजन्यत्वप्रयुक्तमेवेति वाच्यम् । ज्ञातेन्द्रियसन्निकर्षजेन्द्रियगतिज्ञानस्य साक्षा-
प्रकाशिका।
कैश्चिदिति । उपलम्भसामान्याभावेन यत्रोपलम्भविशेषाभावानुमानं तत्रैव ज्ञातानुप-
लब्धेः कारणत्वमिति इत्यपि दूषणान्तरमाहेत्यर्थः ।
मकरन्दः।
न्याभावेन विशेषाभावानुमानमित्यर्थः । इन्द्रियजन्यत्त्वेति । इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः । तेन
नोत्तरविरोधः । इन्द्रियविशिष्टसन्निकर्षहेतुत्वे इन्द्रियहेतुत्वमपीति न विरोध इत्यन्ये । ज्ञायमानक-
रणत्वमाश्रित्याह ज्ञातेन्द्रियेति । चक्षुर्गतिमत् गतिशून्यसंयोगित्वादित्यनुमितेरित्यर्थः । नन्वेवम-
साक्षात्कारित्वमपि तत्र न स्यादिन्द्रियसन्निकर्षान्यकरणस्य तत्र प्रयोजकत्वादित्यत आह
टिप्पणी।
तत्परोऽयं ग्रन्थ इत्याहुरिति । एतेनेत्यादिग्रन्थः प्राङ्नास्तिता च, गृहविशेषे चैत्रोपलब्धेः
अहं गृहविशेषे तदा चैत्रोपलब्ध्यभाववान् , चैत्रोपलब्धेरभावात् मया चैत्र एव कदापि नोपलब्धः
गृहे तदुपलब्धेः का कथा इत्यभिसन्धिः ।
४३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २० कारिकाव्याख्यायां
कार्यविरोधेन भवितव्यमित्युक्तमेव । अनन्यथोपक्षीणेन्द्रियव्यापारानन्तरभा-
वित्वाच्च । अधिकरणग्रहणे तदुपक्षीणमिति चेन्न । अन्धस्यापि त्वगिन्द्रियो-
पनीते घटादौ रूपविशेषाभावप्रतीतिप्रसङ्गात् । अस्ति हि तस्याधिकरणग्रहणम्,
अस्ति च प्रतियोगिस्मरणम्, अस्ति च श्यामे रक्तत्वस्य योग्यस्याभावोऽनुपल-
ब्धिश्च । अधिकरणग्राहकेन्द्रियग्राह्याभाववादिनोऽपि समानमेतदिति चेन्न । प्रति-
योगिग्राहकेन्द्रियग्राह्योऽभाव इत्यभ्युपगमात् । ममापि प्रतियोगिग्राहकेन्द्रियगृही-
तेऽधिकरणे अनुपलब्धिः प्रमाणमित्यभ्युपगम इति चेन्न । वायौ त्वगिन्द्रियोप-
बोधनी ।
दिति । द्वितीयं हेतुं विवृणोति अनन्यत्र इति । विशेषणासिद्धिमाशङ्कते अधिक-
रणेति । यथा हि धूमज्ञानोपक्षीणेन्द्रियव्यापारानन्तरभाविनो वह्निज्ञानेन्द्रियहेतुत्वं तथा-
ऽधिकरणग्रहणोपक्षीणेन्द्रियव्यापारानन्तरभाविनो भावज्ञानस्यातद्धेतुत्वमिति, तर्ह्यन्धस्यापि साम-
ग्रीसाकल्याद्रूपाभावप्रतीतिः स्यादित्याह न इति । योग्यस्य स्थूलद्रव्यसमवेतत्वादिति । ननु भव-
न्तोऽप्यधिकरणग्राहकेणेन्द्रियेण ग्राह्योऽभाव इति मन्यन्ते, तत्र चान्धस्य त्वगिन्द्रियेण रूपविशेषा-
भावप्रतीतिः प्रसज्येतेत्याह अधिकरणेति । न इति । ततश्च चाक्षुषरूपप्रतीतिर्नान्धस्य स्या-
दिति । ममापि इति । ततश्च चाक्षुषाधिकरणग्रहणाभावान्नान्धस्य रूपविशेषाभावप्रतीतिरिति । ने
प्रकाशः ।
त्कारित्वप्रसङ्गात् । असाक्षात्कारित्वस्य च साक्षात्कारिभिन्नज्ञानरूपत्वात् । अनुभवत्वेन साङ्क-
र्यापत्त्या जातित्वाभावादिति भावः । न चेन्द्रियजत्वं साक्षात्कारित्वप्रयोजकं, प्रकृतेऽपि तत्त्वा-
दित्याह अनन्यत्रेति । ननु प्रतियोगिज्ञानस्येवाश्रयज्ञानस्याप्यभावधीहेतुत्वमिति तत्रैवेन्द्रियम-
न्यथासिद्धमिति विशेषणासिद्धो हेतुरित्याह अधिकरणेति । अधिकरणधीरेन्द्रियव्यापारो न तर्या
तदन्यथासिद्धम्, अन्यथा सन्निकर्षोपक्षीणमिन्द्रियं घटग्राहकमपि न स्यादित्याह अन्धस्येति ।
ममापीति । प्रतियोगिग्राहकेन्द्रियेणाश्रयाग्रहे योग्यानुपलब्ध्या नाभावो गृह्यते । न चान्धस्य रूप-
ग्राहकेन्द्रियेण घटादिग्रहः । अत एव चक्षुःसंयुक्ते पृथिवीपरमाणौ न जलत्वाद्यभावधीप्रसङ्ग इत्यर्थः ।
धायाविति । वायोः प्रतियोगिग्राहकचक्षुरग्राह्यत्वादित्यर्थः ।
ननु यथा तव नीरूपो वायुरिति वायुविशेष्यिका धीरानुमानिकी विशेष्ययोग्यतामाश्रित्येन्द्रियाणां
प्रवृत्तेः, तथा वायौ रूपाभावविशेष्यिकाऽपि धीर्ज्ञातानुपलब्धिलिङ्गजन्याऽनुमितिरेव, तथा च या
धीः साक्षात्कारित्वेन त्वदभिमता, तस्यामुक्ता सामग्रीति नोक्तदोषः । न चाभावज्ञानस्य साक्षात्का-
मकरन्दः ।
असाक्षात्कारित्वस्येति । तथा च साक्षात्कारित्वप्रयोजकस्याज्ञातकरणत्वस्याभावादेव तत्र तदुपपद्यते
इति भावः । ननु परोक्षत्वमसाक्षात्कारित्वमित्येकं, तच्च जातिरूपं, न तूक्तोपाधिरूपमित्यत आह
अनुभवत्वेनेति । स्मृतेरपि परोक्षत्वादिति भावः । एतच्चोपलक्षणम् — तज्जातित्वेऽपि ज्ञायमान-
करणप्रयोज्यत्वाभ्युपगमे गत्यनुमितौ तदुपपद्यत एवेत्यपि बोध्यम् । न चेति । इन्द्रियत्वेनेन्द्रिय-
जन्यत्वमित्यर्थः । तथा चेन्द्रियाजन्यतया असाक्षात्कारित्वमिति भावः । अत्रासिद्धिमाह प्रकृतेऽ-
पीति । तत्त्वादिरिन्द्रियजन्यत्वादित्यर्थः, अन्यथा यथाश्रुते विरोधापत्तेः । ननु वायोरतीन्द्रियतया
त्वगिन्द्रियोपनीत इत्ययुक्तमत आह वायोरिति । तथा चेति । यद्यपि वायौ रूपाभावविशेष्यिका
धीः साक्षात्कारित्वेन त्वदभिमतेव तत्र च नोक्ता सामग्री, तथापि साक्षात्कारित्वेन त्वदभिमतेत्यस्या-
टिप्पणी ।
तथा च या धीः साक्षात्कारित्वेन त्वदभिमतेति । यद्यपि वायौ रूपाभावविशेष्यिका
तृतीयस्तवके ] अनुपलब्धेर्मानन्तरत्वखण्डनम् । ४३१
नीते रूपाभावप्रतीत्यनुदयप्रसङ्गात् । तथापि तत्तत्र सन्निकृष्टमिति चेत् । हन्तैवंम-
नन्यत्र चरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन ॥
स्यादेतत् , तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेन्न । तस्य तं प्रत्य-
बोधिनी ।
इति । प्रतियोगिग्राहकेण चक्षुषा वायोरग्रहणात्तत्र रूपाभावप्रतीतिः कदाचिदपि न स्यादिति ।
नन्वगृह्णदपि चक्षुर्वायौ यावत्सन्निकृष्टं तावता रूपविशेषस्यानुपलब्धिरभावं गमयतीत्याह तथापि
इति । हन्तैवम् इति । वायोरग्रहणाभावादनन्यत्र चरितार्थता त्वन्धस्य च रूपाभावप्रतीत्यभावा-
दवश्यमपेक्षणीयत्वं चक्षुष इति ।
ननु मा भूदधिकरणग्रहणोपक्षयस्तथापि तत्र संनिहितस्य यस्य कस्यचिद्वस्तुनो ग्रहण एवोप-
क्षीयत इत्याह स्यादेतत् इति । न इति । अत्र ह्यन्वयव्यतिरेकानुविधाने सत्येवाभावबुद्धेरनिन्द्रि-
प्रकाशः ।
रित्वेनेन्द्रियजन्यत्वं, स्मृतिवत्तस्य परोक्षत्वात् । मैवम् । घटाभावबुद्धेरपि साक्षात्कारित्वेनाभिम-
ताया योग्यानुपलब्धिलिङ्गजन्मत्वापत्तेः । यदि च लिङ्गज्ञानेऽपि तदनुभवादज्ञातकरणिका सा, तदा
वायौ रूपाभाव इति धीरपि तथा । किञ्च वस्तुतो घटवत्युपलब्धिप्राक्कालेऽनुपलब्ध्या घटस्मृति-
मतः कुतो नाभावधीः ? घटाभावाभावादिति चेत् । हन्तैवमभावबुद्धेरर्थजन्यत्वात् प्रत्यक्षत्वसिद्धावि-
न्द्रियजत्वमेव । अपि च प्रतियोगिसत्त्वविरोधिनी याऽनुपलब्धिः, सैव योग्यानुपलब्धिः, अतो
जलपरमाणौ गन्धाभावो न प्रत्यक्षः, प्रत्यक्षश्च वायौ रूपाभावः, रूपानुपलब्धिज्ञापकस्याभावात् ।
तल्लिङ्गत्वमभावं च स्वयमेवाचार्यो वक्ष्यति । तथापीति । चक्षुषा वायोरग्रहेऽपि चक्षुर्वायुसन्निकृष्ट-
मेवेति नाश्रयग्रहे तदुपक्षीणमित्यर्थः ।
नन्वाश्रयेत्यन्यमात्रोपलक्षणम्, अस्ति च वायुसन्निकृष्टस्येन्द्रियस्य तद्देशवृक्षादिप्रकाशकत्वमि-
त्यन्यथासिद्धिरिवेत्याह—
स्यादेतदिति । अन्धस्यापि रूपाभावप्रतीत्यापत्त्या न तावदिन्द्रियमभावज्ञाने अकारणमेव,
किन्तु कारणव्यापकत्वेन परम्पराकारणं मन्तव्यम् । तथा सत्याह तस्येति । तस्य वस्त्वन्तर-
मकरन्दः ।
ज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति वयम् । अन्यथा तु चिन्त्यम् । साक्षात्कारित्वेनेति स्वमते ।
यदि चेति । तथा च तत्र त्वदुक्तानुपलब्धिवैकल्यादनन्यगत्या इन्द्रियग्राह्य एवाभाव इति भावः ।
युक्त्यन्तरमाह किञ्चेति । प्रत्यक्षश्चेति । यद्यप्येवं स्वरूपसदनुपलब्धिग्राह्यत्वमात्रं सिद्ध्यति, तथापि
पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वमुक्तमिति ध्येयम् । चक्षुषेति । तथा च प्रतियोगिग्राहकेन्द्रियेणा-
टिप्पणी ।
धीः साक्षात्कारित्वेन नैयायिकाभिमतैव तत्र च न प्रतियोगिग्राहकेत्याद्यनुपलब्धिकरणज्ञानसामग्री,
तथापि साक्षात्कारित्वेन त्वदभिमतेत्यस्याज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति । अन्यथा तु
चिन्त्यम् । स्मृतिवत्तस्य परोक्षत्वादिति । अज्ञातकारणजत्वेऽप्यपरोक्षत्वाभावात् । साक्षा-
त्कारित्वेनाभिमंताया इति । अनुपलब्धिकरणकत्वेन । योग्यानुपलब्धिलिङ्गजत्वापत्ते-
रिति । अनुपलब्धिज्ञानं कल्पयित्वा लिङ्गजन्मत्वेनानुमितित्वस्य वक्तुं शक्यतयाऽनुपलब्धेः कारण-
त्वभङ्गापत्तेः । यदि च लिङ्गज्ञानेपीति । सर्वत्र ज्ञानकल्पने मानाभावात् । तदा वायौ
रूपाभाव इति धीरपीति । तत्रापि सर्वत्रानुपलब्धिज्ञानकल्पने मानाभावात् । इति धीरपि
तथेति । अनुमितिरेवेत्यर्थः ॥ २०-२१-२२-२३ ॥
इति श्रीमद्धर्मदत्तोपाध्याय ( प्रसिद्ध-बच्चाझा ) कृत।कुसुमाञ्जलितृतीयस्तवकटीप्पणी समाप्ता ।
४३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २० कारिकाव्याख्यायां
कारणत्वात् , कारणत्वे वा महान्धकारे करपरामर्शेन स्पर्शवद्द्रव्याभावं न प्रती-
यात् । प्रतीयाच्च पुरोविस्फारिताक्षः पृष्ठलग्नस्याऽश्यामत्वम् । आर्जवावस्थानम-
प्यधिकरणस्योपयुज्यते इति चेत् , तर्हि नयनसन्निकर्षोऽप्युपयोक्ष्यते, तदेकस-
हकारिप्रभासन्निकर्षापेक्षणात् । अन्यथा वातायनविवरविसारिकरपरामृष्टेऽप्यधि-
करणे तदुपलम्भप्रसङ्गाच्च ॥
तथापि योग्यताऽऽपादनोपक्षीणश्चक्षुः । यदितरसामग्रीसाकल्ये ह्यनुपलभ्य-
मानस्याभावो निश्चीयते । तच्च चक्षुष्यधिकरणसन्निकृष्टे सति स्यादिति चेत् ।
ननु परिपूर्णानि कारणान्येव साकल्यम् । तथा च किं कुत्रोपक्षीणम् । अथान्यो-
बोधनी ।
यहेतुकत्वमन्यत्र तदपक्षयादुच्यते, स चाभावबुद्धिहेतौ कस्मिंश्चिद्वक्तव्यः, अन्यथा तदनुविधाना-
नुपपत्तेः, न चात्र तस्य वस्तुन्तरग्रहणस्य तदभावानुभवं प्रति कारणत्वमस्तीति, यदि स्यात्तत्राह
कारणत्वे वा इति । अन्धकारे वस्त्वन्तरग्रहणाभावात्स्पर्शवद्विशेषाभावप्रतीतिर्न स्यात् इति प्रति-
याच्चेति । प्रतिय गिग्राहकेण तदा तदालोके विस्फारिताक्षस्य वस्त्वन्तरग्रहणसंभवाच्चेति । उत्त-
रत्र शङ्कते आर्जवेति । आर्जवावस्थानादधिकरणस्य नयनसंनिकर्षोऽपि तद्गताभावग्रहणएवो-
पयुज्यते न तु तद्ग्रहण इत्यङ्गीकर्तव्यमित्याह नयनेति । कुत इत्यत्राह तदेक इति । आलो-
कसंनिकर्षस्तावदपेक्षणीयो रूपाभावज्ञानेन तमन्तरेण तदनुपपत्तेः, स च तस्य नयनसंनिकर्षस्यैव
सहकारी नानुलब्धयादेः, तस्मान्नयनसंनिकर्षोऽप्यपेक्षणीय एव, न हि संभवति यस्य यत्सहकारित-
यैव कार्योपयोगस्तस्य तदनपेक्षायामप्यपेक्षेति । चक्षुःसंनिकर्षानुपयोगेऽनिष्टमप्याह वातायनेति ।
तत्र हि सत्येवाधिकरणस्यार्जवावस्थाने तद्ग्रहणे चक्षुःसंनिकर्षाभावादेव तस्य श्यामत्वाभाव-
स्यानुपलम्भो भवति ।
नन्वस्त्वपेक्षणीयश्चक्षुः संनिकर्षस्तथाप्यन्यत्रोपक्षयस्तस्येत्याह अथापि इति । योग्यानुपल-
ब्धिर्ह्यभावज्ञानहेतुः, योग्यता च प्रतियोगिव्यतिरिक्ताभावज्ञानकारणसाकल्यं, तच्च साकल्यं चक्षः
संनिकर्षे सति भवति तस्यापि तत्कारणत्वात् । ततश्च सामग्रीसाकल्यापादनोपक्षीणं चक्षुर्नाभाव-
वाज्ञानं यावत् गच्छतीति । न तु परिपूर्णानि इति । न खलु साकल्यं नाम कारणेभ्यस्तत्त्वान्तरं
प्रकाशः ।
ग्रहणस्य, तं प्रत्यभावानुभवं प्रतीत्यर्थः । न प्रतीयादिति । त्वगिन्द्रियेण वस्त्वन्तराऽग्रहादित्यर्थः ।
ननु प्रतीयत एवाकाशमत्रापि, तस्य तन्मते प्रत्यक्षत्वादित्यंत आह प्रतीयाच्चेति । आर्जवाव-
स्थितेऽप्यन्धकारे ज्ञानाभावादालोकसन्निकर्षोऽपि हेतुरेष्यः, स च चक्षुषः सहकारी नान्यस्येति
सिद्धं चक्षुः करणमित्यभिप्रेत्याह नयनेति । अथार्जवावस्थानेऽपि नालोकसन्निकर्षापेक्षा, तत्राह-
वातायनेति । तदुपलम्भप्रसङ्गाद्रूपाभावोपलम्भप्रसङ्गादित्यर्थः । चक्षुषा यत्किञ्चिदुपलम्भस्य तत्रापि
सम्भवादिति भावः । नन्विति । तथात्वे वा सहकार्युच्छेदापत्तिः । वस्तुतः प्रतियोगिसत्त्वविरो-
प्रकाशिका ।
तथात्वे वेति । कारणचक्रसाकल्योपक्षयाय दण्डादेरपि तत्रोपक्षये घटाद्यहेतुतापत्तिरित्यर्थः ।
तथा च योग्यताघटकतया अवश्यमपेक्षणीयस्यात्रानुपक्षीणस्येन्द्रियस्य सिद्धमभावधीहेतुत्वमिति भावः ।
मकरन्दः ।
धिकरणसन्निकरणसन्निकर्ष एवानुपलब्धिसहकारी स च तत्रास्त्येवेति भावः । अकारणमेव
अप्रयोजकमेवेत्यर्थः । परम्पराकारणं कारणकारणम् । तथात्वे वेति । कारणचक्रस्य साकल्योपेक्ष-
याभ्युपगमे दण्डचक्रादेरपि तथात्वे घटाद्यहेतुत्वपत्तिरित्यर्थः । तथा च योग्यताघटकतयाऽवश्यापेक्ष-