न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
·तृतीयस्तवके ] अनुमानाप्रामाण्याशङ्कोपपादनम्। ३३७
नैपुण्यः। तथा च कथं तथाभूतार्थसिद्धिरपि अनुमानबीजप्रतिबन्धासिद्धेः । तद-
भावे शब्दादेरप्यभावः । प्रामाण्यासिद्धेः । सेयमुभयतःपाशा रज्जुः ॥
अत्र कश्चिदाह । मा भूदुपाधिविधूननं, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्ध-
निर्वाहात्। तस्याश्च सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात्। यत्र तु तद्भङ्गः, तत्र
प्रमाणभङ्गो ऽप्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोर्विप्लवे हेतुरूपप्लवत
इति । अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्, भूयोदर्शनाविप्लवे कोऽयमप्रयो-
जको नाम ? । न तावत् साध्यं प्रत्यकार्यमकारणं वा । सामान्यतो दृष्टानुमानस्वी-
कारात् । नापि सामग्र्यां कारणैकदेशः। पूर्ववद्भवदुपगमात् । नापि व्यभिचारी ।
तदनुपलम्भात् । व्यभिचारोपलम्भे वा स एव दोषः। न च शङ्कितव्यभिचारः ।
बोधनी ।
किमित्यत्राह तथा च-इति । तथाभूतस्य = यथाज्ञानमवस्थितस्य । यद्वा, अनुमित्सितस्य । यद्वा
अनुमित्सितस्य जगत्कर्तुरिति । कथमसिद्धिरित्यत्राह अनुमान-इति । निरुपाधिको हि संबन्धः
प्रतिबन्ध इति । अनुमानाभावे शब्दादेरपि प्रमाणस्याभाव इत्याह तदभावे-इति । प्रामाण्यग्राहि-
णस्तज्जातीयानुमानादेरपि प्रामाण्याभावापराधेन शब्दादिप्रामाण्यासिद्धेरिति । एवं चानुपलम्भ-
मात्रस्यानिषेधकत्वेऽनुमानायुच्छेदादीश्वरो न सिध्येत्, निषेधकत्वे तु तत एव निषिध्येतेति । सेयं
शिरोद्वयेऽपि पाशवती रज्जुरित्याह सेयम्-इति ।
अत्रैकदेशिनः परिहारं दूषयितुमुपन्यस्यति अत्र कश्चित्-इति । किमनेनोपाधिविधूननव्यस-
नेन केवलान्वयिकेवलव्यतिरेकिणोश्च रूपसंपत्तिमात्रेण प्रतिबन्धसिद्धेर्न हि तयोर्विपक्षसपक्षाभावेन
तद्व्यावृत्त्यनुवृत्ती संभवतः । अन्वयव्यतिरेकिणस्तु पञ्चरूपसंपत्तिमात्रेण तस्य सपक्षविपक्षयोरखिल
तदनुवृत्तिव्यावृत्त्योः संभवादिति । न च रूपसंपत्त्यवधारणेऽप्युपाधिविधूननमुपयुज्यत इत्याह तस्या-
श्च-इति । कथं तत्प्रमाणकत्वं तस्या इत्यत्राह यत्र तु-इति । तयोर्भङ्गे प्रमाणभङ्गस्यावश्यकत्वादि-
ति । कस्मादेवमित्यत्राह न हि-इति । हेतोर्धतुःपञ्चानां रूपाणां विप्लवो हेतुरूपप्लवः । प्रमाणवि-
प्लवाविप्लवयोर्र्हि प्रमेयविप्लवाविप्लवौ भवत इति भावः । यदि दर्शनादर्शनाभ्यामेव प्रतिबन्धसि-
द्धिस्तर्हि मैत्रैीतनयत्वादिरपि हेतुः स्यादित्याह अप्रयोजकः-इति । तयोरविप्लवे तु नाप्रयोजको
नाम कश्चिदस्तीत्याह भूयोदर्शन-इति । स एवाप्रयोजकत्वेन संभावितानाशङ्कय निराकरोति
न तावत्-इति । अनुमानसूत्रे पूर्ववच्छेषवदिति कार्यकारणानुमाने परिगृह्य सामान्यतो दृष्टमित्य-
कार्याकारणभूतस्य सलिलादिविषयवलाकाद्यनुमानस्यापि स्वीकारादिति । नापि-इति । सामग्री
कार्यलिङ्गं तदेकदेशोऽप्रयोजकः स्यादित्यपि न युक्तम् । पूर्वं = कारणं यस्यास्ति लिङ्गत्वेन तत्पूर्वव-
दिति । पूर्ववतोऽपि तत्र सूत्रेऽनुमानत्वेन स्वीकारादिति । नापि व्यभिचारी-इति । न हि मैत्री-
तनयत्वादेर्व्यभिचार उपलभ्यते तदुपलम्भे वा व्यभिचार एव दोषः स्यान्नाप्रयोजकत्वमिति । न च-
प्रकाशः ।
तदभाव इति । चतुःपञ्चेति । पक्षसत्त्वसपक्षसत्त्वाबाधितत्वासत्प्रतिपक्षितानि चत्वारि रूपाणि केव-
लान्वयिनि, सपक्षसत्त्वाभावे विपक्षासत्त्वं केवलव्यतिरेकिणि, उभयन्तु रूपमन्वयव्यतिरेकिणीति तत्र
पञ्चरूपाणि । तद्भङ्ग इति । यत्र उक्तरूपसम्पत्तिभङ्गस्तत्र दर्शनादर्शनात्मकप्रमाणभङ्गोऽप्यावश्यकः,
अन्यथा तयोर्निर्विषयतापात इत्यर्थः । सामान्यत इति । रूपरसोयोरकार्यकारणभूतयोरपि व्या-
प्त्यभ्युपगमादित्यर्थः । पूर्ववदिति । पूर्वं कारणं तद्यस्यास्ति विषयतया लिङ्गज्ञानस्य, तत्तथा ।
४३ न्या० कु०
३३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां
निर्बीजशङ्कायाः सर्वत्र सुलभत्वात्। नापि व्याप्यान्तरसहवृत्तिः। एकत्रोपि साध्ये-
ऽनेकसाधनोपगमात्। नाप्यल्पविषयः, धूमादेस्तथाभावेऽपि हेतुत्वात्। ननु धूमो
वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्द्रन्धनवन्तं वह्निविशेषं
प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्ययुक्तम्। सामान्याप्रयोजक
तायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धिनियमात्। सिद्धौ वा सामान्य-
विशेषाभावानुपपत्तेः। नापि क्लृप्तसामर्थ्येऽन्यस्मिन् कल्पनीयसामर्थ्योऽप्रयोजकः,
नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति ॥
बोधनी ।
इति। तथा च सर्वोऽपि हेतुरप्रयोजकः स्यादिति। नापि व्याप्यान्तर-इति। स्पष्टम्।
नाप्यल्पविषय-इति। न हि धूमादिः सपक्षव्यापक इति। स एव तत्र किंचिदाशङ्क्य निराकरोति
ननु-इति। न हि धूमः स्वनिवृत्तावप्यनिवर्त्तमाने वह्नौ प्रयोजको नामेति। कुत्र तर्हि प्रयोजक
इत्यत्राह आर्द्रन्धनवन्तम् इति। तस्यैव वह्निविशेषस्यैवेति। कुतो युक्तमित्यत्राह सामान्य-
इति। न हि संभवति वह्निविशेषं साधयति न तु सामान्यमिति सामान्यासिद्धौ विशेषस्यासिद्धेर्निय-
तत्वात्। यदि वा तदापि विशेषः सिध्येन्न तर्हि सामान्यविशेषाभावः स्यात्, न हि तस्मिन्नसिद्धेऽपि
सिध्यतस्तद्विशेषकत्वमिति। सकलसपक्षवर्त्तिनि हेत्वन्तरे सत्येकदेशवृत्तिरप्रयोजको यथा निषिद्धत्वे
सति हिंसात्वम्। निषिद्धत्वं हि सकलभक्षणादेरप्यधर्मत्वसिद्धयर्थं क्लृप्तसामर्थ्यमिति। तदेव
सर्वत्राधर्मत्वे प्रयोजकं हिंसात्वं च नैवंविधमप्रयोजकमित्याशङ्क्याह नापि क्लृप्त-इति।
प्रकाशः।
कारणैकदेशस्यापि तदितराशेषकारणव्याप्यस्यान्यतन्तुसंयोगादेः पटादौ लिङ्गत्वाङ्गीकारादित्यर्थः।
निर्बीजेति। साध्याभावसहचारदर्शनस्य शङ्काबीजस्याभावात्, भावे वा व्यभिचार एव स्फुटो
दोष इत्युक्तमित्यर्थः। अल्पविषय इति। व्यापकवनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः। तन्निवृत्ता-
विति। धूमनिवृत्तावपि वह्नयनिवृत्तेरित्यर्थः। तस्यैवेति। आर्द्रन्धनप्रभववह्नेरित्यर्थः। सामा-
न्येति। वह्निसामान्याव्याप्यत्वे तद्विशेषव्याप्यतैव न स्यात्, सामान्यस्य विशेषव्यापकत्वादित्यर्थः।
तथा च, विशेषव्याप्यत्वे सामान्यव्याप्यत्वं ध्रुवमिति भावः। नाश इति। गुणादिनाशे भावकार्य-
त्वस्य प्रयोजकत्वे क्लृप्तेऽपि द्रव्यनाशे तद्व्याप्यसावयवत्वस्यापि तत्त्वाङ्गीकारादित्यर्थः।
प्रकाशिका।
ननु कारणं व्यापकं तत्कथं व्याप्ये लिङ्गमत्त आह। कारणैकदेशस्यापीति। साध्या-
भावसहचारदर्शनस्येति। यद्यपि साध्याभावसहचारो व्यभिचार एवेति तद्दर्शनं न तत्तच्छङ्का-
बीजम्। तथाप्युपाधिशङ्काबीजं तत्, उपाधेर्व्याप्त्यभावात्मकत्वादिति मन्तव्यम्। ध्वंसेऽतिप्रसक्तं-
कार्यत्वमिति भावपदेन पूरयित्वा व्याचष्टे। भावकार्यत्वस्येति। यद्यपि कल्पनायां पौर्वापर्य्यनियमे
मकरन्दः।
ध्वंसे व्यभिचारेण भावपदमन्तर्भावयति। भावकार्यत्वस्येति। यद्यप्यत्र पौर्वापर्य्यनियमे
मानाभावः, तथापि सामान्यविशेषयोः प्रथममुत्सर्गंतः सामान्यस्योपस्थितिरित्याशयेन तथोक्तम्।
टिप्पणी।
साध्याभावसहचारदर्शनस्य शङ्काबीजस्येति। हेतुतावच्छेदकाश्रये यत्किञ्चिद्धर्मिणि साध्या-
भावसहचारग्रहस्य व्यभिचारशङ्काप्रयोजककोटिद्वयसहचरितहेतुतावच्छेदकरूपसाधारणधर्मदर्शनसम्पा-
दकतया पक्षदृष्टहेतौ व्यभिचारशङ्काप्रयोजकत्वमिति भावः॥ भावे वा व्यभिचार एवेति। पक्षधर्म्मि-
हेत्वसाधारणधर्मेण हेतुत्वस्य सहचारग्रहाभावेनासम्भवात् सामान्यधर्मेणैव हेतुत्वमभ्युपेयं तत्र व्यभि-
४. चतुर्थ स्तबक: ज्ञान-नित्यत्व एवं सर्वज्ञ ईश्वर प्रतिपादन
तृतीयस्तबके ] अनुमानप्रामाण्याशङ्कोपादानम्। ३३६
तदेतदपेशलम्। कथं हि विशेषाभावात् कश्चिद्व्यभिचरति, कश्चिन्न नेति
शक्यमवगन्तुम् । अतो निर्णयाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति
क्वासौ निर्बीजा । एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनो नोपालम्भाय । स्व-
भावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिन्न नेति स्वभाव एव विशेष इति चेत्
केन चिह्नेन पुनरसौ निर्णय इति निपुणेन भावनीयम् । भूयोदर्शनस्य शतशः
प्रवृत्तस्यापि भङ्गदर्शनात् । यत्र भङ्गो न दृश्यते तत्र तत् तथेति चेत् । आपाततो
न दृश्यते इति सर्वत्र कालक्रमेणापि न दृश्यते इति को नियन्तेति । तस्मादुपा-
धितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनं, तदवधारणाञ्चाशक्यमिति ॥
बोधनी।
अत्र सामर्थ्यं व्याप्तिस्तस्या अनुमितिज्ञानोत्पादने लिङ्गसहकारित्वादिति तदेकदेशिमंतं पूर्वपक्षी
दूषयति—तदेतत् इति । किमुपाधिविधूननेन भूयःसाहचर्यदर्शने सति कोऽयमप्रयोजको नामेत्येत-
दशोभनं शङ्कितव्यभिचारस्याप्रयोजकत्वादुपाधिविधूननायत्तत्वाच्च शङ्कानिरासस्येति भावः । तदेवोप-
पादयति—कथं हि इति । निश्चितोऽव्यभिचारो हि हेतुर्गमकः, अन्यथातिप्रसङ्गात् । तन्निश्चयश्च न
साहचर्यमात्रात्सिध्यति भूयःसहचरितानामपि क्वचिद् व्यभिचारदर्शनात्, तस्माद् व्यभिचार्याव्यभिचा-
रिणोः साहचर्ये विशेषाभावात्तन्मात्रेणाव्यभिचारनिश्चयानुपपत्तेर्व्यभिचारशङ्कानिरसनहेतुः कश्चिदन्वेष्ट-
व्यः, स चोपाधिविधूननमेवेति भावः । तत्र यदुक्तं निर्बीजशङ्का न युक्तेति तदप्यत एव निरस्तमि-
त्याह—अत इति । निर्णायकविशेषादर्शने सति साहचर्यमेव व्यभिचार्यव्यभिचारिणोः साधारणधर्म-
त्वात्संशयहेतुर्भवतीति । एवं च यदि भूयोदर्शने सत्यपि शङ्का स्यात् सर्वत्रापि सा स्यादित्येकदेशिना
चार्वाकं प्रत्यापादिताऽतिप्रसक्तिरनुमानप्रामाण्यमनिच्छतस्तस्य नोपालम्भाय भवति प्रत्युत नन्दना-
येत्याह—एवं सति इति । यद्वा, अनुमानमिच्छतः सिद्धान्तिनो नोपालम्भाय तस्योपाधिविधूननेन
शङ्कानिवारणाभ्युपगमादिति । एकदेश्याह—स्वभावादेव इति । तेनाव्यभिचारः स्वभावमात्राधीनः
न तु तदर्थमन्योऽन्वेष्टव्य इति । इतर आह—केन इति । सत्यमेवं, स तु स्वभावो निर्णीत एव
व्यभिचारशङ्कां निवर्तयतीति तन्निर्णयार्थमन्योऽन्वेष्टव्य इति । तर्हि भूयोदर्शनमेवास्तु निर्णायक-
मित्यत्राह—भूयोदर्शनस्य इति । शङ्काया एव बीजमेतदित्युक्तमिति भावः । यत्र इति । तद् =
अदृष्टभङ्गम् । तथा अव्यभिचारस्वभावम्—इति । आपाततः इति । सर्वत्र सर्वदा व्यभिचारो न
भूयोदर्शनमात्रात्सिध्यतीति तत एवं वक्तव्यमित्याह—तस्मात् इति । तर्ह्यनुपलम्भे नोपाधिविर-
होऽवधार्यत इत्यत्राह—तदवधारणम् इति । अनुपलब्भमात्रस्य निषेधकत्वाभ्युपगमादिति ।
प्रकाशः ।
कथं हीति । सहचारदर्शनस्य व्यभिचार्यव्यभिचारिसाधारणत्वात्तदेव विशेषादर्शनसहकृतं
व्यभिचारशङ्काबीजमित्यर्थः । एवं सतीति । "अवश्यं शङ्कया भाव्यं नियामकम्पश्यताम्"*
इति चार्वाकोक्तातिप्रसक्तिर्नोपालम्भाय, शङ्काबीजस्य सहचारदर्शनस्य सत्त्वादित्यर्थः । यथा
किञ्चित् कस्यचित् कार्यं कारणं चेत्यत्र स्वभाव एव नियामकः, तथा किञ्चित् कस्यचिद्व्याप्यं व्या-
पकं चेत्यत्रीत्याह । स्वभावादेवेति । स स्वभावविशेष एव कुतोऽवधार्य इत्याह । केनेति ।
भूयोदर्शनस्येति । पार्थिवत्वलोहलेख्यत्वयोरपि व्यभिचारदर्शनादित्यर्थः । अनन्यगतिकतयोपा-
धिविरह एव तदुपायः । स च दुरवधारण इत्याह । तस्मादिति ।
प्रकाशिका ।
मानाभावः, तथापि गुणादिसाधारण्यार्थमवश्यक्लपनीयमेवात्र क्लृप्तत्वम् । सहचारदर्शनेति ।
मकरन्दः ।
सहचारदर्शनस्येति । शङ्कितव्यभिचार एवाप्रयोजक इति भावः । स उपाध्यभावः। नन्वनौ-
३४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां
ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मदादिभिर्यदृच्छया नोपलभ्यते नासौ तद्वान् ।
यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेन्न ।
अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् । “सर्वादृष्टेश्च सन्देहात् स्वादृष्टेर्व्य-
भिचारतः” सर्वदृष्टेरसिद्धेः ।
तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये ।
बोधनी ।
बोधनी ।
तर्ह्यनुमानान्निश्चेष्यत इत्याह—ननु इति । वह्नौ=वह्निसंबन्ध इति । न इति । अस्याप्यनु-
मानस्योपाध्यभावनिश्चयायानुमानान्तरापेक्षायां तस्य तस्यापीत्यनवस्थेति । किं च, सर्वैः सर्वदोपाधिम-
तया धूमस्यानुपलम्भो नासर्वज्ञेन निश्चेतुं शक्यत इति संदिग्धासिद्धो हेतुरित्याह—सर्वादृष्टेश्च
इति । अस्तु तर्हि स्वैनैकेनानुपलम्भो हेतुस्तत्राह—स्वादृष्टेः इति । न ह्येकेन तद्वत्तानुपलम्भस्त-
दभावव्याप्त इति सर्वदा स्वादृष्टिरप्यसिद्धेत्याह—सर्वदा इति । असिद्धेः इति । कदाचिदपि न
द्रक्ष्यत इति निश्चयासंभवादिति । तदेवमेकदेशिनं निराकृत्य बौद्धमतं दूषयितुमुपन्यस्यति—
तादात्म्य इति । यस्य य आत्मा वा यत्कार्यं तयोस्तेनात्मना कारणेनाविनाभावः, अन्यथा तदात्म-
कत्वव्याघातात् कार्यकारणभावभङ्गप्रसङ्गाच्च, ततोऽविनाभावनिश्चयार्थमुपाधिविधूननापेक्षेति । यथाह—
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान्न न दर्शनात् । इति ।
प्रकाशः ।
प्रकाशः ।
ननु सहचारदर्शनव्यभिचारादर्शने एव व्याप्तिग्राहके । न च तयोर्व्याप्तसाधारण्यम् । उपा-
ध्यभावज्ञानस्याप्यव्याप्यसाधारणत्वात् । न च स्वरूपसन्नेव स तद्ग्राहकः व्याप्तिभ्रमानुपपत्तेः ।
नाऽपि वस्तुगत्या यत्रोपाध्यभावस्तत्र तज्ज्ञानाद्व्याप्तिप्रमाऽन्यत्र तु तद्भ्रम इति वाच्यम् । यत्र
वस्तुसती व्याप्तिस्तत्र सहचारदर्शनादेरपि तत्त्वापत्तेः ।
अत्राहूः । व्यभिचारादर्शनस्य व्याप्तिनिश्चायकत्वे तस्मिन् सति व्याप्तिसन्देहानुपपत्तिः ।
अनौपाधिकत्वनिश्चये तु न सन्देह इति तदेव व्याप्तिग्राहकम् । किञ्च, यथा व्यभिचारादर्शनाद
व्यभिचारनिश्चयः । एवमव्यभिचारादर्शनाद् व्यभिचारनिश्चयोऽपि स्यादविशेषात् । न च भावानुप-
लब्धिरभावनिश्चायिका, न त्वभावानुपलब्धिर्भावनिश्चायिकेति वाच्यम् । अव्यभिचारस्यापि भावत्वात् ।
साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यरूपत्वात् । क्षित्यादि द्विकर्तृकं का-
र्यत्वात् पटवदित्यादेरपि गमकत्वापाताद्वा ।
तदपेक्षायामिति । उपाध्यभावापेक्षायामित्यर्थः । असिद्धेरिति । सर्वदा उपाधिमत्तयाऽनुप-
लम्भस्येत्यर्थः ।
बौद्धोक्तं तद्ग्राहकमाह । तादात्म्येति । विपक्षबाधकश्च क्षणभङ्गप्रस्तावे व्याख्यातम् । प्रत्यक्षा-
ऽनुपलम्भावन्वयव्यतिरेकौ । अपि चाग्नीन्धनादिसमवधानेऽप्यन्यस्य पिशाचादेः सन्निधिराराच्छङ्क्य-
मानो नाग्नीन्धनादिव्यभिचारिणोऽन्यत्र धूमस्यादर्शनादिति नियतस्य तस्य वाच्यः । स च नेत्याह ।
प्रकाशिका ।
प्रकाशिका ।
तथा च शङ्कितव्यभिचार एवाप्रयोजक इति भावः । स्वरूपसन्नेव स इति । उपाध्यभाव इत्यर्थः । सन्दे-
ह्यानुपपत्तिरिति । भवति च सत्यपि तस्मिन् कदाचित् सन्देह इति भावः । ननु अनौपाधिक-
त्वस्यापि व्याप्तिव्याप्यत्वेनाऽनिश्चये सन्देहो भवेदेव । न चानौपाधिकत्वव्याप्तिपक्ष इदं, तस्य व्याप्ति
ग्राहकत्वेनाभिधानादित्यरुचेराह किञ्चेति । अव्यभिचारेति । व्याप्तिनिश्चयवदित्यर्थः । अत एवाग्रे
तथैव वक्ष्यति साधनेत्यादि । उपाध्यभावेति उपाध्यभावज्ञानेत्यर्थः । नियतस्येति । अग्नीन्ध-
मकरन्दः ।
मकरन्दः ।
पाधिकत्वं व्याप्तिव्याप्यमिति व्याप्यत्वेन तदनिश्चयदशायां तत्सन्देहः स्यादेव, न चानौपा-
धिकत्वव्याप्तिमितेनेदं, तस्य व्याप्तिग्राहकत्वेनाभ्युपगमादित्यरुचेराह किञ्चेति । अव्यभिचारेति ।
व्याप्तिनिश्चय इत्यर्थः । अत एवाग्रे तथैव वक्ष्यति । उपाध्यभावेति । उपा-
ध्यभावनिश्चयापेक्षायामित्यर्थः । नियतस्य=अग्नीन्धनादिनियतस्य । तस्य=तादात्म्यादेरित्यर्थः ।
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४१
तत्र तादात्म्यं विपक्षे बाधकाद्भवति । तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् ।
न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, आशङ्क्यमानकारणभावस्यापि
पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति । न । एवमप्युभयगामिनोऽव्य-
भिचारनिबन्धनस्यैकस्याऽविवेचनात् , प्रत्येकं चाव्यापकत्वात् । कुतश्च कार्यात्मानौ
कारणमात्मानञ्च न व्यभिचरत इति ॥
अत्रोच्यते—
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ॥
बोधनी ।
तादात्म्यतदुत्पत्त्योरेव निश्चयः कुतस्त्य इत्यत्राह तत्र-इति । अवृक्षे शिलादौ शिंशपात्वस्यानु-
पलब्धिबाधितत्वाद् वृक्षः शिंशपात्वेति निश्चीयते । तदुत्पत्तिस्तु पूर्वापरभावेन प्रत्यक्षानुपलम्भाभ्यां
सिध्यति । “प्रत्यक्षानुपलम्भपञ्चकेन तदुत्पत्तिनिश्चयः” इति हि बौद्धाः । तत्र पौर्वापर्येण वह्निधूम-
योरुपलम्भो प्रत्यक्षद्वयं वह्नयनुपलम्भे धूमानुपलम्भः अन्यस्मिन्पूर्वभावेनोपलब्धेऽपि धूमस्या-
नुपलम्भ इत्यनुपलम्भत्रयमिति प्रत्यक्षानुपलम्भपञ्चकम् । अन्येषां तु वह्नेर्धूमस्य पौर्वापर्यस्य च
त्रीणि प्रत्यक्षाणि वह्नेर्धूमस्य च द्वावनुपलम्भाविति । नन्वेवमप्यदृश्यभावः पिशाचादिर्धूमस्य कारणं,
वह्निस्तु नान्तरीयकसंनिधिर्न वेति शङ्कायां न तदुत्पत्तिसिद्धिरित्यत्राह न ह्येवम्—इति । पिशाचा-
देस्तु पौर्वापर्येण प्रत्यक्षानुपलम्भगोचरत्वरूपस्य कारणलक्षणस्य विरोधाभावेन तत्त्वस्य कारणत्वस्य
निर्वाहान्न शङ्कावकाश इति नानेनापि प्रकारेणाविनाभावनिश्चय इत्याह नैवम्-इति । कुत इत्यत
आह उभय-इति । किमत्र क्वचित्तादात्म्यमव्यभिचारनिबन्धनमन्यत्र तदुत्पत्तिरिति विषयव्यव-
स्थयोच्यते किं वा स्वतन्त्रमुभयं तादात्म्यं तदुत्पत्तिर्वेति । नाद्यः, अनुवृत्तस्याव्यभिचारनिबन्ध-
नस्यावचनात् , तद्वचने च तस्यालक्षितत्वात् । नाप्युत्तरः, तादात्म्यस्य तदुत्पत्तावभावात् तस्या-
श्चेतरत्राभावाद्व्यापकत्वादत एव नापि संभूयेति भावः । कि च उपाधिविधूननापेक्ष एव ताभ्या-
मप्यविनाभावनिश्चय इत्याह कुतश्च-इति । तदेवमनुमानस्याव्यभिचारनिश्चयापेक्षत्वात्तस्य चोपाधि-
निषेधायतत्वात्तन्निषेधे योग्यानुपलम्भाभावादनुपलम्भमात्रस्य च निषेधकत्वानङ्गीकारादनुमानेन च
तन्निषेधेऽनवस्थाप्रसङ्गात् । बौद्धानामपि निषेधाच्चानुमानादिविलोपप्रसङ्ग इति ।
चार्वाके प्रत्यवस्थिते परमसिद्धान्तीत्याह अत्रोच्यते-इति । उपाधिविरहस्य दुरवधारणत्वेना-
नुमानकुलोत्सादाच्छङ्कास्ति चेत् तत एवानुमाऽस्त्येव तत्कालतद्देशयोः सहदृष्टस्य किं कालान्तरे
देशान्तरे चाऽविनाभावो भविष्यति न वेत्येवं व्यभिचारस्य शङ्कनीयत्वात् कालान्तरभवनमसंनिहितं च
देशमनाकलप्य शङ्कानुपपत्तेः तदाकलनस्य चानुमानमवधीर्याशक्यत्वादिति हृदयम् । तदनाकलने
तु शङ्कैव न स्यान्निराश्रयत्वादित्यभिसंधायोक्तं न चेच्छङ्का ततस्तराम्-इति । न चेच्छङ्का,
प्रकाशः ।
आशङ्क्यमानेति ॥ अग्निं विना पिशाचादेव धूमः स्यादिति पिशाचस्य कारणत्वशङ्काऽन्वयव्यति-
रेकावादाय वाच्या तौ चाग्नेः प्रत्यक्षसिद्धस्येति नान्यकारणशङ्केत्यर्थः । दूषयति ॥ नैवमपीति ॥
तयोर्न मिलितयोर्व्याप्तिग्राहकत्वमसिद्धेरिति प्रत्येकं तत्त्वे व्याप्तिग्राहकतावच्छेदकानुगतरूपाभाव
इत्यर्थः । ननु ज्ञापकस्याननुगमो न दोषः, एकस्याप्यनेकज्ञाप्यत्वादित्यत आह । कुतश्चेति ॥
विपक्षबाधकतर्कस्यापि व्याप्त्यपेक्षया तत्रापि तर्कान्तरानुसरणेऽनवस्था तर्कं विनाऽपि व्याप्तिग्रहे
व्यभिचारात् तर्कोऽपि न तद्धेतुः स्यादित्यर्थः ॥
शङ्का चेदिति ॥ कालान्तरदेशान्तरयोर्व्यभिचारोपाध्यन्यतराशङ्का यदि, तदाऽनुमानमस्त्येव ।
तां विना तयोरप्रतीतेः। यदि च तयोरप्रतीतौ न शङ्का, सुतरामनुमानम् । शङ्कानिरासकस्याप्यनपेक्ष-
प्रकाशिका ।
नादिनियतस्येत्यर्थः । अनेकज्ञाप्यत्वादिति । कार्ये च ज्ञानरूपे विषय एव विशेष इति न परस्पर-
३४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायो
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ ७ ॥
कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्क्येत तदाक-
लनञ्च नानुमानमवधीर्य्य कस्य चित्। मुहूर्त्तयामाऽहोरात्रपक्षम्रासत्वयनसंवत्सरा-
ऽऽदयो हि भाविनो भवन्मुहूर्त्ताद्यनुमेया एव । अनवगतेषु स्मरणस्याप्यनाशङ्क-
नीयत्वात्। अनाकलने वा, कमाश्रित्य व्यभिचारः शङ्क्येत। तथा च सुतरामत्नु-
मानस्वीकारः। एवञ्च देशान्तरेऽपि वक्तव्यम्॥
स्वीकृतमनुमानम्। सुहृद्भावेन पृच्छामः, कथमाशङ्का निवर्त्तनीया ? इति
बोधनी ।
ततः शङ्काभावादेव सुतरामगुमाऽस्त्येव शङ्कानिरासप्रयासस्याप्यभावः । स्वीकृतैवानुमानं कथमियं
व्यभिचारशङ्का निवर्त्तनीयेति तत्त्वबुभुत्सया पृच्छत उत्तरम्-अर्थक्रमानुरोधेन पाठक्रममनादृत्य तर्कः
शङ्कावधिर्मत इति । तावदेवावकाशः शङ्कापिशाच्या यावत्तर्केण नागतं, समागतस्तु तर्कः शङ्काया
अवधिरन्तो मतो न्यायविदाम् । ननु तर्कोऽप्यविनाभावमूल एव प्रवर्त्तमानोऽन्यथासिद्धिशङ्कया तर्का-
न्तरमपेक्षत इति अनवस्थादौस्थ्यात् पुनरप्यनुमानं दत्तजलाञ्जलि स्यादित्यत उक्तं व्याघाताव-
धिराशङ्का-इति । अयमाशयः-किमियमाशङ्कार्थक्रियार्थिनो लौकिकस्य, हेतुफलभावं जिघांसतः
परीक्षकस्य वा ? प्रथमे क्रियाव्याघातावधिराशङ्का लोकस्य न तु यथा क्रियाव्याघातादयोऽवतरन्ति
तथा भवतीत्यर्थः । तथा च द्वित्रस्थानपर्य्यवसानान्नानुमानप्रामाण्यविघातः । द्वितीये तु शङ्कव न स्यात्
तस्या अपि कस्यचित् फलत्वातया हेतुफलभावप्रत्यक्षे प्रामाण्यनिश्चयोऽपि न स्यात् तस्या अपि
तथाभावात् , सोऽयं व्याघात इति !
व्याचष्टे कालान्तरे इति । भवन्मुहूर्त्ता अनुमेया-इति । वर्तमानमुहूर्त्तादयो भाविमुहूर्तादिव
न्तः मुहूर्त्तत्वादतीतमुहूर्त्तवदिति । मा भूदनुमानं स्मरणं तु भविष्यति कालान्तर इत्यात्राह अनवगत-
इति । भाविनः कालस्य प्रत्यक्षसंभवादिति सर्वथा चानाकलने निर्विषया शङ्कव न स्यादित्याह
अनाकलने-इति । तर्हि ननु माभूद् व्यभिचाराशङ्केत्यत्राह तथा च-इति । तुरीयं पादं व्याचि-
ख्यासुः शङ्कते स्वीकृतम्-इति । सुहृद्भावेनैवोत्तरमाह न-इति । द्वयी हि शङ्का किमस्य हेतोरनेन
साध्येन संबन्ध उपाधिरस्ति वा न वेत्येका, अन्या तूपाधिशङ्कानिमित्ता हेतोः साध्यव्यभिचारशङ्का,
प्रकाशः ।
णादित्यर्थः । वादकथाम्राश्रित्य शङ्कानिवर्त्तकमाह ॥ व्याघातेति ॥ शङ्काया अवधिस्तर्कः, तन्नि-
वर्त्तकत्वात् । ननु तर्कोऽपि व्याप्तिमूलकतया तर्कान्तरापेक्षायामनवस्थेत्यत आह ॥ व्याघातावधि-
रिति ॥ तर्कमूलम्यौसौ स्वक्रियाव्याघातेन व्यभिचारशङ्कव नोदेतीति न तत्र तर्कापेक्षेत्यर्थः ॥
पूर्वार्द्धं व्याचष्टे ॥ कालान्तरेत्यादि, तथाचैत्यन्तेन । ननु साध्यात्यन्ताभावसामानाधिक-
रण्यं साधने वर्त्तते न वेति शङ्का, देशकालानन्तर्भाव्यैवेति नानुमानावश्यकत्वम् । मैवम् । साध्या-
त्यन्ताभावसामानाधिकरण्यं तदधिकरणाधिकरणत्वम् । तत्र प्रसिद्धधूमाधिकरणे बह्णिनिश्चयादेव
न शङ्का । तदन्यच्चानुमानगम्यमेव ॥
तथापि सामान्यलक्षणया प्रत्यासत्त्या प्रत्यक्षेणापि कालादेरुपस्थितेर्नोनुमानादेव तदुपस्थितिः ।
प्रकाशिका ।
व्यभिचार इति भावः । वादकथामिति । तथा च कथं शङ्कानिवृत्तिरिति जिज्ञासुं प्रत्युत्तरमेत-
दित्यर्थः। अर्थक्रमानुरोधेन शाब्दक्रमव्युत्क्रमेण व्याचष्टे शङ्काया अवधिरीति। ननु तर्केऽपीति।
बाधकाभावेन शङ्काया अवश्यम्भावो एतन्निवर्त्तनाय तर्कान्तरविज्ञायामनवस्थितिरिति भावः। [क्रियति।
वस्तुतः कोटिस्मरणादिविरहेणैव शङ्काविच्छेदे न तन्निवर्त्तकतर्कापेक्षेति.न अनवस्था इति परिभाव-
------------------------------ । पत्तत्रिक्तान्तेन सामान्यलक्षणया कालदेशयोरुपस्थितेरित्यर्थः ।
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४३
चेन्न । यावदाशङ्कं तर्कप्रवृत्तेः । तेन हि वर्त्तमानेनोपाधिकोटौ तदायत्तव्यभिचार-
कोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते । विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्श-
नोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्प-
त्तिरिति किमनुपपन्नम् ॥
बोधनी
तत्रोभयत्रापि तर्कप्रवृत्तेः शङ्कानिवृत्तिरिति । कथं तर्हि ततस्तन्निवृत्तिरित्यत्राह तेन हि-इति ।
यद्यत्रोपाधिः स्यात् तदायत्तो वा हेतोर्व्यभिचारस्तत एव स्यादिति । प्रामाणिकत्यागाप्रामाणिकस्वीका-
रात्मकानिष्टमुपनयता तर्केण पक्ष एव जाता विपक्षजिज्ञासात्मिकेच्छा विच्छिद्यते, तद्विच्छेदे चानुमाता
निरन्तरायेण भूयोदर्शनेनावधारितव्यभिचारं लिङ्गं निःशङ्क एवानुमितिज्ञानोत्पादे विनियुङ्क्ते
विनियुक्ताच्च करणालिङ्गादनुमितिक्रियानिष्पत्तिरिति न संकटं किञ्चिदिति ॥
प्रकाशः ।
सा च प्रत्यासत्तिरनुमानप्रामाण्यवादिनोऽपि स्वीकार्या । अन्यथा, यस्य व्याप्तिग्रहः स न पक्षधर्मः,
तादृशश्च न व्याप्तिग्रहगोचर इत्यनुमानविलयापत्तिः । मैवम् । इदमसाधकमनुपलभ्यमानव्यभिचारशङ्का-
ग्रस्तत्वादित्यनुमानमपि शङ्काऽऽस्कन्दतीति जात्युत्तरत्वात् । व्याप्तिग्रहाभावव्यभिचारशङ्कयोस्त्वयापि
व्याप्तिस्वीकारात् । व्यभिचारशङ्कायामव्यभिचारकोटेरावश्यकत्वाच्च । अपि चानुमानाप्रामाण्यं नानु-
मानगम्यम् । तदनङ्गीकारात् । नापि प्रत्यक्षगम्यम् । तथाऽनुव्यवसायाभावात् । एतेनोत्कटकोटिक
संशयरूपाऽनुमितिरस्तत्करणमनुमानमित्यपास्तम् । धूमादग्निं निश्चिनोमीत्यनुव्यवसायेन तन्निश्चयत्वस्यै
प्रत्यक्षत्वात् । अन्यथा, प्रत्यक्षस्यापि निश्चयत्वे कः समाश्वासः ? ।
यावदाशङ्कमिति ॥ तर्कसहकृतभूयोदर्शनजसंस्कारसचिवप्रमाणेन व्याप्तिर्गृह्यत इत्यर्थः
तर्कव्यापारमाह ॥ तेन हीति ॥ इच्छा विच्छिद्यते इति ॥ संशयजनितसाध्याभाववति जिज्ञासा
निवर्त्त्यते इत्यर्थः । तज्जनकसंशयसहितेति शेषः । अन्यथा, जिज्ञासाविच्छेदेऽपि
प्रकाशिका ।
ननु सामान्यलक्षणा वा स्वीक्रियतामनुमानं वेत्यत्र किं विनिगमकमत आह । सा चेति । ननु
सम्भावनैवानुमानप्रयोजनं प्रकृतेऽपि स्यादित्यरुचेराह । व्याप्तिग्रहेति । ननु भूयःसहचारमात्रमेव
तत्रापि स्वीकरणीयमत आह । व्यभिचारशङ्कायामिति । तथाऽनुव्यवसायाभावादिति ।
इदमुपलक्षणम् । प्रत्यक्षस्य तत्रासामर्थ्यादित्यपि द्रष्टव्यम् । निश्चिनोमीति निश्चयत्वं जातिरिति
मतेनेदम्, वस्तुतः संशयान्यत्वमपि ज्ञाननिष्ठं योग्यमेवेति भावः । तर्कसहकृतेति । तर्कस्य च
शङ्कानिवर्त्तनद्वारा प्रयोजकत्वमित्यवधेयम् । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह संस्कारे-
तेति । संशयजनितेति । यद्यपि जिज्ञासा ज्ञानेच्छा सा च ज्ञानेष्टसाधनताज्ञानादिति न संशयाद्भवितु-
मर्हति, न चातन्निवर्त्तनमनिष्टप्रसञ्जनरूपात् तर्कात्, "इच्छानिवर्त्तकमनिष्टसाधनताज्ञान"मित्यत्रानिष्टं
दुःखरूपं प्रकृते च प्रमाणबाधितत्वरूपमनिष्टं प्रसञ्जनीयं यतः, तथापि संशये सति संशयजन्यदुःखा-
भावरूपेष्टसाधनताज्ञानादेव ज्ञानेच्छा सत्प्रतिपक्षस्थलेऽज्ञानजन्यदुःखाभावरूपेष्टसाधनताज्ञानादिवत् त-
दुच्छेदेऽपि तत्प्रयोजकीभूतसंशयजनकीभूतविरोधिप्रमाणशङ्कोच्छेदद्वारैवेति मिश्राः । केचित्तु
अन्वयव्यतिरेकाभ्यां संशयस्य प्रतिपक्षोपस्थितेश्च स्वातन्त्र्येणैव जनकत्वं तर्कस्य च जिज्ञासानिवर्त्तक-
मकरन्दः ।
ननु व्याप्तिस्वीकारेऽपि नानुमानप्रामाण्यस्वीकारस्तयोर्भेदादित्यत आह । अपि चेति ।
धूमादिति । निश्चयत्वं जातिरिति मतेनेदम् । उपनीतभानाभिप्रायेण वा । अन्यथा अनुव्यवसाय-
विषयत्वानुपपत्तेरित्याहुः । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह । संस्कारेति ।
अन्यथेति । प्रतिबन्धकतावच्छेदके ज्ञानत्वस्यैव न प्रवेशो गौरवात्, कुतो निश्चयत्वस्येति
३४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७_कारिकाव्याख्यायां
प्रकाशः ।
संशयसत्त्वे व्याप्त्यग्रहात् । न च साध्याभावविषयकज्ञानस्य प्रतिबन्धकत्वात् तन्निवर्त्तनमफलं,
लाघवात्साध्याभावविषयत्वस्यैव प्रतिबन्धकतावच्छेदकत्वात् ॥
प्रकाशिका ।
त्वमित्याहुः। तज्जनितेति। न चैवं मूलविरोधः, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीत्यत्र मूले शङ्काया
अनुमाननिवर्त्तनीयत्वाभिधानादिति वाच्यम् । तन्मूलस्य ततस्तदानुमानप्रवृत्तौ अनुमानेऽनुमानप्रवृ-
त्यर्थं शङ्कास्वरूपमपीति निमित्तसप्तम्याश्रयणेनार्थोन्नयनात्, मतान्तरेण तन्मूलमित्यन्ये। व्याप्तिग्राहक-
तर्करूपपरः प्रकाशः विषयपरिशोधकतर्कपरञ्च मूलमित्यपरे । नन्वेवमपि विषयपरिशोधकस्य
नोपयोगः, परामर्शेनैव विशेषदर्शनात्मकेन शङ्कानिवृत्तौ जिज्ञासाया अपि तन्मूलाया निवृत्तेरिति चेत्,
न । विशेषदर्शनेन स्वारसिकशङ्कानिवृत्तावपि विरोधिप्रमाणशङ्कानिबन्धनसाध्याभावशङ्काजिज्ञासयोर-
नुवृत्तेस्तन्निवृत्त्यर्थं तर्कोपयोगात्, एवं च तर्केण विरोधिकोटावनिष्ठमुपनयता विरोधिप्रमाणशङ्काप-
गमे तन्मूलकसाध्याभावसंशयापगमे तन्मूलकजिज्ञासोच्छेद इति तात्पर्य्यम् । केचित्तु पक्षे
धूमदर्शनमात्रस्य तदविरोधित्वेन साध्याभावशङ्कायां जिज्ञासापि भवत्येव, ततश्च साध्यतद्भावा-
न्यतरावधारणोपायानुसरणव्यग्रः प्रतिपत्ता स्मृतामपि व्याप्तिं पक्षवृत्तिधूमे न परामृशति व्यग्र-
त्वादिति परामर्शसामग्र्यां प्रतिरुद्धायां तर्केणानिष्टप्रतिसन्धानात्मकेनापहृतायां जिज्ञासायामव-
धारणोपायानुसरणरूपविषयान्तरसञ्चाराभावे परामर्शोत्पादः । न चैवमस्य कथं विषयपरिशोधकत्व-
मिति वाच्यम् । न्यायस्य विषयो लिङ्गं तस्य शुद्धिः परामर्शप्रतिबन्धकजिज्ञासाया उक्तरूपोपायानु-
सरणपरतायाश्चापगम इति तदुपपत्तेः । तदुक्तम्—प्रमेयतत्त्वावबोधे विरोधिनोनाविषयस्य जिज्ञासा
तदुपायानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी''ति । न चैवं तर्कस्य न्यायोत्तराङ्गत्वव्यु-
त्पादनविरोधः, मतभेदेन तदुपपत्तेः अत एव तत्त्वबोधे तर्को न्यायस्य पूर्वाङ्गं न्यायविषयपरिशो-
धकत्वात्, व्याप्तिग्राहकत्वाच्चेत्युक्तमिति वदन्ति । संशयसत्त्व इति । प्रतिबन्धकतायां ज्ञानत्वस्यैव
मकरन्दः ।
भावः । ननु संशयो न जिज्ञासाहेतुः, तस्या इच्छात्वेन ज्ञानेष्टसाधनताज्ञानसाध्यत्वात् । साध्यार्थिनश्च
साध्याभावज्ञानं नेष्टसाधनमिति न तत्र जिज्ञासा । तथा च कथं तन्निवर्त्तकता तर्कस्येति चेत् न,
अन्वयव्यतिरेकाभ्यां सत्प्रतिपक्षस्येव संशयस्यापि जिज्ञासाजनकत्वात् । ननु विरोधिविषयत्वाभावा-
त्तर्कः कथं संशयजिज्ञासयोर्निवर्त्तक इति चेत्, न, वैषयिकविरोधाभावेऽपि स्वरूपेणैव दाहादौ मण्या-
दिवत् फलबलेन तस्य विरोधित्वात्, इच्छायामनिष्टप्रतिसन्धातृत्वेनापि विरोधित्वाच्च, मधुविष-
संपृक्तान्नबुभुक्षादौ तथा दर्शनात् । नन्वेवमपि यदि निर्वह्निः स्यादिति विषयपरिशोधकस्य तर्कस्य
कथमनुमितावुपयोगः, परामर्शादेव विशेषदर्शनत्वेन शङ्कानिवृत्तेरिति चेत् । विशेषदर्शने स्वरसवाहि-
शङ्काऽनुदशेऽपि अन्याहितशङ्कोदयेन बाधकप्रमाणावतारशङ्कानिबन्धनसाध्याभावशङ्कानिवर्त्तकत्वेन
तदुपयोगादिति विप्रपञ्चितमनुमानप्रकाशे । केचित्तु प्राथमिकलिङ्गदर्शनस्य तदविरोधित्वेन धूमवानयं
वह्निमान्न वेति संशयः, ततो जिज्ञासा, ततश्च साध्याभावज्ञानोपायानुसन्धानपरस्य तामपि वह्निव्याप्तिं
पक्षधर्म्मधूमे न परामृशति व्यग्रत्वादिति प्रसिद्धायां परामर्शसामग्र्यां तर्कावतारे तेनापहृतायां
जिज्ञासायां तदुपायानुसरणपरत्वरूपविषयान्तरसञ्चाराभावे परामर्शोत्पादः, अत एवायं न्यायविषयपरि-
शोधक इति गीयते, न्यायस्य परामर्शस्य विषयो लिङ्गं, तस्य परिशुद्धिः परामर्शप्रतिबन्धकसाध्या-
भावजिज्ञासातदुपायानुसरणपरत्वयोरपगमः । तदाह प्रमेयतत्त्वबोधे वर्द्धमानः-“एवञ्च विरोधिनोना-
विषयस्य जिज्ञासा तदुपायानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी”—इति । न चैवं
तर्कस्य न्यायोत्तराङ्गत्वप्रतिपादनविरोधः, परामर्शव्यापारस्तर्क इति मतेन तदुत्थानात् । तदाह तत्रैव
वर्द्धमानः । “तर्को न्यायस्य पूर्वाङ्गं न्यायविषयपरिशोधकत्वात्, व्याप्तिग्राहकत्वाच्च” इत्याहुः ।
तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३४५
ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्त्तते, ततोऽनवस्थया भवितव्यम् । न ।
शङ्काया व्याघातावधित्वात् । तदेव ह्याशङ्क्यते, यस्मिन्नाशङ्क्यमाने स्वक्रियाव्या-
बोधनी ।
ननु यदि तर्केण व्यभिचारशङ्कानिवृत्तिः तर्हि, तर्कस्याप्यविनाभावापेक्षत्वात्तत्रापि शङ्कानिवृत्त्यर्थं
तर्कान्तरापेक्षायामनवस्था स्यादित्याशङ्कयाह ननु-इति । अत्रोत्तरत्वेन तृतीयं पादमवतारयति न-
इति । नानवस्थया भवितव्यम्, न हि यत्र यत्राविनाभावग्रहस्तत्र सर्वत्र शङ्कोदय इति । व्या-
घातावधित्वमेवाह तदेव हि-इति । यस्मिन्नाशङ्क्यमाने लोकस्य व्यवहारव्याघातादयो न प्रादुष्यन्
प्रकाशः ।
नन्वन्वयेच तर्कामूलव्याप्तावपि शङ्काऽनुवृत्तौ मूलशैथिल्यात्तन्निवर्त्तनं तर्कादेवेत्यनवस्थेत्याह—
नन्विति ॥ न चानादिसिद्धव्याप्तिका एव केचित्तर्का इति वाच्यम् । तत्रापि प्रमाणानुयोगेऽ-
नुमान एव पर्यवसानेऽनवस्थापत्तेरिति भावः । तर्कामूलव्याप्तिग्रहो न तर्कांन्तरात् किन्त्वन्वयै-
वेत्याह ॥ शङ्काया इति ॥ तदेव स्पष्टयति ॥ तदेव हीति ॥ धूमो यदि वह्निसमवहितसामग्र्य-
जन्यत्वे तत्समवहितसामग्र्यजन्यः स्यान्नोत्पन्नः स्यादित्यत्र तर्के प्रवृत्ते किमवह्नेरेव धूमः स्यादिति
शङ्का, क्वचिद्वह्निं विनाऽपि स्यादिति वा, अकारणत एवोत्पद्यते इति वा ? । सर्वत्र स्वक्रियाव्याघातः ।
यदि हान्वयव्यतिरेकावधृतकारणभावं कारणं विना कार्योत्पत्तिं शङ्केत, तदा नियमेन धूमार्थं वह्नेस्तृ-
प्यर्थमन्नस्य परप्रतिपत्त्यर्थं शब्दस्योपादानं न कुर्यात्, तैर्विनाऽपि तेषां सम्भवात् । तस्मात् तदु-
पादानमेव तादृशशङ्काप्रतिवन्धकम् । न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते तत्कारणं तन्ने-
त्याशङ्कते चेत्यर्थः । अतश्च—
व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥
प्रकाशिका ।
रति धूमो यदीति । अत्र सत्यन्तं विशेषणं पक्षेयोजनीयम् । तेनाभिमतविपर्ययपर्यवसायित्वं
तर्कस्येति बोध्यम् । तदुपादानमिति । उपादानकारणीभूतं कार्यकारणभावज्ञानमित्यर्थः । उपादा-
नस्य क्रियायाः शङ्काप्रतिवन्धकत्वात् । नन्वेवमन्योन्याश्रयः कार्यकारणभावग्रहार्थमेवैतत्कर्मानुसरणा-
दिति वाच्यम् । न ह्यनेनैव तर्केण धूमवह्निव्याप्तिग्रहनियमः कोटिस्मरणादिविरहेण शङ्काविच्छेदे
तर्कं विनापि व्याप्तिग्रहात् , किन्तु सर्वत्र शङ्का स्यादेवेति शङ्कापिशाच्या न क्वापि व्याप्तिग्रह इति
नानुमानं प्रमाणामेति वदन्तं चार्वाकं प्रति तर्कोऽयमुपदर्श्यते । एवमाशङ्कमानस्य भवतोऽपि स्वक्रि-
याव्याघात इति प्रतिपादनाय तथा च भवतोऽप्युपादानकारणीभूतं कार्यकारणभावज्ञानं वर्त्तत एवेति
नास्ति शङ्केति तदुद्भावनं वाङ्मनसविर्संवाद इति भयेन शङ्काममुद्भावयन् सोऽनुमानप्रामाण्यानु-
मकरन्दः ।
यत्तर्कामूलव्याप्तौ व्याघातः शङ्काप्रतिबन्धकस्तमुदाहरति धूमो यदीति । सत्यन्तं घटादौ व्यभि-
चारवारणाय । पक्षविशेषणमप्येतद् बोध्यम् । तेनैतद्विशेषणस्यैव व्यतिरेकमादाय नास्य विपर्य्ययप-
र्य्यवसानम् । तद्ग्रहश्च योग्यानां व्यभिचारदर्शनात्, अयोग्यानामनुपस्थितकल्पनागौरवात् । तदु-
पादानमिति । तदुपादानहेतुभूतधूमवह्न्यादिकार्य्यकारणभावज्ञानमेवेत्यर्थः । शङ्काया विरोधिनिश्च-
याप्रतिबध्यत्वादिति ध्येयम्। यद्यप्येवमन्योन्याश्रयः, शङ्कानिवृत्तावेव तर्कस्य कार्य्यकारणभावनिवर्त्तकत्वं
निश्चिते च कार्य्यकारणभावे ततः शङ्कानिवृत्तिरिति, तथापि न सर्वत्रानेनैव तर्केण वह्निधूमकार्य्य-
कारणभावग्रहः, स्वतः सिद्धशङ्काविरहेऽन्वयादिज्ञानवतस्तद्ग्रहे बाधकाभावाव तस्मात् सर्वत्र शङ्का
स्यादेवेति यच्चार्वाकादिरनुमानविरोधी मन्यते, तं प्रत्युच्यते तथा सत्येतादृशतर्केऽपि तादृशशङ्कायां
भवतो धूमार्थंवडयुपादानं व्याहन्येत । तदिदमाह, न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते
४४ न्या० कु०
३४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यान
प्रकाशः ।
इति खण्डनमपास्तम् । व्याघातस्य शङ्काऽनाश्रितत्वात् । स्वक्रियाया एव शङ्काप्रतिबन्धकत्वात् ।
एतेन व्याघातो विरोधः, स च सहानवस्थाननियमो, नियमश्च व्याप्तिरिति तत्राप्यनवस्थेत्यपि
निरस्तम् ॥
नन्वेवं तर्कं विनाऽपि व्याप्तिग्रहाद्व्यभिचारेण तर्कोऽपि न व्याप्तिग्राहकः । अत्रास्मत्पितृचर-
णाः । तर्को न व्याप्तिग्राहकः, किन्तु व्यभिचारज्ञानाभावसहकृतं सहचारदर्शनम् । ज्ञानञ्च निश्चयः
शङ्का च । शङ्का क्वचिदुपाधिसन्देहात् , क्वचिद् विशेषादर्शनसचिवसाधारणधर्मदर्शनात् । तदभा-
वश्च क्वचिद्विपक्षबाधकस्तर्कात् , क्वचित् स्वतः सिद्ध एवेति नानुगमः । ननु सहचारदर्शनव्यभि-
चारादर्शनवद् व्यभिचारज्ञानाभावानुकूलतर्कयोर्ज्ञानं व्यभिचारिसाधारणमिति न ततो व्याप्तिनिश्चयः
प्रकाशिका ।
कूलव्याप्तिग्रहमङ्गीकारयितुं शक्यत इति भावः । तर्कस्यैव व्याप्तिग्राहकत्वमित्याचार्याभिमतमिति
भ्रान्तः शङ्कते नन्वेवमिति । अत्रास्मत्पितृचरणा आचार्य्याशयं स्फोरयन्तीति शेषः । व्यभिचा-
रज्ञानेति । यद्यपि व्यभिचारज्ञानवदव्यभिचारज्ञानमपि वर्त्तत इति व्यभिचारस्यापि ग्रहापत्तिरिति
मकरन्दः ।
तत्कारणं तन्नेत्याशङ्कते चेति दिक् । किन्त्विति । न चैवमव्यभिचारज्ञानाभावसहकृताद्व्यभिचारनिश्चय-
प्रसङ्ग इति पूर्वोक्तदोषानपाय इति वाच्यम् । सहचारदर्शनस्य व्यभिचारनिश्चयानङ्गत्वात् , माना-
भावात्, विरुद्धे व्यभिचारनिश्चयस्य तेन विनाऽपि भावाच्च । शेषन्त्वनुमानप्रकाशे ।
टिप्पणी ।
चारो गृहीत इति भावः ॥ ननु सहचारदर्शनव्यभिचारादर्शनवद्व्यभिचारज्ञानाभावानुकू-
लेति । सहचारदर्शनेत्यादिचिन्तामणिपङ्क्तिका तत्र व्यभिचारज्ञानाभावेत्यत्र व्यभिचारशङ्का-
विरहेति पाठमूरीकृत्य व्याख्यातं मथुरानाथेन तथा हि यथा सहचारदर्शनं व्यभिचारनिश्चयाभावश्च
व्यभिचारिसाधारणम् सन्दिग्धव्यभिचारिसाधारणम् व्यभिचारसंशयस्थलेऽपि वर्त्तते । न च तत्र
व्याप्तिग्रहः इति न व्याप्तिग्राहकः, तथा व्यभिचारशङ्काविरहज्ञानमनुकूलतर्कज्ञानञ्च व्यभिचारसंशयस्थल-
साधारणमिति न व्याप्तिग्राहकम्, तयोः सहचारदर्शनव्यभिचारज्ञानसामान्याभावयोरित्यर्थः, केन सन्द-
र्भेण तत्रेदं चिन्त्यम् । व्यभिचारशङ्काविरहज्ञानस्य व्यभिचारनिश्चयस्थलेऽपि व्याप्तिज्ञानोत्पत्तिव्य-
भिचारित्वसम्भवात्तत्संशयस्थलानुधावनमसङ्गतं ज्ञातव्यभिचारसाधारणमिति व्याख्यानस्यैवोचित-
त्वात् । व्यभिचारज्ञानसामान्याभावस्य पूर्वानुक्तत्वेन तयोरित्यत्र तच्छब्देन तत्परामर्शासम्भवाच्च ।
प्रकाशस्थचिन्तामणिग्रन्थस्त्वेवं व्याख्येयः, यथा व्यभिचारनिश्चयाभावः संशयस्थले ज्ञातव्यभिचारसा-
धारणस्तथा व्यभिचारज्ञानसामान्याभावज्ञानमपि संशयनिश्चयस्थलयोः ज्ञातव्यभिचारसाधारणमिति न
व्याप्तिग्राहकं इति व्यभिचारज्ञानाभावस्योपक्रान्तत्वेन तच्छब्देन तत्परामर्शोऽप्युपपन्नः । वस्तुतस्तु
पूर्वग्रन्थे व्यभिचारज्ञानसामान्याभावस्य स्वरूपत एव कारणत्वमुक्तमस्ति तत्र निर्वीजन्तु ज्ञानकारणत्व-
भ्रान्तिकल्पयित्वा ग्रन्थोत्थापनमयुक्तमेव प्रतिभातीतीत्थं व्याख्येयः, सहचारदर्शनं व्यभिचारज्ञानाभावश्च
व्यभिचारज्ञानकारणाभावे सद्धेताविव व्यभिचारिण्यपि विशेषदर्शिनामपि सम्भवतीति तत्रापि व्याप्ति-
ग्रहप्रसङ्गः, न च का क्षतिरिति देश्यम् व्याप्तिनिश्चये व्याप्यत्वप्रसङ्गात् , न चोत्तरकालं व्यभिचारदर्श-
नाद् व्याप्तिबाध इति वाच्यम् । न ह्यस्ति नियमो व्यभिचारज्ञानेन प्रमात्मकेनैव भवितव्यमिति व्यभि-
चारज्ञानस्य प्रमात्वनिश्चये व्याप्तिबाधः, व्याप्तिबाधे प्रमात्वनिश्चय इत्यन्योन्याश्रयः, एवं सद्धेतौ व्य-
भिचारो द्रक्ष्यत इति का प्रत्याशा, तस्माद् व्यभिचारिसाधारण्यम् व्याप्तिग्राहकस्यानिष्टम् , ननु व्यभि-
चारज्ञानाभावज्ञानमेवास्तु कारणम् ज्ञानाभावो ज्ञानकारणविरहनियतः, सुषुप्ताविवान्यदापि विशेषद-
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४७
घातादयो दोषा नावतरन्तीति लोकमर्यादा । न हि हेतुफलभावो न भविष्यती-
ति शङ्कितुमपि शक्यते । तथा सति शङ्कैव न स्यात्, सर्वं मिथ्या भविष्यतीत्या-
दिवत् ।
बोधनी ।
तत्रैव शङ्का न सर्वत्रेति । कुत इत्यत आह न हि-इति । न हि कार्यकारणभावोऽपि न स्यादिति
शङ्कायाः संभवस्तस्या अपि कस्यचित्कार्यत्वादिति न केवलं शङ्खानुदयः सर्वमपि कार्यजातं मिथ्या
कार्यकारणभङ्गादित्यादि च बाधकमूहनीयमित्याह सर्वम्-इति । यद्वा, सर्वं व्यभिचरिष्यतीतिव-
त्सर्वं मिथ्या भविष्यतीत्यपि शङ्काया अनुत्थानं तस्या अपि सर्वान्तर्भावेन मिथ्यात्वेन व्याघाता-
दिति प्रसङ्गादुच्यते-इति । नन्वसार्वत्रिकत्वेऽपि यत्र कुत्रचिदपि संभवन्तीत्याशङ्कोपाधि-
प्रकाशः ।
स्यात् । न । तयोः स्वरूपसतोरेव व्याप्तिग्राहकत्वात् । सत्तर्काद् व्याप्तिप्रमा, तदाभासात्तदप्रमा, विशे-
षदर्शनसत्यत्वाप्रयत्वाभ्यां तादृशपुरुषज्ञानवत् । इयञ्च प्रत्यक्षेण व्याप्तिग्रहे सामग्री । तदभावेऽपि
शब्दानुमानाभ्यां व्याप्तिग्रहादिति ।
शङ्काऽपि हेतुमती, न वा ? । आद्ये हेतुं विना न स्यादेव । द्वितीये देशादिनियमहेतोरभावात्
सर्वोत्पत्त्यलप्रसङ्ग इत्याह । तथा सतीति ॥ नन्वतीन्द्रियोपाध्यभावनिर्णयोऽशक्यः । योग्योपा-
प्रकाशिका ।
पूर्वोक्तोपलादवस्थ्यम् । तथापि सहचारज्ञानस्यात्राधिकत्वं तर्कसादित्यञ्चेति विनिगमकं तुल्यत्वे तु
सन्देह एवेति अहेतुकैवाशङ्कोत्पत्तिरित्यपगमे हेतुफलभावेऽपि शङ्का स्यादिति विकल्प्य व्याचष्टे ।
शङ्कापि हेतुमतीति । देशादेति । अत्रैव शङ्का नान्यत्रेति नियामकाभावेन शङ्का-
यामपि शङ्का स्यात्, एवं सर्वं मिथ्येत्यपि शङ्का स्यादिति सर्वोत्सत्यत्वप्रसङ्ग इत्यर्थः ।
मकरन्दः ।
अहेतुकैवोत्तिरित्युपगमे हेतुफलभावाभावेऽपि शङ्का स्यादेवेत्यतो व्याचष्टे शङ्काऽपीति ।
देशादेरिति । अत्रैव शङ्का नान्यत्रेति नियमहेतोरभावात् शङ्कायामपि शङ्का, एवं सर्वं मिथ्या भवि-
टिप्पणी ।
शिनां यद्यपि सम्भवति, तथापि ज्ञानाभावज्ञानं दुर्घटम्, विशेषदर्शिनां व्यभिचारिणि व्यभिचारज्ञानस्य
शक्यपरिच्छेदत्वात्, विशेषदर्शनुरोधेनैव वस्तुन्यवस्थापनोचितेत्येवं मन्वानस्य सिद्धान्त्याभासस्य
निराकरणम्, यथा ज्ञानकारणविरहाद् व्यभिचारज्ञानं व्यभिचारिसाधारणम्, विशेषदर्शिनां तथा व्य-
भिचारज्ञानासत्त्वे तदभावस्य प्रमेयत्वे विशेषदर्शिनामपि ज्ञानं व्यभिचारिण्यपि न दुर्लभम्, व्यभि-
चारज्ञानकारणनियमस्येव तज्ज्ञानज्ञानकारणनियमस्याप्यभावेन कारणाभावादेव प्रतिबन्धकस्य ज्ञान-
ज्ञानस्य विशेषदर्शिनां सर्वदा सत्वासम्भवेनात्रापि व्यभिचारिसाधारणमिति न व्यभिचारादर्शनञ्चापि-
तज्ज्ञानस्य ग्राहकैमिति व्याप्तिग्राहकाभाव प्रसङ्ग इति। स्वरूपसतोरेव व्याप्तिग्राहकत्वादिति ।
ग्राहकत्वञ्च साक्षात्परम्परासाधारणं तेन तर्कस्याहेतुतायाः पूर्वमुक्तत्वेऽपि न क्षतिः। सत्तर्काद्व्याप्ति-
प्रमेति व्याप्तिमद्धर्मेन्द्रियादिसन्निकर्षोद्वित्यर्थः। तेनासत्तर्कादपि व्याप्तिसत्त्वे प्रमोत्पादेऽपि न क्षतिः।
ग्राहक सत्त्वे व्यभिचारिण्यपि व्याप्तिग्रहः स्वीकृत एव न च व्याप्तिसत्त्वप्रसङ्गः। व्यभि-
चारिणि हेतुमति योग्यस्य साध्याभावावगिषये दोषाभावनिर्णये व्यभिचारज्ञानस्य प्रमात्व-
निश्चयात् सद्धेतौ तादृशनिश्चयाभावात् सम्भावना तु तर्कनिरस्तेत्याशयः। आद्ये हेतुं विना
न स्यादेवेति । उभयथापि शङ्कव न स्यात् । शङ्का हेतुमतीत्यभ्युपगतश्वेद्धेतुफलाभावस्या-
सत्तया शङ्कोत इति हेतोरभावात् स्यात्, , शङ्का हेतुमती नेत्यभ्युपगतश्चेन्नियामकाभावाद्धेतुफल-
भावयोरिव सम्भावितसत्त्वं शङ्कायामपि स्यादिति न स्यात् । सा यथैन्द्रजालिकपदार्थोत्सत्वेन
३४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्वयाध्यायौ
तथापि, अतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् । न वै कश्चि-
दतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम् । केवलं सा-
हचर्ये निबन्धनान्तरमात्रं शङ्क्यते ततः शङ्कैव फलतः स्वरूपतश्च निवर्त्तनीया ।
तत्र फलमस्या विपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्त्तते । ततोऽनुमानप्रवृत्तौ
शङ्कास्वरूपमपीति सर्वं सुस्थम् । न चैतदनागमं, न्यायाङ्गतया तर्कं व्युत्पादय-
बोधनी ।
निषेधेनैव निवर्तनीया, तत्रैन्द्रियकस्य योग्यानुपलम्भेन निषेधेऽप्यतीन्द्रियस्य कथं निषेध इत्याह
तथापि-इति । न वै कश्चित्-इति । प्रसक्तं हि प्रतिषिध्यत इति । तर्हि भूयोदर्शनेनैव प्रतिबन्ध-
सिद्धेस्तर्कः शङ्कावधिरित्यादिकमरण्यरुदितं स्यादित्यत्राह केवलम्-इति । न तावत् भूयोदर्शनमात्रा-
त्प्रतिबन्धनिश्चयः, नापि सर्वत्रोपाध्याशङ्का, किन्तु निबन्धनान्तरकृतस्यापि साहचर्यस्य क्वचिद्दर्शनात्
किमत्रापि निबन्धनान्तरमस्ति वा न वेति क्वचिच्छङ्का जायते, सा च हेतोर्विपक्षसंसर्गशङ्कां फलति,
ततो न प्रतिबन्धनिश्चयः स्यात्, तेन हेतोः साध्यसंसर्गे निबन्धनान्तरशङ्का स्वरूपतः फलतश्च
प्रतिबन्धनिश्चयार्थं निबन्धनीया । तत्र या फलभूता धूमवानपि पर्वतः किमनग्निः स्यादिति
पक्ष एव विपक्षत्वेनं जिज्ञासा सा तर्केण साक्षान्निवर्तते । यदि तथा स्याद् धूमस्याकारणत्वेन कादा-
चित्कत्वभङ्गप्रसङ्गः दुष्टत्वं वाग्नेरनियतत्वान्नियतस्य च हेत्वन्तरस्याभावादिति । ततो निवृत्तव्यभि-
चारशङ्को निष्कलङ्को भूयोदर्शनेनावधृतप्रतिबन्धाल्लिङ्गाल्लिङ्गिनमनुमिनोति, तत उपाधिशङ्कास्वरूपमपि
निवर्तते, न चोपाधिशङ्काऽप्यनुमानप्रवृत्तेः पूर्वमेव निवर्तनीया विपक्षजिज्ञासानिवृत्त्यैवानुमानप्रवृत्तेः
पाश्चात्त्या तूपाधिशङ्कानिवृत्तिर्वस्तुगत्योक्ता, न त्वनुमानप्रवृत्त्युपयोगित्वेनेति । न च तर्कसनाथेन
भूयोदर्शनेन निश्चितप्रतिबन्धं लिङ्गमनुमानाङ्गमित्ययमर्थः स्वमनीषिकामान्रकल्पित इत्याह
न चैतत्-इति ।
प्रकाशः।
द्वे योग्यानुपलब्धेरभावनिश्चयेऽप्ययोग्योपाधिव्यतिरेकस्य अनुमानाधीनज्ञानत्वेनानवस्थापातादित्याह
तथापीति ॥ उपाधिनिश्चितः, शङ्कितो वा ? । आद्ये, न वै कश्चिदिति ॥ शङ्काऽपि भवि-
ष्यति कश्चिदत्रोपाधिरित्यात्मिका, सकललोकयात्राविलोपकत्या नाद्रियत एवेति । साध्यव्यापकतया
निश्चितमिदं साधनान्यापकं स्यादिति शङ्का स्यात्तत्राह । केवलमिति ॥ साधने साध्यसम्ब-
न्धितावच्छेदकान्तरमित्यर्थः ॥
अथ व्याप्तिविशिष्टपक्षधर्मताज्ञानमनुमितिजनकम्, तत्र का व्याप्तिर्यत्र तर्कोपयोगः । न तावत्
स्वाभाविकत्वम् । स्वभावजन्यत्वस्याव्याप्तेः, स्वभावाश्रितत्वस्य चातिव्याप्तेः। नापि विशिष्टवै-
प्रकाशिका।
विशिष्टेति । साधनविशिष्टे साध्यवैशिष्टयमित्यर्थः । व्यापकत्वं व्याप्तिघटितं स्वसमानाधिकरणात्यन्ता-
मकरन्दः ।
ष्यतीत्यपि शङ्का स्यादिति सर्व्वासत्त्वप्रसङ्ग इत्यर्थः । सकलेति । शङ्कापिशाचीसत्त्वेनातिप्रसङ्गान् सा
प्रतिबन्धिकेत्यर्थः । यद्यपि शयसहितजिज्ञासाया एव शङ्कानिवर्त्तकत्वेनोक्तत्वात् तथैव युक्तत्वाच्च
ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति मूलमयुक्तं, तथापि मतान्तरेणोदमित्येके । 'अनुमानप्रवृत्ताविति
न सतिसप्तमी किन्तु निमित्तसप्तमी, न च कर्म्मयोगाभावान्न तथेति वाच्यम् । शङ्कास्वरूपस्य कर्म्म
कर्त्तृत्वादित्यन्ये । विशिष्टेति । साधनविशिष्टे साध्यवैशिष्टयमित्यर्थः । व्यापकत्वं व्याप्तिघटितं तत्
टिप्पणी।
सर्वमिन्द्रजालवन्मिथ्या भविष्यतीति शङ्कितासत्त्वं सर्वस्य तथेति भावः । स्वाभाविकत्वं स्वभावेन
साध्यस्य जन्यत्वम् स्वभावतः साध्यसम्बन्धित्वं चेति विकल्प्यन् दूषयति स्वभावजन्यत्वस्या-
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४१
प्रकाशः ।
शिष्टार्थं, रासभादिविशिष्टेऽपि वह्निवैशिष्ट्यात् । नापि निमित्तनैमित्तिकत्वं, रूपरसयोरभावात् ।
निमित्तत्वस्य नियमघटितत्वाच्च । नाऽपि कात्स्न्र्येन सम्बन्धः । एकव्यक्तिाव्याप्तेः । नानाव्य-
क्तिकेऽपि धूमादौ सकलधूमसम्बन्धस्य प्रत्येकं वहावसम्भवात् । अत एव, न कृत्स्नेन साध्येन
सम्बन्धः । नापि यावत्साधनाश्रयाश्रितसम्बन्धः । साधनाश्रये महानसादौ सकले प्रत्येकवहेराश्रित-
त्वाभावात् । नाप्यविनाभावः । केवलान्वयिनि अव्याप्तेः । नापि साधनसमानाधिकरण्यावद्धर्म-
समानाधिकरणसाध्यसामानाधिकरणयम् । यावद्धर्मसामानाधिकरण्यं हि यावद्धर्माधिकरणाधिकरण-
त्वम् । तच्चाप्रसिद्धम् । साधनसमानाधिकरणसकलमहानसत्वाद्यधिकरणाप्रतीतेः । नाप्यव्यभिचारि-
त्वम्। तद्धि न साध्यात्यन्ताभाववदवृत्तित्वं, साध्यवदन्योन्याभाववदवृत्तित्वं वा। केवलान्वयिन्यव्याप्तेः।
नापि साध्यवैयधिकरण्यानधिकरणत्वं, साध्यसामानाधिकरण्याऽनधिकरणत्वं वा। तदुभयमपि
साध्यानाधिकरणानधिकरणत्वम् । तच्च केवलान्वयिन्यसम्भवि । यत्किञ्चित्साध्यानाधिकरणाधिकरण्ये
धूमादौ चासिद्धम् । नापि व्यापकसामानाधिकरण्यं, व्याप्तिनिरूप्यत्वात् । नापि स्वसमानाधिकर-
णात्यन्ताभावाप्रतियोगिना सामानाधिकरण्यम् । पर्वतीयाग्नेर्महानसीयधूमसमानाधिकरणात्यन्ताभा-
वप्रतियोगित्वात् । न च धूमवन्निष्ठात्यन्ताभावप्रतियोगि न वह्निसामान्यमिति वाच्यम् । न हि
विशेषाभावादन्यः सामान्यावच्छिन्नप्रतियोगिकोऽभावः । विशेषाभावसमुहादेव तद्व्यवहारोपपत्तेस्तत्र
मानाभावात् । अव्याप्यवृत्तिसंयोगादेर्द्रव्यत्वाद्यव्याप्यतापत्तेश्च । न च प्रतियोगिविरोधित्वमभाववि-
शेषणम् । संयोगे साध्ये सत्त्वादेरनकान्तिकत्वाभावप्रसङ्गात् । न हि प्रतियोगिविरोधी संयोगादेर-
स्त्यन्योऽभावः, अधिकरणभेदेनामावभेदाभावात् । एतेन प्रतियोगिसमानाधिकरणात्यन्ताभावेतर-
त्वेनाऽपि विशेषणं परास्तम् । वह्नेर्धूमवनिष्ठात्यन्ताभावप्रतियोगित्वात् ॥
अथ साधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवत्कत्वम् । न च द्रव्यत्ववनिष्ठान्योन्याभावप्रति-
योगि संयोगवत्, द्रव्यं न संयोगवदित्यप्रतीतेरिति चेत् । न । मूले वृक्षः कपिसंयोगवान्नेत्यबाधि-
तानुभवादवच्छेदकभेदेन संयोगवदन्योन्याभावस्याप्यव्याप्यवृत्तित्वात् । न चैवं भेदाभेदापातः । ईदृश-
स्यावच्छेदकभेदमादाय तदुपगमात् । वह्निमत्पर्वतस्य धूमवन्महानसनिष्ठान्योन्याभावप्रतियोगि-
त्वाच्च । न च सामान्यावच्छिन्नप्रतियोगिकोऽन्योन्याभावः, प्रमाणाभावादित्युक्तम् । किञ्च, साधनव-
न्निष्ठान्योन्याभावाप्रतियोगि साध्यवद् यस्येत्यत्र षष्ठ्यर्थो न व्याप्यव्यापकभावः । तस्यानिरूपणात् ।
नान्येाऽतिव्याप्तेः । साध्यञ्च यदि सिद्धिकर्म विवक्षितं, तदा पर्वतवह्निधूमयोरेव व्याप्तिः । व्यापक-
श्चेत्तदाऽन्योन्याश्रयः । नापि साधनसमानाधिकरण्यावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसा-
मानाधिकरण्यम् । साधनसमानाधिकरणस्य प्रमेयत्वादेर्वैयधिकरण्याऽप्रसिद्धेः । नाप्यनौपाधिकः
सम्बन्धो व्याप्तिः । तथाहि । उपाधिः साधना व्यापकत्वे सति साध्यव्यापको वाच्यः । तत्र यद्यपि
व्यापकत्वं न व्याप्तिनिरूपकत्वमात्माश्रयत्वाद्, किन्तु तदन्निष्ठात्यन्ताभावाप्रतियोगित्वम् । प्रतियो-
गित्वमपि न विरोधित्वं सहानवस्थाननियमलक्षणम् । गोत्वाश्वत्वयोरतिव्याप्तेः । अन्योऽन्याभावप्र-
तियोगिन्यव्याप्तेश्च किन्त्वभावविरहात्मत्वम् । तथापि यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मनिषेधो
धूमादावसिद्धः। प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मश्च सिद्धयसिद्धिम्यां निषेद्धुमशक्यः। यावत्साध्य-
प्रकाशिका ।
भावाप्रतियोगित्वं वा, आद्ये दोषमाह व्याप्तिनिरूप्यत्वादिति। अन्त्यमाशङ्कथ निराकरोति 'नापीति।
मकरन्दः।
समानाधिकरणात्यन्ताभावाप्रतियोगित्वं वा विवक्षितम् । आद्ये दोषमाह व्याप्तिनिरूप्यत्वादिति ।
अन्त्यमाशङ्कथ निराकरोति नापीति ।
टिप्पणी ।
व्याप्तेरिति । प्रत्येकम् वहावसम्भवात् इति । धूमे सकले प्रत्येकं वह्निनिरु-
२४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यानं
प्रकाशः।
व्यापके प्रमेयत्वादौ साधनान्यापकत्वं, यावत्साधनाव्यापके घटत्वादौ साध्यव्यापकत्वं निषिध्यते इति
चेत् । न । व्यधिकरणत्वात् । यावत्साध्यव्यापकव्याप्यत्वमनौपाधिकत्वमिति चेत् । न । आत्माश्र-
यात् । एतेन, यावत्साधनाव्यापकमव्यापकं यस्य, यावत्साध्यव्यापकं व्यापकं वा यस्य, तत्त्वमनौ-
पाधिकत्वमित्यपास्तम् ॥
अथ यावत्साधनसमानाधिकरणात्यन्ताभावप्रतियोगिधर्मप्रतियोगिकात्यन्ताभावसमानाधिकरण-
साध्यसामानाधिकरण्यमनौपाधिकत्वम् । न ह्येवं सोपाधिः, साधनसमानाधिकरणात्यन्ताभावप्रति-
योगिन उपाधेरार्द्रेन्धनवत्त्वादेर्योऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः सामानाधिकरण्याभावात् ।
आर्द्वेन्धनविरहिणि धूमस्यावृत्तेरिति चेत् । न । सोपाधौ गतत्वात् । तथाहि । वह्निः साधनं, तत्स-
मानाधिकरणो योऽत्यन्ताभावस्तप्तप्रायःपिण्डे तत्प्रतियोगि, चत्वरवत्त्यार्द्वेन्धनं, तत्प्रतियोगिको यो-
ऽत्यन्ताभावो महानसे, तत्समानाधिकरणं साध्यो धूमस्तेन सामानाधिकरण्यं वहेः साधनस्य । तथा
प्यार्द्वेन्धनसामान्याभाववति धूमो न वर्त्तते इति चेत् । न । सामान्यावच्छिन्नाभावस्यामानकत्वात् ।
नापि यावत्साधनव्यभिचारितव्यभिचारि यत् साध्यं तेन सामानाधिकरण्यं व्याप्तिः । अनेक-
व्यक्तिकोपाधिमति प्रसङ्गतादवस्थ्यात् ।
अथ केवलान्वयिनि केवलान्वयिसाध्यसामानाधिकरण्यं व्याप्तिः, साध्यवदन्यावृत्तित्वं व्यतिरे-
किणि । एतयोरनुमितिविशेषे प्रयोजकत्वम् । अनुमितिमात्रे पक्षधर्मतैव प्रयोजिका । न च तन्मा-
त्रादनुमित्यापत्तिः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकत्वनियमादिति चेत् । न ।
धूमे साध्यवदन्यावृत्तित्वस्याभावात् । वह्निमत्पर्वतादन्यत्र महानसे धूमस्य वृत्तेः । सकलसाध्य-
वदन्यवृत्तित्वं न धूमे इति चेत् । न वह्निमतां प्रत्येकं सकलसाध्यवदन्यत्वात् ॥
अथ सम्बन्धमात्रं व्याप्तिः । व्यभिचारिणोऽपि सम्बन्धस्य केनचित् सह व्याप्तित्वात् वह्नि-
धूमादिन्यासिस्तु विशिष्ट्यैव वक्तव्येति चेत् । न । अनुमितिकारणलिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरु-
पणप्रस्तावे सम्बन्धमात्राभिधानस्यार्थान्तरत्वात् । तज्ज्ञानादनुमित्यनुत्पत्तेः । नापि व्याप्तिपदप्रवृत्ति-
निमित्तमिदं, सम्बन्धज्ञानेऽपि व्याप्तिपदाप्रयोगात् ॥
अत्रोच्यते । यत्सम्बन्धितावच्छेदकावच्छिन्नत्वं यस्य, तस्य सा व्याप्तिः । तथाहि ! धूमस्य
वह्निसम्बन्धित्वे धूमत्वमवच्छेदकं, धूममात्रस्य वह्निसम्बन्धित्वात् । वह्नेस्तु धूमसम्बन्धित्वे न
वह्नित्वमवच्छेदकं, धूमासम्बन्धिनि गतत्वात् । न ह्यतिप्रसक्तमवच्छेदकम् । संयोगादौ तथात्वादर्श-
नात् । किन्तु वहावार्द्रेन्धनप्रभववह्नित्वं धूमसम्बन्धितावच्छेदकं, तादृशञ्च व्याप्यमेव । यद्वा,
यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यद्यस्य रूपं, तदेव तस्य व्याप्यत्वम् । वह्निसमानाधिकरण्ये
च धूमे धूमत्वेनावच्छिद्यते, सोपाधौ तूपाधिना । यद्वा प्रतियोगिवैयधिकरण्यावच्छिन्नस्वसमाना-
धिकरणत्यन्ताभावप्रतियोगितानवच्छेदकावच्छिन्नेन सामानाधिकरण्यं व्याप्तिः । न च धूमवन्निष्ठा-
त्यन्ताभावप्रतियोगिता वह्नित्वेनावच्छिद्यते, धूमवति वह्निर्नास्तीत्यप्रतीतेः । रासभत्वन्तु तथा,
धूमवति रासभो नास्तीति प्रतीतेः सामान्यावच्छिन्नप्रतियोगिकाभावधान्यः, विशेषाभावप्रमायामपि
सामान्ये संशयात् । न चैवं संयोगित्वव्याप्यत्वं सत्त्वस्य स्यात्, कर्मणि संयोगात्यन्ताभावस्य प्रति-
योगिवैयधिकरण्यात् एतदेवानौपाधिकत्वमित्युच्यते इति संक्षेपः ।
प्रकाशिका ।
सम्बन्धज्ञानेऽपीति । इदमुपलक्षणम् । एवम् अर्थान्तरमित्यपि द्रष्टव्यम् । इतरदन्यत्र व्याख्यातम्।
मकरन्दः ।
सम्बन्धज्ञानेऽपीत्युपलक्षणम् । एवमप्यर्थान्तरतादवस्थ्यादित्यपि द्रष्टव्यम् । व्याप्तिलक्षणान्यनु-
मानप्रकाशे द्रष्टव्यानि ।
यस्तबके ] अनुमानप्रामाण्योपपादनम् । २५१
तः सूत्रकारस्याभिमतत्वात् । अन्यथा तद्व्युत्पादनवैयर्थ्यात् ॥
तदयं संक्षेपः । यत्रानुकूलतर्को नास्ति सोऽप्रयोजकः । स च द्विविधः, शङ्कि-
तोपाधिर्निश्चितोपाधिश्च ।
यत्रेदमूच्यते—
यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते ।
विपक्षस्य कुतस्तावद् हेतोर्गमकताबलम् ॥
बोधनी ।
“अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क” इति तर्कं लक्षयित्वा वादसूत्रे प्रमाण-
तर्कसाधनोपालम्भ इति न्यायाङ्गत्वं तर्कस्य व्युत्पादयतः सूत्रकृतो न्यायोपकारकत्वस्याभिमतत्वात् ,
अन्यथा तर्कस्य न्यायाङ्गत्वे तद्व्युत्पादनमनर्थकं स्यात् प्रयोजनान्तराभावादिति विस्तरतः
प्रतिपादितमर्थं शिष्यानुकम्पया संक्षिप्य वक्ष्याम इत्याह तदयम्-इति । यत्र हेतावुपाधिविधूननेन
भूयोदर्शनसहायकमाचरन्ननुकूलतर्को नास्ति सोऽप्रयोजकः, उपाधिमानप्रयोजक इत्युक्तं भवति
तत्र शङ्कितोपाधेरप्रयोजकत्वे मीमांसावार्तिकमुदाहरति यावच्च-इति । कोऽसावुपाधिर्नाम यद्वा-
प्रकाशः ।
भूयोदर्शनाविलवे कोऽयमप्रयोजको नामेत्यत्रोत्तरमाह-तदयमिति । अनुकूलत्वञ्च तर्कस्य
व्याप्तिग्राहकत्वं व्यभिचारशङ्कानिवर्त्तनद्वारेत्युक्तम् । सोऽयमप्रयोजकः शङ्कितोपाधिः, साधनाऽव्यापक-
त्वेन साध्यव्यापकत्वेनोभयथा वा सन्दिग्धः । यथा, मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वम् ।
यथा तुल्ययोगक्षेमत्वेन उपाधेः साध्यव्यपकतया सन्देहे ईश्वरानुमाने शरीरजन्यत्वादि । यथा, मित्रा-
तनयत्वे शाकपाकजत्वस्य साध्यव्यापकतासन्देह इति क्रमेणोदाहरणम् । न चोपाधिसन्देहो नोपा-
धिर्न वा हेत्वाभासान्तरमिति तदुद्भावने निरनुयोज्यानुयोग इति वाच्यम् ! व्यभिचारशङ्काऽऽधाय-
कत्वेन सन्दिग्धानैकान्तिकस्येव दूषकत्वात् । अत्रैव वृद्धसम्मतिमाह ॥ यत्रेति ॥ विपक्षस्याव्यति-
रेकित्वं यावच्छङ्क्यते, तावन्न हेतुर्गमक इत्यर्थः । उपाधिसन्देहस्य च ज्ञायमानत्वेनानुमितिप्रति-
बन्धकत्वाभावान्न हेत्वाभासान्तरत्वं, स्वरूपसति सन्देहे कारणाभावादेवानुमित्यनुत्पत्तेरिति भावः ॥
प्रकाशिको ।
शरीरजन्यत्वादिरिति । यद्यपि वस्तुगत्या न्यायमते नायमुपाधिरीश्वरानुमानभङ्गापत्तेः,
तथापि विशेषदर्शनदशायामेव तत्सन्देहे, प्रतिबन्धक इत्युपन्यस्तः । वस्तुतो धूमवत्त्वे साध्ये आर्द्रे-
न्धनप्रभववह्निमत्त्वमेव कार्यकारणभावाग्रहदशायामुदाहरणं द्रष्टव्यम् । सन्दिग्धेति दूषकत्वमात्रे
दृष्टान्तोऽयम् । विपक्षस्येति विपक्षगामित्वं हेतोरित्यर्थः । ज्ञायमानत्वेनेति । इदमापातः । पर-
मार्थतोऽनुमिति परामर्शान्यतरसाक्षाद्विरोधाभावादिति द्रष्टव्यम् । अन्यथोपाधेरेव हेत्वाभासतापत्तेरिति सो
मकरन्दः ।
·यथा तुल्येति । यद्यप्यस्योपाधित्वभावान्न सन्दिग्धोपाधित्वं, अन्यथेश्वरानुमानस्य सोपाधि-
त्वापत्तेः, तथापि विशेषादर्शनदशायां कदाचित् तत्सन्देहोऽप्यनुमितिप्रतिबन्धक इति तदपि तथात्वे-
नोदाहृतम् । वस्तुतः शाकपाकजत्वादिकमेव साध्यव्यापकत्वमात्रसन्देहदशायां तथेति बोध्यम् ।
सन्दिग्धेति । दूषकत्वमात्रे दृष्टान्तोऽयम् । विपक्षस्येति । विपक्षगामित्वमित्यर्थः ।
ज्ञायमानत्वेनेत्यापाततः, परमुखनिरीक्षकत्वेनेति बोध्यम् । अन्यथोपाधेस्तथात्वं स्यादेवेति ।
टिप्पणी ।
पितस्य सम्बन्धस्यासम्भवात् । क्षित्यङ्कुरादौ साध्यव्यापकताया सन्देह इति । क्षित्यङ्कुरादौ
सन्देहे तथा च साध्यव्यापकत्वसाधनव्यापकत्वसन्देहः । शाकपाकजत्वस्य साध्यव्यापक-
तया सन्देह इति । पक्षधर्ममित्रातनयत्वावच्छिन्नश्यामत्ववति मित्रातनये शाकपाकजत्वसन्देहात्
३५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्या
तत्रोपाधिस्तु, साधनाव्यापकत्वे सति साध्यव्यापकः । तद्धर्मभूता हि व्याप्ति-
र्जपाकुसुमरक्तेव स्फटिके साधनाभिमते चकास्तीत्युपाधिरसावुच्यते इति ॥
बोधनी।
नप्रयोजक इत्यत्राह उपाधिस्तु- इति । एकस्मिन्साध्ये साधनत्वेनोपलभ्यमानयोः यः साधनाव्याप-
कत्वे सति साध्यसमव्याप्तिकः स इतरस्य साध्यसम्बन्धे उपाधिः स्यात्, तत्र साध्यव्यापक इत्येवो-
च्यमाने अनित्यत्वसाधने सावयवत्वे कृतकत्वमुपाधिः स्यात्, अथ साधनाव्यापक इत्येवाभिधीयते
तदा कृतकत्वे सावयवत्वमुपाधिः स्यात्, न चैतद्युक्तमुभयस्यापि प्रयोजकत्वादिति । एवं लक्षण-
मुपाधिशब्दप्रवृत्तिनिमित्तमाह तद्धर्म-इति । संसृज्यमाने तद्धर्मविरहिणि धर्मिणि स्वधर्मप्रतिभास-
प्रकाशः।
साधनाव्यापकश्च इति ॥ साधनत्वाभिमताव्यापकत्वे साध्यत्वाभिमतव्यापक इत्यर्थः । व्यापक-
त्वञ्च तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति न व्यापकादिज्ञानेऽन्योन्याश्रयः ॥
ननु साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तिः । न च तयोरनुपाधित्वं, दूषक-
ताबीजसाम्यात् । बाधानुन्नीतेपक्षेतरेऽतिव्याप्तिश्च । अथ प्रयोजको धर्म उपाधिः । तत्त्वञ्च न
न्यूनाधिकदेशवृत्तेः । तस्मिन् सत्यप्यभवतस्तेन विनाऽपि भवतश्च तदप्रयोज्यत्वात् । पक्षेतरत्वन्तु
प्रकाशिका।
पाधौ न वास्तवः साध्यसाधनभाव इत्यत्र उभयत्राभिमतपदं पूरयति । साध्यत्वाभिमतेत्यादि ।
नान्योन्याश्रय इति । उपाध्यभावज्ञानाधीनं व्याप्तिज्ञानमित्यन्योन्याश्रयो नोक्तक्रमेणेत्यर्थः । साध-
नावच्छिन्नेति । आत्मा प्रत्यक्षः प्रत्यक्षस्पर्शश्रयत्वादित्यत्र साधनावच्छिन्नसाध्यव्यापकं रूपवत्त्वं, वायुः
प्रत्यक्षः प्रमेयत्वादित्यत्र च बहिरिन्द्रियत्वावच्छिन्नसाध्यव्यापकं रूपवत्वमुपाधिरित्युभयोरसङ्कीर्णमुदाहरणं
द्रष्टव्यम् । बाधानुन्नीतेति स्वन्मत इति शेषः । अन्यथा स्वमतेनाप्यव्याप्यभिधानमप्रेतनं विरुद्ध्येत ।
पक्षानन्तर्भावेनैव च साध्यव्यापकताज्ञानं दूषकमिति दूषकताबीजस्यैवातिव्याप्तिरित्युद्भाव्यति । साध्यप्रयो-
जकत्वे सति साधनाव्यापकत्वमुपाधिलक्षणं। तच्च पक्षेतरत्वे नातिव्याप्तमित्याशङ्कते। अथ प्रयोजक इति।
मकरन्दः।
साधनत्वसाध्यत्वे-व्याप्यत्वव्यापकत्वे, न च सोपाधौ वस्तुतस्तथात्वमत आह अभिमतेति । ननु
व्यापकत्वं व्याप्तिनिरूपकत्वम् । तथा च व्याप्तौ गृहीतायामुपाधिप्रत्ययस्तत्प्रत्यये च तदभावरूपा
नौपाधिकत्वप्रत्ययाधीनव्याप्तिप्रत्यय इत्यन्योन्याश्रय इत्यत आह व्यापकत्वञ्चेति । प्रतियोग्यस-
मानाधिकरणत्वमप्यत्यन्ताभावविशेषणम् । तेन संयोगस्य द्रव्यत्वव्यापकत्वम् । पक्षेतरस्योपाधित्वं
मन्यमानोऽपि नैयायिकसिद्धान्तानुसारेण तल्लक्षणेऽतिव्याप्तिं ददाति बाधानुन्नीतेति । त्वन्मते
इति शेषः । एतदपि पक्षान्तर्भावेण साध्यव्यापकत्वानिश्चयात् पक्षातिरिक्तसाध्यव्यापकत्वाभिप्रायेण
बोध्यम् । एतच्चाग्रे स्फुटम् । ननु साध्यप्रयोजकत्वे सतीति लक्षणविशेषणं तच्च न पक्षेतरत्वे
इति नातिव्याप्तिरित्याह अथेति । न तथा, न प्रयोजकत्वघटितलक्षणवदित्यर्थः । एतेनोक्तशङ्काया
टिप्पणी।
सन्देहः । तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति न तु व्याप्तिनिरूपकत्वमिति शेषः ।
न व्यापकादिज्ञानेऽन्योन्याश्रय इति । व्याप्तौ गृहीतायामुपाधिप्रत्ययः, तस्मिन् सति
तदधीनानौपाधिकत्वज्ञानाधीनव्याप्तिग्रह इत्यन्योन्याश्रयः ॥ तर्कश्च त्वया व्यभिचारशङ्कानांभाव-
सम्पादनाय व्याप्तिग्राहकोऽभ्युपेयते व्यभिचारज्ञानञ्चोपाध्यधीनम्, उपाधिरेव च न निर्वक्तुं
शक्य इति कृतस्तर्कोऽभ्युपेय इति खण्डनरसिकः स्वेष्टासाधकमपि चार्वाकः शङ्कते
नन्विति । स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वं साधनावच्छिन्नसाध्यव्यापकम् वायुः
प्रत्यक्षः प्रत्यक्षगुणत्वादित्यत्रोद्भूतरूपवत्त्वम् पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकमुपाधिः ।
तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३५३
प्रकाशः ।
न तथेति चेत् । न । दूषकतौपयिकप्रयोजकत्वस्य साध्यव्यापकसाधनाव्यापकत्वस्य तत्राप्यनपायात् ।
साध्यव्याप्यत्वस्य चादूषणत्वात् । व्यर्थविशेषणत्वादत्तनुपाधिरिति चेत् । न । तद्धि न निष्प्रयोजनकत्वं,
साधनाव्याप्तिपरिहारस्यैव प्रयोजनत्वात् । नापि व्यभिचारावारकत्वम् । पक्षे स्वसिद्धस्य व्यभिचार-
प्रकाशिका ।
दूषकतेति । तथा च प्रयोजकत्वघटितमपि लक्षणन्तत्रातिव्याप्तमेवेति भावः । अदृषण-
त्वादिति । इदमुपलक्षणम् । विपर्ययाप्तिप्रदृढायावव्याप्त्यापत्तेश्चेत्यपि द्रष्टव्यम् । व्यर्थविशे-
षणरहितत्वं लक्षणविशेषणमतो नातिव्याप्तिरित्याशङ्कते । व्यर्थेति । अनुपाधिरिति । उपाधिलक्ष-
णानाक्रान्त इत्यर्थः । साधनाव्याप्तीति । इतरत्वस्य केवलान्वयितया साधनाव्यापकत्वात् पर्वतेतर-
त्वस्य च पर्वत एव साधनाव्यापकत्वादित्यर्थः । ननु साधने साध्यव्यभिचारावारकत्वेनैवात्र व्यर्थवि-
षणता साधने साध्यव्यभिचारवारकस्यैवोपाधित्वात् आर्द्रन्धनस्यैव धूमव्यभिचारवारकस्य वह्नौ । न
च पर्वतेतरत्वं तथा शुद्धस्यैव धूमस्य वह्नयव्यभिचारादत आह । नापीति । स्वसिद्धस्येति ।
पर्वतेतरत्वस्योपाधिवादिमते धूमो वह्निव्यभिचार्येव पक्ष इति पर्वतेतरत्वविशिष्टस्यैव धूमस्य वह्निव्या-
प्यत्वमिति भवत्युपाधिस्तन्मते व्यभिचारवारक इत्यर्थः । तथा चोक्तातिव्याप्तिः सुदृढैवेति भावः ।
मकरन्दः ।
अतिव्याप्तिपोषकतयाऽसङ्गतिरित्यपास्तम् । दूषकतेति । तथा च प्रयोजकत्वगर्भस्यापि तस्य तत्र
सत्त्वादतिव्याप्तिस्तदवस्थैवेति भावः । ननु व्यर्थविशेषणरहितत्वं तद्विशेषणमिति नातिव्याप्तिरित्याह
व्यर्थेति । अनुपाधिः उपाधिलक्षणानाक्रान्त इत्यर्थः । साधनेति । इतरत्वस्य केवलान्वयितया
साधनाव्यापकत्वमिति पर्वतादिपदं विशेषणम् । ततश्च पक्ष एव साधनाव्यापकत्वमित्यर्थः । तथा च
पुनरतिव्याप्तिस्तदवस्थ्येवेति भावः । ननु साधने साध्यव्यभिचारावारकतयैव व्यर्थत्वं ब्रूमः, तत्र
तद्वारकतस्यैवोपाधित्वात् । यथा वह्नौ धूमव्यभिचारवारकमाईन्धनवत्वमुपाधिः, पक्षेतरत्वञ्च न धूमे
वह्निव्यभिचारवारकं, तत्र तस्यैवाप्रसिद्धेरित्यत आह नापीति । स्वसिद्धस्य = पक्षेत्तरोपाधिवा-
दिसिद्धस्य । तन्मते धूममात्रस्य पर्वत एव वह्निव्यभिचारित्वात्तद्वारकं धूमे पर्वतेतरत्वं विशेषणम् ।
पर्वतेतरधूमवत्त्वस्य वह्नयव्यभिचारित्वात् । तथा च सर्वथा व्यर्थविशेषणरहितत्वस्य तत्र सत्त्वादु-
क्तातिव्याप्तिः सुदृढैवेति भावः । यद्यपि वास्तवव्यभिचारवारकत्वविवक्षायां नातिव्याप्तिः, तथापि
टिप्पणी ।
नापि व्यभिचारावारकत्वमिति । साधननिष्ठसाध्यव्यभिचारस्य वारकः साध्यविशेषणीभवन्नुपाधि-
र्भवति, अतथाभूतस्तु नोपाधिरभ्युपेयः, यथा धूमवान् वह्नेरित्यत्र स्वतोव हिधूमव्यभिचारी आर्द्रन्धन-
वत्त्वविशिष्टो भवत्यव्यभिचारीति सव्यभिचारकत्वादुपाधिः, वह्निमान् धूमादित्यत्र धूमस्य नास्ति
स्वतो वह्निव्यभिचार इति न तद्वारकः पक्षेतरत्वादिर्र्धूमादिहेतुविशेषणीकृतोऽपीत्याशयः । स्वसि-
द्धस्य व्यभिचारस्य वारणादिति । यस्य पुरुषस्यानुमितिसम्पादनाय साधनोऽग्रहस्तेनैवोपाधि-
रुम्भाविनीय इति स स्वपदार्थः । तेन गृहीतस्य व्यभिचारस्य वारकत्वादित्यर्थः । पक्षेत्तरोपाधिवादि-
सिद्धस्येति तात्पर्यार्थः, यं प्रति साध्यसाधनाय हेतूत्पन्यासः क्रियते स प्रतिवादी सन्नुपाधिमुद्भाव-
यतोत्युपाध्युद्भावनकर्त्ता स्वपदार्थः, तथा च यः पक्षेतरत्वमुपाधिमुद्भावयति, हेतोः पक्षे सन्दिग्ध-
साध्याभाववति वृत्तित्वस्य स्वसिद्धस्य वारणाय पक्षविशेषितस्य सेदस्योपाधितामाह इति पक्षविशेषणं
व्यभिचारवारकमेव । पक्षेतरत्वोपाधिवादिनामयमाशयः, यथा साध्याभाववत्तया निश्चिते हेतुसन्देहः
सन्दिग्धानैकान्तिकः तथा हेतुमत्तया निश्चिते साध्याभावसन्देहोऽपीति पक्षेतर एव हेतुव्यापकत्वं
साध्ये निर्णयेस्तथा पक्षेतरस्मिन् पक्षेतरत्वस्यापि साध्यव्यापकत्वं निर्णोतुं शक्यमिति पक्षेतरत्वमुपाधि-
र्भवति, पक्ष एव हेतोः साध्यव्यभिचारवारकश्च सिद्धान्तिमते हेतुमति साध्याभावसन्देहस्य सन्दिग्धा
४५ न्या० कु०
३५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां
प्रकाशः ।
स्य वारणात् । तादृशस्याप्यस्मदादिपदादेरुपादानात् । नापि पर्वतेतरान्यत्वादेरित्यत्र व्यतिरेके इतर-
न्यत्वस्याप्रसिद्धेरसिद्धिधारणार्थं पर्वतपदं विशेषणमित्येव व्यर्थत्वम् । इतरान्यत्वस्याप्रसिद्ध्या विशेषणं
विना व्याप्तिमहात् । येन विशेषणेन विना व्याप्तिग्रहस्तस्यैव सार्थक्त्वात् । व्यभिचारवारकस्यापि
सार्थक्त्वे तस्यैव तन्त्रत्वात् । अत एव गन्धादिषु मध्ये गन्धस्यैव व्यञ्जकत्वादित्यत्रासिद्धिवारक-
विशेषणस्य सार्थक्त्वम् । अन्यथा बाधोन्नीतपक्षेतरत्वस्याप्यनुपाधित्वापत्तेः । पक्षे साध्यसन्देहे साध्य-
व्यापकत्वानिश्चयान्न तदुपाधिः । यत्र तु पक्षे साध्याभावप्रमा, तत्र बाधोन्नीतत्वेनोपाधिरेवेति चेन्न ।
पक्षाऽतिरिक्ते साध्यव्यापकत्वप्रहादेवोपाधेर्दूपकत्वात् । अन्यथा, पक्षे साध्यसन्देहादुपाधिमात्रोच्छे-
दापत्तेः । विपक्षाव्यावर्त्तकविशेषणशून्येति विशेषणान्न तदुपाधिः । बाधोन्नीतपक्षेतरत्वं चोपाधिः । तत्र
पक्षाभिमतस्य विपक्षत्वादिति चेत् । न । वस्तुनो विपक्षाऽव्यावर्त्तकविशेषणशून्यत्वाभावात् । सर्वत्र प्रमे-
यत्वादेः सत्त्वात् । तत्रोपात्तत्वेन विशेषणे च व्याघातः । न हि तत्रोपात्तं तेन शून्यं चेति सम्भवति॥
तथापि साध्यव्यापकत्वे सति साधनाव्यापकत्वस्य पक्षेतरत्वे सत्त्वात् तद्व्यावृत्त्या साध्यव्यावृत्तिरा-
प्रकाशिका ।
यद्यपि वास्तवव्यभिचारविवक्षायां नातिव्याप्तिः । तथापि वायुः प्रत्यक्षः प्रमेयत्वादित्यादौ व्यभिचारा-
वारकस्यापि रूपवत्त्वादेरुपाधितास्वीकाराद्व्याप्तिर्दुर्वच्या । तादृशस्यापीति । असिद्धव्यभिचारवा-
रकस्यापीत्यर्थः । पक्षपक्षसाधारणसाध्यव्यापकत्वघटितमेव लक्षणं तच पक्षेतरे नास्तीत्याशयेन
शङ्कते । पक्ष इति । दूषकताबीजं पक्षानन्तर्भावेनैव साध्यव्यापकताज्ञानम् , अन्यथा निश्चितोपाधि-
मात्रोच्छेदापत्तेरित्याशयेन दूषयति । पक्षातिरिक्त इति । परमतनेन परस्यातिव्याप्तिं दत्वा मन्मते
पक्षेतरत्वस्योपाधित्वमेव । तथा च तद्वारकविशेषणप्रक्षेपेऽव्याप्तिरित्याह । तथापीति । तद्व्यावृत्त्येति ।
मकरन्दः ।
एतादृशस्याप्युपाधित्वेन सर्वसिद्धत्वात्तत्राव्याप्तिर्बोध्या । तादृशस्यापीत । स्वसिद्धव्यभिचारवा-
रकस्यापीत्यर्थः । पक्षापक्षसाधारणसाध्यव्यापकत्वमेव विवक्षितमिति नोक्तातिव्याप्तिरित्याह पक्षे
इति । परमतेनैव परस्यातिव्याप्तिं दत्त्वा अनुमानद्वेषी चार्वाकस्तस्योपाधित्वमेवोपपादयति तथा-
पीति । तद्व्यावृत्त्येति । अत्र पक्षातिरिक्तसाध्यव्यापकत्वमेवेति तद्व्यावृत्तावपि पक्षनिष्ठसाध्याव्यावृत्तेः
टिप्पणी ।
नैकान्तिकत्वाभावात्, पक्षेतरत्वस्य न व्यभिचारवारकत्वमिति स्वसिद्धस्येत्युक्तम् । अस्मदादिप-
दादेरुपादानादिति । त्वं घटज्ञानाभाववानात्मत्वादित्यनुमानं यं प्रत्युद्भाव्यते तेनास्मदितरत्वमत्रो-
पाधिरित्युद्भाव्यते तत्रास्मत्पदं स्वस्मिन् साध्याभाववत्तया निश्चिते हेतोर्वृत्तित्वग्रहः, परेषामशक्यः
स्वेनैव निर्णयस्तस्य च हेतुनिष्ठस्य व्यभिचारस्य स्वसिद्धस्य वारकः अस्मदिति पदार्थः, इतरत्वमा-
त्रस्य सामानाधिकरण्येन हेतुविशेषणत्वेऽपि गृहीतव्यभिचारवारणस्याशक्यत्वादिति भावः । अन्यथा
असिद्धिवारकत्वमात्रेण व्यर्थत्वे । पूर्वोक्तं बाधोन्नोतपक्षेतरत्वेऽतिव्याप्तिं वारयितुं शङ्कते
पक्षे साध्यसन्देह इति । विपक्षाव्यावर्त्तकेति । इदञ्च समव्याप्तोपाध्यभिप्रायेण तत्रोपाधे-
र्विपक्षगतत्वे साध्यव्याप्यत्वासम्भवः स्यात् । तत्रोपात्तत्वेन विशेषण इति । उपाधावु-
पात्तत्वस्य विपक्षाव्यावर्त्तकविशेषणत्वे । पराभिमतेनैव पक्षेतरत्वस्यानुपाधित्वेन परस्यातिव्याप्तिं
दत्त्वाऽनुमानद्वेषी चार्वाकस्तस्योपाधित्वमेवोपपादयति । तथापीति । साध्यव्यापकतावच्छेदकत्वे
सति साधनाव्यापकतावच्छेदकं यद्विपक्षाव्यावर्त्तकविशेषणशून्यं तद्धर्म्मवत्त्वोक्तौ प्रमेयत्वमादाय
न दोष इत्यत आह तथापीति । उपाधेर्दूपकताबीजस्य साध्यव्यापकत्वे सति साधनाव्यापकत्वस्य
सत्त्वे उपाधित्वं स्वीकरणीयमेव भवता तद्व्यावर्त्तकत्वश्च विशेषणणोपादेयमित्यनौपाधिकत्वं कथं
व्याप्तिः स्यादसम्भवादित्यभिप्रायः । तद्व्यावृत्त्या साध्यव्यावृत्तिरिति । अत्र पक्षातिरिक्तत्व-
तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३५५
प्रकाशः ।
वश्यक्रीति हेतोर्व्यभिचारात्तत्र चावश्यकमुपाधिसत्त्वादन्तरस्येषाधेरभावात् पक्षेतरत्वमेवोपाधिः स्यात् ।
किञ्च, व्यभिचारान्वारकत्वं न व्याप्तिविरोधि, नाऽपि तज्ज्ञानविरोधि । नीलधूमे तदुभयसत्त्वात् ॥
अयोपाधेः स्वव्यतिरेकेण सत्प्रतिपक्षतया दूषकत्वम् । तथाहि । नास्य व्यभिचारोन्नयकतया
दूषकत्वम् । वह्निमत्त्वं धूमवत्त्वव्यभिचारि तद्व्यापकार्द्रेन्धनव्यभिचारित्वात्प्रमेयत्ववदित्यत्रार्द्रेन्धनवत्त्व-
स्य धूमवत्त्वव्यापकत्वासिद्धेः । धूमवत्त्वव्यापकवह्निमत्त्वाव्यापकत्वात् । व्यापकत्वे वा साधनव्याप-
कत्वेनानुपाधित्वापत्तेः । न च धूमव्याप्यत्वं वह्निमत्त्वस्यासिद्धम् । तद्धि न व्यभिचारात्, स्फुटे
व्यभिचारे उपाध्युपन्यासस्यानर्हत्वात् । तस्य तदर्थत्वात् । नाप्युपाधिनिश्चयात् । उपाधित्वासिद्धेः ॥
अथ यथा सहचारदर्शनव्यभिचारादर्शनाभ्यां वह्निमत्त्वंव्याप्यंधूमवत्त्वञ्च व्यापकं, तथा आर्द्वेन्धन-
वत्त्वमपि व्यापकं, धूमवत्त्वञ्च व्याप्यम् । तथा च व्यापकनिवृत्त्या व्याप्यनिवृत्तिवद् व्याप्यसत्त्वाद् व्यापक-
सत्त्वमावश्यकमित्यविशेषानुभयमप्यसाधकमित्युच्यते । हन्त तर्हि सिद्धमुपाधेः सत्प्रतिपक्षतया दूषकत्वम् ।
नापि व्याप्यत्वासिद्धिरूपत्वेन । सा हि न तावद्व्याप्तिभङ्गनिश्चयात्, तस्योपाधित्वनिश्चयसाध्य-
त्वात् । प्रकृते च तदनिश्चयात् । सहचारदर्शनव्यभिचारादर्शनाभ्यां तन्निश्चय इति चेत् । न । तयोर्हता-
वपि सत्त्वात् । तत्रोत्पन्नमपिव्याप्तिज्ञानमुपाधिदर्शनाद् बाध्यते इति चेत् । न । उपाधावपि तद्ब्रह्मापत्तेः।
तत्राप्युपाधिसद्भावात् । तथा ह्यर्द्वेन्धनवत्त्वस्य धूमवत्त्व उपाधित्वे तदभावो धूमवत्त्वाभावव्याप्तो
वाच्यः । अन्यथा आर्द्वेन्धनस्यापि धूमवत्त्वव्यापकत्वानुपपत्तेः । न हि यदभावो यदभावव्यभिचारी
तत्तस्य व्यापकम् । एवं व्यतिरेके निर्वह्नित्वमुपाधिः । इदं हि निर्धूमस्य व्यापकत्तयाऽभिमतस्य
व्यापकं, निर्धूमस्य वह्निमतोऽदर्शनात् । दर्शने वा व्यभिचारस्य स्फुटतयोपाध्युपन्यासस्यानर्हत्वा
दित्युक्तम् । आर्द्वेन्धनविरहस्य चाऽव्यापकं, आर्द्वेन्धनाभाववति पक्षे तदसत्त्वात् । नापि व्याप्य-
निश्चयाद्व्याप्यत्वासिद्धिः । व्याप्यनिश्चये हि पक्षे वह्निमत्त्वस्यार्द्वेन्धनविरहस्य च दर्शनात् । एवञ्च,
प्रकाशिका ।
यद्यपि पक्षातिरिक्ते साध्यव्यापकत्वग्रहे तादृशसाध्यव्यावृत्तावपि पक्षीयसाध्यव्यावृत्तेः कथं व्यभिचारः
तथापि पक्षासाधारणेनापि साध्यव्यापकतायाः संशयोऽस्त्येवेति व्यभिचारसंशयोऽस्त्येवेति भावः ।
अनौपाधिकत्वस्यापि व्याप्तितया व्याप्तिविरहरूपत्वमुपाधेरसम्भावितमेवेति तदुन्नायकत्वेन व्याप्यत्वा-
सिद्धित्वं वक्तव्यं तथा सत्याह तर्हीति । निर्धूमस्येति । तथा चापातत उक्तोपाधिनोक्तोपाधौ
मकरन्दः ।
कथं व्यभिचार इति चिन्त्यम् । अनौपाधिकरवस्य व्याप्तिरत्वानभ्युपगमान्न व्याप्यत्वासिद्धिरूपत्वमिति
तदुन्नायकत्वेन तथात्वं वाच्यम्, एवं सत्याह सा हीति । निर्धूमस्येति । तथा चापातत उक्तो-
टिप्पणी ।
विशिष्टसाध्यव्यापकत्वमेवेति तद्व्यावृत्तावपि पक्षनिष्ठसाध्याव्यावृत्तेः कथं व्यभिचार इति चिन्त्यम् ।
किञ्च व्यभिचारावारकत्वमिति । व्यभिचारावारकत्वं पक्षेतरत्वविशेषणो स्वीकृत्य नापि व्यभिचारा-
वारकत्वमित्यत्र समाधानान्तरमाह किञ्चेति । भवतु पक्षेतरत्वे विशेषणस्य व्यभिचारवारकत्वं किं तेन
उपाध्यभावेन साध्याभावसाधने उपाधिव्यभिचारेण साध्यव्यभिचारसाधने वा या व्याप्तिस्तज्ज्ञानं वा
तदुभयविरोधित्वेन व्यभिचारवारकत्वस्येष्टान्याघातकत्वादित्यर्थः । सत्प्रतिपक्षतया दूषकत्वं
सत्प्रतिपक्षतयेति सावधारणम्, तन्नेतरव्यवच्छेदमुपपादयति तथाहोत्यादि । आर्द्वेन्धनविर-
हस्य च दर्शनादिति । आर्द्वेन्धनस्य धूमव्यापकत्वनिश्चये तदभावस्य व्यापकाभावत्वेनावधारणे
धूमाभावनिश्चये व्यभिचारनिश्चयादनिश्चयो यदि स्यात् स्यादप्यसिद्धिस च नास्त्येव अपि तु धूमव्या-
पकत्वेन सन्दिग्धस्य वह्निमत्त्वस्य धूमव्यापकत्वेन सन्दिग्धार्द्वेन्धनवत्त्वाभावस्य च दर्शने चेत्यर्थः
व्याप्यनिश्चयो हीति । इयञ्च सत्प्रतिपक्षतैवेत्यन्वयः, इयं व्याप्यनिश्चयेन व्याप्यत्वासिद्धिः,सत्प्रं-
३५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां
प्रकाशः ।
धूमवत्त्वनिर्धूमवत्त्वाप्रसक्तौ वस्तुनो विरुद्धद्वैरूप्याभावादेकत्र व्याप्तिभङ्गो वाच्यः । स च विनिगमका-
भावादेकत्र निश्चेतुं न शक्यते इति वाच्यम् । इयं च सत्प्रतिपक्षतैव । तस्मादुपाधेः सत्प्रतिपक्षभावेन-
दूषकत्वस्थितौ पक्षेतरत्वस्य नोपाधित्वम् । तद्व्यतिरेकस्य साधारणतया साध्याभावासाधकत्वादिति ॥
मैवम् । तथा सति प्रतिपक्षानुमाने सत्प्रतिपक्षान्तरस्योपाधेरनुद्भावनापत्तेः । न च, सत्प्रति-
पक्षान्तरमपि तत्रोद्भाव्यम् । उत्तम्भकाऽप्रतिबद्धस्य मन्त्रस्येवाप्रतिबद्धस्यैव प्रतिबन्धकत्वादिति वा-
च्यम् । सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनाप्रतिबन्धकत्वप्रसङ्गात् । न च प्रतिपक्षबाहुल्येनाधिक-
बलत्वार्थमुद्भावनम् । बलं ह्यत्रानुमित्यौपयिकं व्याप्तिपक्षधर्मताऽऽत्मकं विवक्षितम् । तच्च तुल्य-
मेव । न तु भूयस्त्वमपि तथा । एकस्मादनुमित्यनुदयापत्तेः । तदाहुराचार्याः- "बहवश्चेत्यन्वाचये
चकारः" इति । सन्दिग्धोपाधेरदूषकत्वापाताच्च । तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् । केवलव्य-
तिरेकिणा च सत्प्रतिपक्षसम्भवाच्च । न चासाधारण्यम् । तस्यापि सत्प्रतिपक्षोत्थापकतया दूषक-
त्वात् । किञ्चैवं, बाधोन्नीतं पक्षेतरत्वमपि नोपाधिः स्यात् । व्यतिरेकेऽसाधारणत्वात् केवलान्वयि-
प्रकाशिका ।
व्याप्तिज्ञानबाधा स्यादेवेति भावः । उपसंहरन्नेव प्रकृते योजयति । तस्मादिति । तथा च दूषकता-
वीजाभावान्न तस्योपाधित्वमिति न तत्राव्याप्तिर्दोष इति भावः । नन्वनयोरन्यतरद् बाध्यमिति.
सामान्यतो दृष्टे विनिगमकतर्कप्रवृत्त्यर्थं सत्प्रतिपक्ष उपाध्युद्भावनं युक्तमेवेत्यरुचेराह । सन्दिग्धेति ।
ननु निश्चितोपाधावुक्तं दूषकताबीजं सन्दिग्धोपाधौ त्वन्यदेव तदित्यरुचेराह । केवलव्यतिरे-
किणेति । ननु नेदमपि युक्तमसाधारणस्य व्याप्तिमहप्रतिबन्धकतया दोषत्वादित्यरुचेराह ।
किञ्चैवमिति । बाधोन्नीते साध्याभावसाधने पक्षस्यैव सपक्षत्वादयुक्तमेतदपीत्यरुचेराह
केवलान्वयिनीति । केवलान्वयिसाध्यके साध्याभावाप्रसिद्ध्या व्यतिरेके सपक्षाभावान्नसाधारण्य
मकरन्दः ।
पाधिना प्रकृतोपाधौ व्याप्तिज्ञानबाधो स्यादेवेति भावः । उपसंहरन्नेव प्रकृते योजयति तस्मादिति ।
ननु सन्दिग्धोपाधेर्व्यभिचारसंशयाधायकतया पृथगेव दोषत्वमभ्युपगम्यते न तु सत्प्रतिपक्षतयेत्य-
रुचेर्दोषान्तरमाह केवलैवेति । व्यतिरेकव्याप्तिपुरस्कारेण तेनापि सत्प्रतिपक्षसम्भवादित्यर्थः ।
तस्यापीति । असाधारणस्यापीत्यर्थः । तथा च सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवत्तत्रासाधारणेऽपि न
दोष इति भावः । ननु बाधेन व्यतिरेके पक्षस्यैव सपक्षत्वेन तद्व्यावृत्तत्वाभावान्नासाधारण्यमित्यरुचेराह
केवलान्वयिनीति । केवलान्वयिधर्मसाध्यकानुमाने इत्यर्थः । तत्र व्यतिरेके साध्याप्रसिद्ध्या
टिप्पणी ।
तिपक्षतामुपपादयति व्याप्य्येति । सत्प्रतिपक्षान्तरस्यैवोपाधेरनुद्भावनापत्तेरिति यत्र सत्प्रतिपक्ष
उद्भाव्यते, तत्रोपाध्युद्भावनमपि क्रियते तन्न स्यादुपाधेरपि सत्प्रतिपक्षपर्यवसायित्वेन एकदोषस्य
द्विधोद्भावनस्य वैयर्थ्यादिति भावः। न च सत्प्रतिपक्षान्तरमपि तत्रोद्भाव्यमिति सत्प्रतिपक्षान्तरानु-
द्भावने स्थापनानुमानेन प्रतिबन्धस्य प्रत्यनुमानप्रतिबन्धकत्वं न स्यादिति सत्प्रतिपक्षान्तरोद्भावने
तेनोत्तम्भकेन मन्त्रैरिव स्थापनानुमानस्य प्रतिबन्धशक्त्यपाकरणे भवत्यप्रतिबन्धम्प्रकृतसत्प्रतिपक्ष
प्रतिबन्धकमित्याशयः । सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनेति । प्रकृतसत्प्रतिपक्षेण प्रति-
बन्धकेन स्थापनाया अपि प्रतिबद्धत्वात् स्थापनायाः प्रतिबन्धकत्वसिद्धये उत्तेजकविधया स्थापना-
न्तरोद्भावनमपि स्यात् । अन्यथा स्थापनाया अप्रतिरोधकत्वे प्रतिपक्षाभावे सत्प्रतिपक्षतैव न स्या
दिति भावः । केवलव्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्चेति । सत्प्रतिपक्षविधया पक्षेतर
त्वस्याप्युपाधित्वसम्भवात् साध्याभावेन तदभावस्य व्यतिरेकव्याप्तेः सम्भवात् । केवलान्वयि-
न्यसाधारणत्वाभावादिति । सपक्षविपक्षव्यावृत्तत्वमसाधारण्यं केवलान्वयिनि व्यतिरेकानुमाने