न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 388, कुल 608 में से
संदर्भ में पढ़ें३५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यायां
प्रकाशः ।
धूमवत्त्वनिर्धूमवत्त्वाप्रसक्तौ वस्तुनो विरुद्धद्वैरूप्याभावादेकत्र व्याप्तिभङ्गो वाच्यः । स च विनिगमका-
भावादेकत्र निश्चेतुं न शक्यते इति वाच्यम् । इयं च सत्प्रतिपक्षतैव । तस्मादुपाधेः सत्प्रतिपक्षभावेन-
दूषकत्वस्थितौ पक्षेतरत्वस्य नोपाधित्वम् । तद्व्यतिरेकस्य साधारणतया साध्याभावासाधकत्वादिति ॥
मैवम् । तथा सति प्रतिपक्षानुमाने सत्प्रतिपक्षान्तरस्योपाधेरनुद्भावनापत्तेः । न च, सत्प्रति-
पक्षान्तरमपि तत्रोद्भाव्यम् । उत्तम्भकाऽप्रतिबद्धस्य मन्त्रस्येवाप्रतिबद्धस्यैव प्रतिबन्धकत्वादिति वा-
च्यम् । सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनाप्रतिबन्धकत्वप्रसङ्गात् । न च प्रतिपक्षबाहुल्येनाधिक-
बलत्वार्थमुद्भावनम् । बलं ह्यत्रानुमित्यौपयिकं व्याप्तिपक्षधर्मताऽऽत्मकं विवक्षितम् । तच्च तुल्य-
मेव । न तु भूयस्त्वमपि तथा । एकस्मादनुमित्यनुदयापत्तेः । तदाहुराचार्याः- "बहवश्चेत्यन्वाचये
चकारः" इति । सन्दिग्धोपाधेरदूषकत्वापाताच्च । तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् । केवलव्य-
तिरेकिणा च सत्प्रतिपक्षसम्भवाच्च । न चासाधारण्यम् । तस्यापि सत्प्रतिपक्षोत्थापकतया दूषक-
त्वात् । किञ्चैवं, बाधोन्नीतं पक्षेतरत्वमपि नोपाधिः स्यात् । व्यतिरेकेऽसाधारणत्वात् केवलान्वयि-
प्रकाशिका ।
व्याप्तिज्ञानबाधा स्यादेवेति भावः । उपसंहरन्नेव प्रकृते योजयति । तस्मादिति । तथा च दूषकता-
वीजाभावान्न तस्योपाधित्वमिति न तत्राव्याप्तिर्दोष इति भावः । नन्वनयोरन्यतरद् बाध्यमिति.
सामान्यतो दृष्टे विनिगमकतर्कप्रवृत्त्यर्थं सत्प्रतिपक्ष उपाध्युद्भावनं युक्तमेवेत्यरुचेराह । सन्दिग्धेति ।
ननु निश्चितोपाधावुक्तं दूषकताबीजं सन्दिग्धोपाधौ त्वन्यदेव तदित्यरुचेराह । केवलव्यतिरे-
किणेति । ननु नेदमपि युक्तमसाधारणस्य व्याप्तिमहप्रतिबन्धकतया दोषत्वादित्यरुचेराह ।
किञ्चैवमिति । बाधोन्नीते साध्याभावसाधने पक्षस्यैव सपक्षत्वादयुक्तमेतदपीत्यरुचेराह
केवलान्वयिनीति । केवलान्वयिसाध्यके साध्याभावाप्रसिद्ध्या व्यतिरेके सपक्षाभावान्नसाधारण्य
मकरन्दः ।
पाधिना प्रकृतोपाधौ व्याप्तिज्ञानबाधो स्यादेवेति भावः । उपसंहरन्नेव प्रकृते योजयति तस्मादिति ।
ननु सन्दिग्धोपाधेर्व्यभिचारसंशयाधायकतया पृथगेव दोषत्वमभ्युपगम्यते न तु सत्प्रतिपक्षतयेत्य-
रुचेर्दोषान्तरमाह केवलैवेति । व्यतिरेकव्याप्तिपुरस्कारेण तेनापि सत्प्रतिपक्षसम्भवादित्यर्थः ।
तस्यापीति । असाधारणस्यापीत्यर्थः । तथा च सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवत्तत्रासाधारणेऽपि न
दोष इति भावः । ननु बाधेन व्यतिरेके पक्षस्यैव सपक्षत्वेन तद्व्यावृत्तत्वाभावान्नासाधारण्यमित्यरुचेराह
केवलान्वयिनीति । केवलान्वयिधर्मसाध्यकानुमाने इत्यर्थः । तत्र व्यतिरेके साध्याप्रसिद्ध्या
टिप्पणी ।
तिपक्षतामुपपादयति व्याप्य्येति । सत्प्रतिपक्षान्तरस्यैवोपाधेरनुद्भावनापत्तेरिति यत्र सत्प्रतिपक्ष
उद्भाव्यते, तत्रोपाध्युद्भावनमपि क्रियते तन्न स्यादुपाधेरपि सत्प्रतिपक्षपर्यवसायित्वेन एकदोषस्य
द्विधोद्भावनस्य वैयर्थ्यादिति भावः। न च सत्प्रतिपक्षान्तरमपि तत्रोद्भाव्यमिति सत्प्रतिपक्षान्तरानु-
द्भावने स्थापनानुमानेन प्रतिबन्धस्य प्रत्यनुमानप्रतिबन्धकत्वं न स्यादिति सत्प्रतिपक्षान्तरोद्भावने
तेनोत्तम्भकेन मन्त्रैरिव स्थापनानुमानस्य प्रतिबन्धशक्त्यपाकरणे भवत्यप्रतिबन्धम्प्रकृतसत्प्रतिपक्ष
प्रतिबन्धकमित्याशयः । सर्वत्र स्थापनाया अपि प्रतिबद्धत्वेनेति । प्रकृतसत्प्रतिपक्षेण प्रति-
बन्धकेन स्थापनाया अपि प्रतिबद्धत्वात् स्थापनायाः प्रतिबन्धकत्वसिद्धये उत्तेजकविधया स्थापना-
न्तरोद्भावनमपि स्यात् । अन्यथा स्थापनाया अप्रतिरोधकत्वे प्रतिपक्षाभावे सत्प्रतिपक्षतैव न स्या
दिति भावः । केवलव्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्चेति । सत्प्रतिपक्षविधया पक्षेतर
त्वस्याप्युपाधित्वसम्भवात् साध्याभावेन तदभावस्य व्यतिरेकव्याप्तेः सम्भवात् । केवलान्वयि-
न्यसाधारणत्वाभावादिति । सपक्षविपक्षव्यावृत्तत्वमसाधारण्यं केवलान्वयिनि व्यतिरेकानुमाने