न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 375, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४३
चेन्न । यावदाशङ्कं तर्कप्रवृत्तेः । तेन हि वर्त्तमानेनोपाधिकोटौ तदायत्तव्यभिचार-
कोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते । विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्श-
नोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्प-
त्तिरिति किमनुपपन्नम् ॥
बोधनी
तत्रोभयत्रापि तर्कप्रवृत्तेः शङ्कानिवृत्तिरिति । कथं तर्हि ततस्तन्निवृत्तिरित्यत्राह तेन हि-इति ।
यद्यत्रोपाधिः स्यात् तदायत्तो वा हेतोर्व्यभिचारस्तत एव स्यादिति । प्रामाणिकत्यागाप्रामाणिकस्वीका-
रात्मकानिष्टमुपनयता तर्केण पक्ष एव जाता विपक्षजिज्ञासात्मिकेच्छा विच्छिद्यते, तद्विच्छेदे चानुमाता
निरन्तरायेण भूयोदर्शनेनावधारितव्यभिचारं लिङ्गं निःशङ्क एवानुमितिज्ञानोत्पादे विनियुङ्क्ते
विनियुक्ताच्च करणालिङ्गादनुमितिक्रियानिष्पत्तिरिति न संकटं किञ्चिदिति ॥
प्रकाशः ।
सा च प्रत्यासत्तिरनुमानप्रामाण्यवादिनोऽपि स्वीकार्या । अन्यथा, यस्य व्याप्तिग्रहः स न पक्षधर्मः,
तादृशश्च न व्याप्तिग्रहगोचर इत्यनुमानविलयापत्तिः । मैवम् । इदमसाधकमनुपलभ्यमानव्यभिचारशङ्का-
ग्रस्तत्वादित्यनुमानमपि शङ्काऽऽस्कन्दतीति जात्युत्तरत्वात् । व्याप्तिग्रहाभावव्यभिचारशङ्कयोस्त्वयापि
व्याप्तिस्वीकारात् । व्यभिचारशङ्कायामव्यभिचारकोटेरावश्यकत्वाच्च । अपि चानुमानाप्रामाण्यं नानु-
मानगम्यम् । तदनङ्गीकारात् । नापि प्रत्यक्षगम्यम् । तथाऽनुव्यवसायाभावात् । एतेनोत्कटकोटिक
संशयरूपाऽनुमितिरस्तत्करणमनुमानमित्यपास्तम् । धूमादग्निं निश्चिनोमीत्यनुव्यवसायेन तन्निश्चयत्वस्यै
प्रत्यक्षत्वात् । अन्यथा, प्रत्यक्षस्यापि निश्चयत्वे कः समाश्वासः ? ।
यावदाशङ्कमिति ॥ तर्कसहकृतभूयोदर्शनजसंस्कारसचिवप्रमाणेन व्याप्तिर्गृह्यत इत्यर्थः
तर्कव्यापारमाह ॥ तेन हीति ॥ इच्छा विच्छिद्यते इति ॥ संशयजनितसाध्याभाववति जिज्ञासा
निवर्त्त्यते इत्यर्थः । तज्जनकसंशयसहितेति शेषः । अन्यथा, जिज्ञासाविच्छेदेऽपि
प्रकाशिका ।
ननु सामान्यलक्षणा वा स्वीक्रियतामनुमानं वेत्यत्र किं विनिगमकमत आह । सा चेति । ननु
सम्भावनैवानुमानप्रयोजनं प्रकृतेऽपि स्यादित्यरुचेराह । व्याप्तिग्रहेति । ननु भूयःसहचारमात्रमेव
तत्रापि स्वीकरणीयमत आह । व्यभिचारशङ्कायामिति । तथाऽनुव्यवसायाभावादिति ।
इदमुपलक्षणम् । प्रत्यक्षस्य तत्रासामर्थ्यादित्यपि द्रष्टव्यम् । निश्चिनोमीति निश्चयत्वं जातिरिति
मतेनेदम्, वस्तुतः संशयान्यत्वमपि ज्ञाननिष्ठं योग्यमेवेति भावः । तर्कसहकृतेति । तर्कस्य च
शङ्कानिवर्त्तनद्वारा प्रयोजकत्वमित्यवधेयम् । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह संस्कारे-
तेति । संशयजनितेति । यद्यपि जिज्ञासा ज्ञानेच्छा सा च ज्ञानेष्टसाधनताज्ञानादिति न संशयाद्भवितु-
मर्हति, न चातन्निवर्त्तनमनिष्टप्रसञ्जनरूपात् तर्कात्, "इच्छानिवर्त्तकमनिष्टसाधनताज्ञान"मित्यत्रानिष्टं
दुःखरूपं प्रकृते च प्रमाणबाधितत्वरूपमनिष्टं प्रसञ्जनीयं यतः, तथापि संशये सति संशयजन्यदुःखा-
भावरूपेष्टसाधनताज्ञानादेव ज्ञानेच्छा सत्प्रतिपक्षस्थलेऽज्ञानजन्यदुःखाभावरूपेष्टसाधनताज्ञानादिवत् त-
दुच्छेदेऽपि तत्प्रयोजकीभूतसंशयजनकीभूतविरोधिप्रमाणशङ्कोच्छेदद्वारैवेति मिश्राः । केचित्तु
अन्वयव्यतिरेकाभ्यां संशयस्य प्रतिपक्षोपस्थितेश्च स्वातन्त्र्येणैव जनकत्वं तर्कस्य च जिज्ञासानिवर्त्तक-
मकरन्दः ।
ननु व्याप्तिस्वीकारेऽपि नानुमानप्रामाण्यस्वीकारस्तयोर्भेदादित्यत आह । अपि चेति ।
धूमादिति । निश्चयत्वं जातिरिति मतेनेदम् । उपनीतभानाभिप्रायेण वा । अन्यथा अनुव्यवसाय-
विषयत्वानुपपत्तेरित्याहुः । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह । संस्कारेति ।
अन्यथेति । प्रतिबन्धकतावच्छेदके ज्ञानत्वस्यैव न प्रवेशो गौरवात्, कुतो निश्चयत्वस्येति