सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८५
कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम्।
चेतनोऽपि कत्तैर्व कृतिचैतन्ययोः सामानाधिकरण्येनानुभवात् । न चायं भ्रमो, बा-
धकाभावात् । परिणामित्वाद् घटादिवदिति बाधकमिति चेत् । न । कर्तृत्वेऽपि
समानत्वात् । तथा च कृतिपि भाविकी महतो न स्यात् । दृष्टत्वादयमदोष
इति चेत् , तुल्यम् । अचेतनावार्थत्वं बाधकं, कार्यकारणयोस्तादात्म्यादिति चेद्,
न । असिद्धेः । न हि कर्तुः कार्यत्वे प्रमाणमस्ति । प्रत्युत “वीतरागजन्मादर्शनात्”
बोधनी ।
वर्गः स्याद् बुद्धिलक्षणोपाधेरनुच्छेदात् , उत्तरत्र तु नानुत्पन्नस्यानित्यत्वमित्यनुत्पत्तिदशायां
बुद्धितद्धर्माभावान्संसारप्रागभाव एव पुंसः । ततश्च कदाचिद्भोगः कदाचिन्मुक्तिरिति भोगनियमो
नोपपद्येत । पूर्वं पुरुषान्तरापेक्षया भोगनियमानुपपत्तिरुक्ता, इदानीं त्वेकस्यैव कालापेक्षया, तत्रो-
भयोरपि भोगनियमानुपपत्तिविशेषात्निरस्तमित्युक्तम् । अत्रापि नित्यविभूनामात्मनां सर्वबुद्धि-
प्राप्यविशेषेण बुद्धिनियमाभावाद् तदायत्तभोगनियमानुपपत्तिरुक्तसुलभेति भावः । कृतिसामा-
नाधिकरण्यव्यवस्थिता इति । कर्तृधर्मा इत्यर्थः । इदं त्वस्माभिरुच्यत इत्याह-चेतनोऽपि-
इति । चैतन्यमपि कर्तुरेवेत्यर्थः । नन्वयमनुभवो भेदाग्रहा्निमित्तो भ्रम इत्युक्तं, तत्राह-न
चायम्-इति । नन्वस्ति बाधकं परिणामित्वं कर्तुः परिणामित्वादित्याह-न-इति । ततः
किमित्यत आह-तथा च-इति । प्रयत्नोऽपि बुद्धेः स्वाभाविकोन स्यादित्यर्थः । शङ्कते-दृष्ट-
त्वात्-इति । बुद्धेः कृतिसमवायस्य मानसप्रत्यक्षसिद्धत्वात् न परिणामित्वानुमानं कर्तृत्वं
बाधत इति । तर्हि कृतिचैतन्ययोः सामानाधिकरण्यस्यापि दृष्टत्वात्कर्तुश्चैतन्याऩुमानमपि बाधि-
तविषयमित्याह-तुल्यम्-इति । बाधकान्तरमाशङ्कते-अचेतना-इति । अचेतनाया हि
प्रकृतेः कार्या बुद्धिः, साऽचेतना स्यात् , चेतनभावे वा प्रकृतेरपि चैतन्यप्रसङ्ग इति भावः ।
न-इति । कर्तुः कार्यत्वमेवास्माकमसिद्धं, दूरत एवाचेतनकार्यत्वमिति । न परं कार्यत्वे प्रमाणा-
भावः किं च कार्यत्व एव प्रमाणमस्तीत्याह-प्रत्युत-इति । जायमानाः प्राणिनः तावत्स्तन्यादिषु
रागवन्तो दृश्यन्ते, रागश्च सुखसाधनानुमानात् , तदनुमानं च तज्जातीयलिङ्गपरामर्शात् , स
प्रकाशः।
बुद्ध्युपधानस्यैव संसारत्वात् । अनित्यत्वे च तदुत्पत्तेः पूर्वं प्रकृतेः साधारण्यान्नियामकाभावेन
संसाराभाव इत्यर्थः । ननु कर्तुर्बुद्धितत्त्वस्य धर्मा नियन्तार इति सांख्याभिमतमेव इत्यत आह ।
चेतनोऽपीति । चेतनोऽहं करोमीत्युभवादित्यर्थः । कर्तृत्वेऽपीति । बुद्धि कर्त्र्याश्रयः परि-
णामित्वाद् घटादिवदित्यपि स्यादित्यर्थः । भाविकी = स्वाभाविकी । यदि ज्ञानाश्रयस्य
कृत्याश्रयत्वेनानुभवात् तद्वाधानुमानं, तदा चेतनोऽहङ्करोमीत्यनुभवाद् बाधस्तुल्य इति
शङ्कोत्तराभ्यामाह । दृष्टत्वादिति । अचेतनायाः प्रकृतेः कार्यं बुद्धितत्त्वं, कार्यकारणयोश्च तादा-
त्म्यमिति चैतन्ये तस्य बाधकमित्याह । अचेतनेति । प्रत्युतेति । जातमात्रस्य स्तन्यपाने प्रवृ-
प्रकाशिका ।
इतिचात्र विपक्षबाधकमिति भावः। तदुत्पत्तेः पूर्वमिति । नियामकधर्मादेस्तदभावेऽभावादित्यर्थः।
समानत्वात्=परिणामित्वाद् घटादिवत् इत्यस्य समानत्वात् । तव चैतन्याभावः, मम
कृत्याभावः, साधनीयः, ताभ्यां हेतुदृष्टान्तोभयाभ्यामिति भावः ।
भाविकी=स्वाभाविकी । महतः=बुद्धेः । न स्यादिति । ज्ञानिनः कृत्याश्रयत्वस्येति शेषः ।
अनुमानस्य बाधितत्वादिति भावः ।
तुल्यम्=ज्ञानिनः कृत्याश्रयत्वस्येव कृत्याश्रयस्य चैतन्याश्रयत्वस्यापि दर्शनं तुल्यमित्यर्थः ।

(न्या० ३अ० १आ० २५सू०) इति न्यायादनादितैव सिद्धयति । यद् यच्च कार्ये रूपं-
दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च
सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् । स्थूलतामपहाय सूक्ष्ममया ते तत्र स-
न्तीति चेत्, चैतन्यमपि तथा भविष्यति । तथाप्यसिद्धो हेतुः, तथा सति घटादी-
नामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेद् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः । सौ
क्ष्म्यं च समानमिति । तस्माद्, यज्जातीयात् कारणाद् यज्जातीयं कार्यं दृश्यते,
तथाभूतात् तथाभूतमात्रमनुमातव्यं, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यं व्य-

बोधनी ।
चं जायमानस्यास्मिन् जन्मनि न सम्भवतीति तदर्थं भावान्तरमाश्रेयम् । एवं पूर्वेष्वपि भावे-
ष्वित्यनादित्वमेव कर्तुः सिध्यति । तदाह सूत्रकारो 'वीतरागजन्मादर्शनात्' (न्या० सू०
३.१.२५) इति । अस्त्वचेतनकार्यत्वं बुद्धेः, तथापि तस्याश्चैतन्यं, तच्चैतन्ये कारणचैतन्यं
च न प्रसज्यत इत्यनिष्टप्रसङ्गमुखेन दर्शयति-यद्यत्-इति । यदि यावद्धर्मकं कारणं तावद्धर्मकं
कार्यमिति स्यात्तर्हि बुद्धेश्चैतन्यवद्रागादयोऽपि न स्युः, भावे वा प्रकृतावपि स्युः ; तत्र कार-
णात्मकत्वमिति कारणधर्मत्वं विवक्षितमिति सन्तु रागादयः प्रकृतावित्यत आह-तथा च-
इति । एवकारो भिन्नक्रमः । सा प्रकृतिर्बुद्धिरेव स्यात्, न तु प्रकृतिः । भावाष्टकसम्पन्नत्वं
हि बुद्धिलक्षणमिति । स्थूलरूपताम्-इति । प्रतीयमानभावाष्टकसंपत्तिर्बुद्धेर्लक्षणम् । प्रकृतौ तु
रागादयः सूक्ष्मरूपाः, ततो नोक्तदोष इति । तर्हि रागादिवच्चैतन्यमपि प्रकृतौ सूक्ष्मरूपमभ्यु-
पगभ्यतामित्याह-चैतन्यमपि-इति । ततः किमित्यत आह-तथापि-इति । एवमप्यचेतन-
कार्यत्वादिति हेतुविशेषणासिद्धः, सूक्ष्मचैतन्ययोगिप्रकृतिकार्यत्वादिति । ननु प्रकृतेश्चैतन्याभ्यु-
पगमे तत्कार्याणां घटादीनामपि तथात्वप्रसङ्गः कार्यकारणयोस्तादात्म्यात् तथा चाचेतनकार्यत्वं
सिद्धमित्याह-तथा सति-इति । तर्हि प्रकृतौ रागाद्यङ्गीकारे घटादीनामपि तथात्वप्रसङ्ग
इत्याह-रागादिमत्त्व-इति । घटादिष्वपि रागादयः सन्त्येव, सूक्ष्मत्वान्नोपलभ्यन्त इत्य-
नाह-सौक्ष्म्यं च-इति । तर्हि चैतन्यमपि घटादिषु सदैव सूक्ष्मत्वान्नोपलभ्यत इति वक्तुं
शक्यत इति । यद्वा, प्रकृतौ रागादेः सूक्ष्मत्वान्न घटादौ तत्प्रसङ्ग इत्याशङ्क्य तत्र सूक्ष्मचैतन्या-
भ्युपगमेऽपि न घटादौ चैतन्यप्रसङ्ग इत्याह-सौक्ष्म्यम्-इति । यत एवं प्रसङ्गः तस्मात्
कार्यकारणयोरेवं व्यवस्था न स्वेनेवमित्याह-तस्मात्-इति । व्यभिचारात् कारणेष्वसतामेव
धर्माणां कार्येषु दर्शनात् सतामेव चादर्शनादिति । प्रकृतमनुसरामः, किमनेन कार्यकारणयोः

प्रकाशः ।
त्ती रागजनकैष्टसाधनताज्ञानाधीनेति तदनुमानार्थं जन्मान्तरानुभूतव्याप्तिस्मरणमावश्यकमेवं तत्पू-
र्वजन्मनीत्यनादितेत्यर्थः । यद्यदिति । यथा प्रकृतौ रागाद्यभावेऽपि तत्कार्यबुद्धौ रागादिस्तथा
प्रकृतेरचैतन्येऽपि सा चेतना स्यादित्यर्थः । तथाचेति । प्रकृतौ रागादिस्वीकारे तल्लिङ्गबुद्धितरत्व
एव मानाभावाद् इत्यर्थः । तथेति । प्रकृतावपि सूक्ष्मं चैतन्यमित्यर्थः । असिद्ध इति । अचे-
तनकार्यत्वादित्यत्र विशेषणासिद्धेरित्यर्थः ।
तथा सतीति । बुद्धेश्चैतन्ये तज्जन्यघटादेरपि तत् स्यादित्यर्थः । रागादीति । घटादे
रागादिमद्बुद्धिजन्यत्वादित्यर्थः । सौक्ष्म्यं चेति । घटादौ रागादेरिव चैतन्यस्यापि सूक्ष्मत्वा
दित्यर्थः ।
कारणात्मकत्वम् । धर्मधर्मिणोस्तादात्म्यात् ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १७७
भिचारादिति किमनेनाप्रस्तुतेन ? । यदि च बुद्धिर्नित्या, अनिर्मोक्षप्रसङ्गः, पुंसः
सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् । अथ विलीयते, ततो नानादेर्विंलय
इत्यादिमत्त्वे तदनुत्पत्तिदशायां को नियन्ता ? प्रकृतेः साधारण्यात् तथा चासं-
सारः । पूर्वपूर्वबुद्धिवासनानुवृत्तेः साधारण्यादप्यसाधारणीति चेत् । बुद्धि-
निवृत्तावपि तद्धर्मवासनाऽनुवृत्तिरित्यदर्शनम् । सौक्ष्म्यान्न दोष इति चेत् ।
मुक्तावपि पुनः प्रवृत्तिप्रसङ्गः । निरधिकारात्त्वान्नैवमिति चेत् । तर्हि साधिकारा
प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्था-
बोधनी ।
साधर्म्यवैधर्म्यनिरूपणेनेत्याह-किमनेन-इति । तदेवं कृतिचैतन्ययोः सामानाधिकरण्यस्याबा-
धितत्वाच्चेति

१७८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकान्याख्यायां]
न्तरकल्पनां ? । सैव हि तत्तद्व्यवहारगोचरा तेन तेन शब्देन व्यपदिश्यते शा-
रीरवायुवदित्यागमोऽपि सङ्गच्छते इत्यतोऽपि हेतुरसिद्धः । अधिकारनिवृत्त्या
बुद्धेरप्रवृत्तिरपवर्गः, वासनायोगश्चाधिकारः, ततः संसारः । धर्मधर्मिणोरत्यन्त-
भेदे च कौटस्थ्यविरोधः । भेदश्च विरुद्धधर्माध्यासलक्षणो घटपटादिवत् प्रत्यक्ष-
बोधनी ।
तत्राह—सैव हि—इति । यथैकस्यैव शरीरान्तर्वर्त्तिनो वायोरूर्ध्वाधोगमनादिविशेषणात्
प्राणापानादिन्यपदेशः, तथैकस्या एव बुद्धेस्तत्तद्व्यापारभेदात् प्रकृत्यादिव्यपदेश इत्यागमोऽपि
संगंस्यत इति । अस्तु तर्हि बुद्धेरेव प्रकृत्यादिभावस्ततः किमित्यत आह—अतोऽपि—इति ।
बुद्धेरेव प्रकृतित्वोपपादनादप्यचेतनकार्यत्वादिति हेतुरसिद्धस्तस्याः कार्यत्वाभावादिति ।
बुद्धेरेव संसारापवर्गावेवमेव चेत्याह—अधिकार—इति । कोऽयमधिकार इत्यत्रोक्तं
वासनायोगः- इति । सा वासना च कर्मजन्यो धर्माधर्माविति । यदि बुद्धेरेव संसारापवर्गौ सैव
पुरुषः स्यात्, तस्य च कूटस्थनित्यस्य कथं ज्ञानादिविकारः, विकारे वा कथं कूटस्थत्वमित्याशङ्कयाह-
धर्मधर्मिणोरिति। यद्वा, कत्र्तैव चेतन इत्युक्तं, तत्र चेतनस्य विकारत्वेन कूटस्थनित्यताविरोध इत्या-
शङ्कयाह—धर्मधर्मिणोः-इति । न हि भिन्नस्य धर्मस्योत्पादविनाशाभ्यां धर्मिणः कूटस्थत्वं
विरुध्यत इति । भेद एव कुंत इत्यत आह—भेदश्च- इति । अहं जानामि ज्ञास्याम्यज्ञासिषमित्यती-
तानागतवर्त्तमानज्ञानानुगतः पुरुषोऽहमास्पदमनुभूयत इति प्रत्यक्षमेव भेदे प्रमाणमिति । तथापि
धर्मधर्मिणोगौरोऽयं शुक्लोऽयमिति सामानाधिकरण्यप्रतीतिदर्शनात्तथास्याह्यत्यन्तभिन्नयोर्घटपट-
योरदर्शनादभेदोऽप्यस्त्वित्याशङ्क्य सामानाधिकरण्यं यथासंभवं विकल्प्य सर्वथैतद् भेदस्यैव सा-
प्रकाशः ।
मयति । सैव हीति । तत्तद्व्यापारयोगादादिकारणत्वाभिमानकारणत्वादियोगात्तेन तेन प्रकृत्या-
दिशब्देन बुद्धिरेकौवोच्यत इत्यर्थः । शारीरेति । यथैक एव शारीरो वायुरूर्ध्वाऽधोगत्यादियो
गात् प्राणापानसमानादिशब्दवाच्य इत्यर्थः । अतोऽपीति । पूर्वं नित्यत्वेनाचेतनकार्यत्वमसिद्ध-
मुक्तम् । अधुना तु बुद्धिरेव प्रकृतिपदवाच्येति प्रकृतिकार्यत्वं बुद्धेरसिद्धमित्यभिप्रायेणोच्यत इत्यर्थः ।
एवं सत्येकस्य क्रमेण संसारापवर्गौ सांख्यमतेन समञ्जयति । अधिकारेति । वासना=
धर्माधर्मौ । ननु बुद्धेश्चैतन्ये चेतनकौटस्थ्यश्रुतिविरोध इत्यत आह । धर्मेति । कौटस्थ्यं हि
नित्यत्वम् , । तच्च धर्मस्योत्पादविनाशेऽपि न धर्मिणस्तदित्यविरुद्धम् । अभेदे हि धर्मधर्मिणो-
स्तद्विरोधः स च नास्त्येवेत्यर्थः । कथं नास्तीत्यत आह । भेदश्चेति । अहं जानाम्यहमज्ञा
सिषमहं ज्ञास्यामीत्यनुभवाज्ज्ञानातीतत्वादिय्रहेऽपि अहमास्पदस्यावाधितप्रत्यक्षेण स्थैर्यानुभवा
प्रकाशिका।
कृतं प्रकृत्येति । प्रकृत्यादिशब्दानामर्थान्तरकल्पनयेत्यर्थः । पूर्वं नित्यत्वेनेति ।
यद्यप्यव्यवहितपूर्वं विशेषणासिद्धिरुक्ता तथापि ' न हि कर्तुः कार्यत्वं' इत्यादिना प्रथमतः
एव मूलेऽसिद्धिरुक्तेति । अभिप्रायेणेति । यद्यपि नीलः पट इतिवत् ज्ञानमहमिति सामानाधि-
करण्यधीरसिद्धैवेति कथं ज्ञानतद्धर्मिणोर्भेदसिद्धिः । तथापि सामानाधिकरण्यप्रतीत्या नीलप-
मकरन्दः ।
पूर्वं नित्यत्वेनेति । यद्यप्यचेतनकार्यत्वादित्यत्र विशेषाणासिद्धिरिति व्याख्यानात् कार्य-
त्वासिद्धिर्नोक्ता, तथाप्यसिद्धिरित्यादिमूलेन कार्यत्वासिद्धेरप्युक्तत्वात्तदभिप्रायेणेदं मन्तव्यम् ।
मागमोऽपीति । प्रकृत्यहङ्कारमनःप्रभृतिप्रतिपादकागमोऽपीत्यर्थः ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १७६
सिद्धः । न च सामानाधिकरण्यादभेदोऽपि, तद्धि समानशब्दवाच्यत्वम् , एक-
ज्ञानगोचरत्वम् , एकाधिकरणत्वम्, आधाराधेयभावः, विशेष्यत्वं, सम्बन्धमात्रं
वा, भेद एव भेदेऽपि चोपपद्यमानं नाभेदं स्पृशतीति । तस्मात् सर्वमवदातम् ॥१४॥
बोधनी ।
धकमित्याह-न च-इति । अनेकापेक्षया हि किञ्चिदेकं साधारणं भवति, न त्वेकस्यैकम् । सुश-
ममन्यत् । न चातिप्रसङ्गः, कार्यकारणाभिधेयाभिधायकविषयविषयिभाववत् स्वभावत एव सामा-
नाधिकरणनियमोपपत्तेरिति भावः । तस्मादात्मनो ज्ञानाद्यनित्यधर्मकत्वे दोषकणोऽपि नास्तीत्यु-
पसंहति-तस्मात्सर्वमवदातम्-इति ॥ १४ ॥
प्रकाशः ।
दित्यर्थः । ननु धर्मधर्मिणोरत्यन्तभेदोऽसिद्धः । नीलः पट इति सामानाधिकरण्यबुद्धिरितिभिन्नाभि-
न्नाभ्यां व्यावर्तमाना धर्मधर्मिणोर्भेदाभेदौ साधयति । अन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति सदा-
तनाभावमात्रवृत्तिधर्मत्वात् अत्यन्ताभावत्ववदित्यनुमानमप्यत्रेत्यत आह। न चेति । आद्यं द्वयं
सामानाधिकरण्यं भेदेऽपि, अन्त्यत्रयं भेद एव, सम्बन्धमात्रमपि यथैककारणत्वादि तदा भेदेऽ-
पि, नोचेद्शेद एव उपपद्यत इति नामेदस्ततः सिद्ध्यतीत्यर्थः । अथ नीलपटयोरभेदबुद्धिरेव सा-
मानाधिकरण्यधीस्तदाऽसिद्धिः । नीलः पट इति प्रतीत्या तयोः सम्बन्धस्यैव विषयीकरणात् ।
अन्यथा नीलिमा पट इत्यपि बुद्ध्यापत्तिः । शब्दप्रयोगस्यापि मतुब्लोपादभेदोपचाराद्वापपत्तेः ।
वस्तुतो विरुद्धयोरेकत्र भावाभावाववच्छेदभेदेनैव प्रतीयेते । न चात्र सोऽस्ति । अनुमानमप्यनु-
कूलतर्काभावेन व्याघातरूपप्रतिकूलतर्केण च प्रतिहतमिति संक्षेपः ॥ १४ ॥
प्रकाशिका ।
टयोरभेदसिद्धौ तद्दृष्टान्तेन धर्म्मधर्मिभावादेव प्रकृतेऽभेदः साध्य इत्याशयवानाशङ्कते ।
ननु धर्म्मधर्मिणोरिति । अन्योन्याभावत्वमिति । यद्यपि संयोगवदन्योन्याभावोव्याप्य-
वृत्तितामादायार्थान्तरत्वम् । तथापि व्याप्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकस्वसमानाधिकरणा-
त्यन्ताभावप्रतियोगिवृत्तित्वमव्याप्यवृत्तित्वं प्रकृते विवक्षितमिति नोक्तदोषः । संयोगात्यन्ताभावे
च व्याप्यवृत्त्येव संयोगत्वं प्रतियोगितावच्छेदकमिति न दृष्टान्तासिद्धिः । सदातन्येति । सदात-
नाभाववृत्त्यभावविभाजकधर्म्मत्वादित्यर्थः । तेन यथाश्रुते घटात्यन्ताभावत्वे व्यभिचारः,
मात्रपदं च व्यर्थं प्रमेयत्वादपि साध्यसत्त्वात् मात्रपदस्य कात्स्न्र्यार्थकत्वे स्वरूपासिद्धिर्दृष्टा-
न्तसिद्धी इति दूषणस्यानवकाशः । सदातन्येत्यादिविशेषणं च संयोगप्रागभावध्वंसयोर्व्यावृत्ति-
श्वपक्षे, अन्यथाह्वदेयमेव । अभावपदं चाकाशादौ व्यभिचारवारणाय मुख्याभावपरं स पुनश्च-
तुर्द्धेति शास्त्रेणाभावविभागान्न स्वरूपासिद्धिरिति स्मर्त्तव्यम् । आद्यं त्रयमिति । अधिकरणे-
क्यस्यापि भेदाभेदसाधारणत्वादिति भावः । अन्त्यं त्रयमिति । सम्बन्धत्वमात्रपक्षेऽपि कार्य-
कारणभावादिकमर्थमादाय भेदद्वयस्यैव प्राप्तेरिति भावः । कचित् पाठः आद्यं द्वयमिति ।
तत्रैकाधिकरणत्वं समानाधिकरणत्वं साम्यं च तदधिकरणत्वासामान्यधर्म्मघटितमिति भेदनीय-
तमिति भावः । एवं च अन्त्यत्वेन तृतीयचतुर्थपञ्चमरूपं विवक्षितम् । षष्ठं तु स्वयमेव विकल्प्य
दूषयिष्यतीति ध्येयम् । मतुब्लोपादिति । लुप्तस्मृतो मतुवेवार्थप्रत्ययको नीलपदे वा नील-
सम्बन्धिाने लक्षणेत्यर्थः ॥ १४ ॥
मकरन्दः ।
सदात्तनाभावमात्रवृत्तिधर्मत्वादिति । ननु घटात्यन्ताभावत्वादौ व्यभिचारः, मात्रपदञ्च
व्यर्थम् प्रमेयत्वादपि साध्यसत्त्वात् । न च मात्रपदं न व्यवच्छेदार्थकं, किन्तु यावदर्थकम् ।

१८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१५ कारिकावतरणिकाया
स्यादेतत् । नित्यविभुभोक्तृसद्भावे सर्वमेतदेवं स्यात्, स एव कुतः, भूता-
नामेव चेतनत्वात् । कायाकारपरिणतानि भूतानि तथा, अन्वयव्यतिरेकाभ्यां
तथोपलब्धेः, कर्मज्ञानवासने तु सर्वत्र प्रतिभूतनियते अनुवर्त्तिष्येते, यतो भोग-
प्रतिसन्धाननियम इति चेत् । उच्यते—
नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् ।
बोधनी।
एवं सांख्यं निरस्यापूर्वस्यात्मधर्मत्वे साधिते पुनरपि चार्वाकः प्रत्यवतिष्ठते—स्या-
देतत्—इति । यदि भोक्ता नित्यो विभुश्च स्यात् ततस्तस्य सर्वदेहप्राप्त्यविशेषाद् भूतगतैरतिश-
यैर्न भोगनियमः स्यादित्यात्मसमवायोऽपूर्वस्य स्यात्, तादृशस्तु भोक्ता कुतः प्रमाणात् सिध्येत् ।
न कुतश्चिदित्यर्थः । ननु ज्ञानसमवायिकारणत्वेनानुमास्यत इत्यत्राह—भूतानामिति । भूताना-
मेव चेतनत्वे घटादेरपि तत्त्वप्रसङ्गमाशङ्क्य विशिनष्टि—कायाकार—इति । तानि भूतानि तथा
चेतनानीत्यर्थः । भूतत्वाविशेषे कुतोऽयं विवेक इत्यत्राह—अन्वय—इति । यथा सुराकारपरिणता-
नामेव भूतानां मदशक्तिर्नान्येषां तथैतदपि । तदुक्तं सूत्रकारेण "मदशक्तिवद् विज्ञानम्" इति ।
यदि शरीरादिव्यतिरिक्तः चेतनो न स्यात् तर्हि किमाश्रयावदृष्टसंस्कारौ भोगं प्रतिसंधानं च निय-
च्छतस्तत्राह—कर्म—इति । स्मृतिहेतुः संस्कारो ज्ञानवासना, सा तावदनुभवसामानाधिकरण्यात्
तदाधारेषु वर्त्तन्त इति । कर्मजनितौ धर्माधर्मौ कर्मवासना, सा तावन्नास्त्येव । यद्यपि स्यात्
तथापि भूतानामेव कर्तृत्वान्तेष्वेव नियंता वास्येत—इत्युच्यत इति ।
अन्येरनुभूतं नान्यः स्मरतीति तावदविवादम् । अनेनात्मनः शरीरादिव्यतिरेके प्रमाणम-
भिसंधत्ते, स्मृतिः पूर्वापरप्रत्ययाभ्यां सहैककर्तृका, ताभ्यां सहैककर्तृत्वेन प्रतिसंधीयमानत्वात्,
न यदेवं, न तदेवं यथा देवदत्तस्य स्मृतिर्यज्ञदत्तस्य पूर्वापरप्रत्ययाभ्यां न प्रतिसंधीयते न तथा-
चेयं तस्मान्न तथेति । ततः किमित्यत आह—नैकम्—इति । न तावच्छरीरावयविसमवेतं चैतन्यं,
तस्यावस्थाभेदेष्वन्यत्वात् तत्र पूर्वानुभूतस्योत्तरावस्थायामस्मरणप्रसङ्गः । तर्हि करचरणाद्य-
न्यतमावयवसमवेतं भविष्यतीति । अत्राप्येतदेवावतिष्ठते नैकभवयवभूतं चैतन्यं तस्यावयवस्य
कदाचिद्विच्छेदात् । तत्र च तदनुभूतस्यावयवान्तरेणास्मरणप्रसङ्गः । यद्वा, आद्यपादेनावयवि-
चैतन्यस्य निरासः, द्वितीयेनावयवचैतन्यस्येति । ननु पूर्वावयवविगता वासनोत्तरस्मिन्नवय-
प्रकाशः ।
स्यादेतदिति । भूतचैतन्येऽपि प्रकृतसिद्धौ नित्यविभुभोक्तृनिरासपरेयं शङ्केति । अथैवं
घटादिरपि चेतनः स्यादित्यत आह । कायेति । अन्वयेति । अन्वयव्यतिरेकाभ्यां शरीरस्य
ज्ञानहेतुत्वे सिद्धे समवायिकारणमपि तदेव कल्प्यते । तदन्यस्मिन् मानाभावाद्, गौरोऽहं जाना-
मीत्यनुभवाच्चेति भावः । ननु शरीरस्याऽनुभवितृत्वे कर्तृत्वे च तन्नाशादन्यस्य भोक्तृत्वे
प्रतिसंधातृत्वे चातिप्रसङ्ग इत्यत आह । कर्मज्ञानेति । कर्मज्ञानाभ्यां जनिते वासने अदृष्टसं-
स्कारौ। यत इति । यत्कायसन्ताने कर्म, तत्कायसन्ताने भोगो, यत्कायसन्तानेऽनुभवस्तत्का-
यसन्ताने स्मृतिरित्यर्थः ।
नान्यदृष्टमिति । एवं बालशरीरेणाऽनुभूतस्य युवशरीरेण स्मरणं स्यात्, तयो-
र्भेदात् । अन्यानुभूतस्यान्येन स्मरणेऽतिप्रसङ्गात् । न च बाल्ययौवनयोरेकं भूतं शरीरम् ।
अपक्रमात् = विनश्वरस्वभावत्वात् । न चान्यवासनाऽन्यत्र संक्रामति, अतिप्रसङ्गादित्यर्थः ।
प्रकाशिका ।
प्रकृतसिद्धाविति । कालान्तरफलानुकूलादृष्टस्यैव प्रकृतत्वादिति भावः ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १६१
वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे ॥१५॥
न हि भूतानां समुदायपर्यवसितं चैतन्यम् । प्रतिदिनं तस्यान्यत्वे पूर्वपूर्व-
दिवसानुभूतस्यास्मरणप्रसङ्गात् । नापि प्रत्येकपर्यवसितं, करचरणाद्यवयवापाये
तदनुभूतस्य स्मरणाद्योगात् । नापि मृगमदवासनेव वस्त्रादिषु संसर्गादन्यवा-
सनाऽन्यत्र संक्रामति । मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् । न चोपा-
दानोपादेयभावनियमो गतिः । स्थिरपक्षे परमाणूनां तदभावात् । खण्डावयविनं
बोधनी ।
यिनि संक्रामति विच्छिन्नाद्यवगता च तिष्ठत्स्ववयवेष्विति । अत्राह—वासनासंक्रमः—
इति । 'सर्गादेव वासनायाः संक्रमणे संक्रान्तमातृवासनेन गर्भस्थेन मात्रानुभूतस्य स्मरणप्रसङ्गः ।
नन्पूपादानोपादेयभावस्तु नियामिका गतिर्भविष्यति । न अवयवी नाम किञ्चिदस्ति, किन्तु प्रति-
क्षणभङ्गुराः परमाणव एव तत्त्वम् । तेन पूर्वैः परमाणुभिरुत्तरेषामुपादीयमानत्वमस्ति । मातृभ्रू-
णयोस्तु तदभावान्नातिप्रसङ्ग इत्याह—न च—इति । न च स्थिरपक्षे परमाणूनां नित्यत्वेनोपादेय-
भावोऽस्तीत्याद्यपादस्य निगदव्याख्यातत्वाद् द्वितीयं व्याचष्टे—न हि—इति । द्वितीयव्या-
ख्याने स्वाथस्यैव विवरणं द्वितीयमेवार्थान्तरेण व्याचष्टे—नापि इति । द्वितीयव्याख्याने तु
द्वितीयमिदानीं व्याचष्टे—नापि—इति । तृतीयं व्याचष्टे—नापि मृगमद—इति । तुरीयं व्याच-
ष्टे—न च—इति । मा भूत्परमाणूनामुपादानोपादेयभावः, अवयवावयविनोस्तु भविष्यतीत्याश-
ङ्कयाह—खण्डावयविनम्—इति । न ह्यनुभवितारो विच्छिन्ना अवयवाः खण्डावयविनमार-
प्रकाशः ।
नन्वृपादानवासनाया उपादेये संक्रमः स्यादित्यत आह । न चेति । स्थिरे=स्थिरपक्षे, परमाणू-
नामनुपादेयत्वाद् विच्छिन्नकरादीनां खण्डावयविनं प्रत्यनुपादानत्वादित्यर्थः ।
प्रतिदिनमिति । आहारपरिणतिविशेषस्य तद्धेतोरन्यान्यत्वादित्यर्थः । ननु करे मे सुखं,
पादे मे दुःखमित्यनुभावादसुभवव्यधिकरणस्य सुखादेरनभ्युपगमात् कराद्येवानुभवितृ स्यादि-
त्यत आह । नापीति । कराद्यपाये तदनुभूतस्मरणापातादित्यर्थः । मात्रेति । मातृगर्भस्थयो-
र्मिथः संसर्गादित्यर्थः । ननु उपादानं यदनुभवितृ तद्वासना तदुपादेये संक्रामतीति करादिवा-
सना तदपगमे तदुपादेये संक्रामति, न च मातृभ्रूणयोस्तथात्वमित्यत आह—
न चेति । खण्डेति । अवस्थितावयवसंयोगेभ्य एव खण्डावयव्युत्पादादित्यर्थः । न च
परमाणूनामेव चैतन्यं, तद्गुणानामतीन्द्रियत्वेन ज्ञानादेरप्यतीन्द्रियत्वापत्तेः । शरीरात्वयादेश्च
प्रकाशिका ।
स्थिरपक्षे इति । क्षणिकतपक्षे पूर्वपरमाणुपुञ्जात्तदुत्तरपरमाणुपुञ्जोत्पत्तिरिति भवत्तूपादेये
उपादानवासनासंक्रमः, स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तत्कराव-
च्छेदेनानुभूतं तदपगमे नानुभूयेतेति भावः । तद्गुणानामिति । इदमापातः, वस्तुतः
मकरन्दः ।
अत एव नोक्तव्यभिचारोऽपीति वाच्यम् । स्वरूपदृष्टान्तासिद्धेधोरापत्तेः । अन्योन्याभावस्यात्यन्ता-
भावेऽत्यन्ताभावस्यान्योन्याभावेऽवृत्तेः । सदातनत्यपि व्यर्थम् । स्वरूपयोरप्रप्रागभावध्वंसयो-
रप्यव्याप्यवृत्तित्वेन प्रागभावप्रध्वंसयोरपि साध्यसत्त्वादिति चेन्मैवम् । सदातानाभाववृत्त्यभाव-
विभाजकोपाधिरवादिति विवक्षितत्वात् । न चैवमपि दृष्टान्तासिद्धिः, चतुर्द्धा अभावविभागस्य, स
पुनश्चतुर्दैत्यनेन करणात् । संयोगप्रागभावादेर्व्याप्यवृत्तित्वाभ्युपगमेन सदातनपदं, तदनभ्युपगमे
त्वनादेयमेवेति तत्त्वम् ॥ १४ ॥
स्थिरपक्ष इति । क्षणिकतापक्षे बाल्ययुवशरीयोर: परमाणुपुलारमकतयोपादानोपादेयभावे
तद्वासनासंक्रमः स्यात् । स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तद्वास

१८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकावतरणिकायां
प्रति च विच्छिन्नानामनुपादानत्वात् । पूर्वसिद्धस्य चावयविनो विनाशात् ॥ १५॥
अस्तु तर्हि क्षणभङ्गः । न चातिशयोऽप्यतिरिच्यते
बोधनी ।
भन्ते तस्य तिष्ठद्भिरेवारम्भादिति । अखण्डं तु पूर्वावयविनं प्रति विच्छिन्ना एवोपादानभूता
इत्यत्राह-- पूर्वसिद्धस्य-इति । किमनेन, स हि तदारब्धः पूर्वावयवीति । तद्विच्छेदे विनष्ट
एव क इदानीं प्रतिसन्दध्यात् । अत्र पूर्वशरीरस्याप्युत्तरं प्रत्यनुपादानत्वादित्यपि द्रष्टव्यम् ॥१५॥
अत्र चार्वाक एव बौद्धमतावलम्बनेन प्रत्यवतिष्ठते-अस्तु तर्हि-इति । यदि स्थिरपक्षे
गतिर्नास्ति तर्हि क्षणभङ्गमङ्गीकुर्म इति । ननु क्षणभङ्गवादे बीजादीनामङ्कुरादिकार्यानुगुणः कश्चि-
दतिशयः क्षितिसलिलादिभिराधीयत इति वक्तव्यम् , अन्यथा कुसूलस्थैरपि बीजैरङ्कुरारम्भप्र-
सङ्गात् । स चातिशयो बीजव्यतिरिक्तश्चेत् तस्यैवान्वयव्यतिरेकाभ्यां कारणत्वप्रसङ्गः, अव्यतिरेके
तु बीजमात्रमेवेति कुसूलस्थानामप्यङ्कुरारम्भप्रसङ्ग इत्यत आह-न च-इति । सत्यमस्त्यति-
शयः, स च भावान्न व्यतिरिच्यते, समर्थस्वभावं भावान्तरमेव क्षित्यादिर्जनयत इत्यर्थः । अथवा
प्रतिक्षणभङ्गे भेद उपलभ्येत, तदनुपलम्भान्नास्ति भङ्ग इत्यत्राह--न च-इति । अतिशयो
वैलक्षण्यं भेद इति यावत् , व्यतिरेको नास्तित्वं, न च भेदो नास्तीत्यर्थः । यद्वा, करणाकरणवि-
रुद्धधर्मसंसर्गाद्धि पूर्वोत्तरयोः क्षणयोर्भेदोऽङ्गीकारः, तस्य सहकारिलाभालाभाभ्यामेकैकस्यैवोपपत्तेर्न
भेदः सिध्यतीत्यत्राह--न च-इति । सहकारिजन्यातिशयस्य भावाद्यतिरेके तस्यैव कारण-
प्रकाश ।
कारणत्वमात्रं सिद्ध्यति, न समवायिकारणत्वम् । तदेवं विपक्षबाधकाच्छरीरं न चेतनम् भूत-
त्वाद् । घटवदित्यर्थः ॥ १५ ॥
अस्त्विति । तत्र पूर्वोत्तरशरीरयोरुपादानोपादेयभावाद् वासनासंक्रमात् प्रतिसन्धाननि-
र्यम उपपद्यत इति भावः । क्षणिकत्वे विप्रतिपत्तिः । सत् स्वोत्पत्त्यव्यवहितोत्तरकालवृत्ति 'सप्रति-
योगि न वा ? । तत्र स्थैर्ये प्रसङ्गविपर्ययाभ्यामर्थक्रियाव्यापकक्रमयौगपद्याभावात्तदभावेऽर्थक्रि-
याकारित्वरूपसत्त्वानुपपत्तौ, यत् सत् तत् क्षणिकं यथा घटः संश्च विवादास्पदीभूतः शब्दादिरिति
पराभिप्रेतं मानम् । ननु क्षणभङ्गे पूर्वक्षणिकभावादग्रिमो भावः सातिशयो जायते, यतः कार्यो-
त्पादः, सहकारिसहितस्यैव तद्धेतुत्वे क्षणभङ्गानुषपत्तेः। तथा च सातिशयव्यक्त्युत्पादो गृह्येत,
न चैवमिति न तत्सिद्धिरित्यत आह । न चेति । अतिरिच्यते=विविच्य न गृह्यते । असमर्थ-
प्रकाशिका ।
परमाणूनां चैतन्य एकत्र शरीरे चैतन्यबहुत्व एकाभिप्रायनियमेन प्रवृत्तिनिवृत्ती न स्यातामिति
दूषणं द्रष्टव्यम् ॥ १५ ॥
सदिति । न चान्त्यशब्दस्य क्षणिकत्वे तत्रैवांशतः सिद्धसाधनम् , अक्षणिकत्वे च
विधिकोटेरुप्रसिद्धिरिति वाच्यम् । पक्षतावच्छेदकैक्ये अंशतः सिद्धसाधनस्यादोषत्वात् , तद्
भिन्नस्यैव वा पक्षत्वात् । यदि चान्त्यशब्दोऽपि द्विक्षणभावस्थायाी पक्षस्तदायं घट एतदुत्पत्त्यव-
हितोत्तरवर्त्तिध्वंसप्रतियोगी न वेति विशिष्यैव विप्रतिपत्तिः, अतस्तत्कालध्वस्तपदार्थ एव विधि-
कोटिप्रसिद्धिरिति ध्येयम् । निषेधकोटिप्रसिद्धिरत्तु मन्मते नित्ये तन्मते अलीके यदि सामान्य-
विमतिपत्तिः विशेषविप्रतिपत्तौ तु सुलभैवोभयमते । प्रसङ्गविपर्ययाभ्यामिति । सामर्थ्यस्य
क्षेत्रपतिते नैयायिकाङ्गीकृतत्वादसामर्थ्यसाधकाभ्यां ताभ्यामित्यर्थः, अत एव प्रसङ्गाभ्यां विप-
र्ययाभ्यामित्यपव्याख्यानम् । अर्थक्रियेति । व्यापकत्वं च क्रमयौमपद्ययोरन्यतरत्वावच्छिन्न-
मकरन्दः ।
नासंक्रमाभावात्तदनुभूतं खण्डशरीरेण न स्मर्येतेत्यर्थः॥१५॥ सदिति । न चान्त्यशब्दांशे सिद्धसा-
धनमन्यथा साध्याप्रसिद्धेरिति वाच्यम् । सत्त्वावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् । अर्थक्रियाव्याप-
' अतिरिच्यते = विविच्य निश्चीयते ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८३
किन्तु सादृश्यतिरस्कृतत्वाद् द्रागेव न विकल्प्यते, कार्यदर्शनादध्यवसीयते ऽन्-
त्यातिशयवत् । तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धान-
नियमाद्योऽप्युपपद्यन्ते । क्षणिकत्वसिद्ध्यावेवमेतत्, तदेव त्वन्यत्र विस्तरेण
प्रतिषिद्धम् । अपि च—
न वैजात्यं विना तत् स्यान्न तस्मिन्नलुमा भवेत् ।
बोधनी ।
त्वप्रसङ्गात् न व्यतिरिच्यत इति वक्तव्यम्, तदा च सहकारिसमवधानाद्भावान्तरमेव जायत
इति स्यादित्यन क्षणभङ्गसिद्धिरिति । एवं तर्हि पूर्वबीजवैलक्षण्येनोत्तरं बीजमनुभूयेतेत्यत आह-
किन्त्विति । भिन्नो भावः सादृश्यतिरस्कृतभेदत्वादापातः तथा न विकल्प्यते न निश्चीयते
वर्तमानक्षणावगाहिना तु निर्विकल्पकेनानुभूयत एवेत्यर्थः । पश्चाद्वा निश्चयः कुतस्त्य इत्यत्राह-
कार्यदर्शनात्-इति । कुसूलस्थाद्विलक्षणभावानुत्पादे तद्वदेवानारम्भप्रसङ्गात् क्षित्यादिभिरङ्-
कुरसमर्थं भावान्तरं जायत इति निश्चिनुमः । अन्त्यातिशयवत्-इति । यथा स्थिरवादि-
नोऽपि जनकावस्थायाामजनकावस्थातोऽतिशय कार्यदर्शनावसीयते । यद्वा अन्त्योऽतिशयः
सामग्री, सा यथा कार्यैकसमधिगम्या तथातिशयोऽपीति । यद्वा, अन्त्यातिशयो घटादेरन्यो
विजातीयः कपालादिसंतानः, स यथा प्रत्यक्षेणावसीयते तथा प्रतिक्षणभङ्गोऽपि विलक्षणकार्यदर्श-
नान्निन्नीयत इति । अस्तु क्षणभङ्गः, प्रकृते किमायात मित्यत्राह—तथा च-इति । भूतानामुपादा-
नोपादेयभावनियमेन प्रतिसंधानभोगनियमोपपत्तिरिति । सिद्धान्त्याह क्षणिकत्व इति । अन्यत्र-
इति । अन्यत्र=आत्मतत्त्वविवेके । न तावता श्रोतॄणां सन्तोष इत्यत्रापि किञ्चिदाह-अपि-इति ।
यद्यङ्कुरानारम्भकाद् बीजात्तदारम्भकस्य वैजात्यं कुर्वद्रूपं नाङ्गीक्रियेत तर्हि क्षणिकत्वं न
सिद्ध्येत् । एकजातीयत्वे हि तयोः सहकारिलाभालाभाभ्यामेवारम्भाणारम्भनियमो वक्तव्यः, तस्य
चैकस्यामेव व्यक्तौ सुवचत्वान्न क्षणिकत्वसिद्धिरिति भावः । अस्तु तर्हि वैजात्यमित्यत्राह—न
तस्मिन्-इति । तस्मिन्नप्रामाणिक एव वैजात्येऽङ्गीक्रियमाणे कारणवत् कार्येऽपि वैजात्यसंभाव-
प्रकाशः।
स्वभावादित्यर्थः । किं त्विति । सादृश्यवशात् तथाभूतोऽपि न तथात्वेनापाततो निश्चीयत
इत्यर्थः । तत् किमनिश्चय एव, नेत्याह । कार्येति । स्थैर्ये सहकार्यपेक्षणानुपपत्तेः पूर्वापरकालयोः
कार्यदर्शनादर्शनाभ्यामतिशयोऽवसीयत इत्यर्थः । अन्त्यातिशयः=सामग्री । सामग्रीवत्
कार्यैकसमधिगम्यत्वान्नानुपलम्भमात्रेण निराक्रियत इति भावः। प्रकृतेन सङ्गमयति । तथा चेति ।
न वैजात्यमिति । असमर्थव्यावृत्तकुर्वद्रूपत्वं विना, न तत्=क्षणिकत्वम् । अन्यथा सम-
प्रकाशिका।
स्येति ध्येयम् । यतिरिच्यत इति मूलस्य विविच्य न गृह्यत इति व्याख्या विवेकावधिमाह ।
असमर्थेति । एवं च विविच्य न गृह्यत इत्यत्र न चेत्यस्य सम्बन्धे विविच्य गृह्यते एवे-
त्यर्थपर्यवसाने पूर्वोक्तापादने इष्टापत्तिरिति भावः । आपातत इति । निश्चायकाभावादिति
भावः । सादृश्यस्या निश्चयहेतोरग्रेऽपि सत्त्वात् कथं निश्चय इत्याशयेनाह । तत्किमिति ।
मकरन्दः ।
केति । यद्यपि क्रमयौगपद्ययोः प्रत्येकं मिलिततया वा नार्थक्रियाव्यापकत्वं, तथापि तदन्यतर-
त्वेन व्यापकत्वम् । अर्थक्रियाकारिणि क्रमकारित्वयुगपत्कारित्वान्यतरनियमादिति बोध्यम् । अति-
रिच्यत इत्यस्यैव विविच्य न गृह्यत इत्यर्थः । तत्र, न चेति सम्बन्धे विविच्य गृह्यत एवातिशय
इत्यर्थपर्यवसाने सातिशयव्यक्त्युत्पादौ गृह्येतेत्यत्रेष्टापत्तिरिति भावः । आपातत इति । निश्चायका-
भावादिति भावः । सादृश्यस्याग्रेऽपि सत्त्वान्निश्चायकाभावस्तुल्य इत्याशयेनाह । तत्किमिति ।

१८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां
विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥१६॥
न हि करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्य-
भ्युपगमे क्षणिकत्वसिद्धिः। तथैकव्यक्तावप्यविरोधात्, तद्वा तादृग्वेति न क-
श्चिद्विशेष इति न्यायात्। ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेयम्।
एवञ्च कारणवत् कार्येऽपि किञ्चिद् वैजात्यं स्याद् यस्य कारणापेक्षा, न तु
बोधनी।
नया कार्यादिलिङ्गकमनुमानमेवोच्छिद्येत। नन्वनुमानोच्छेदोऽस्माकं चार्वाकाणामिष्ट एवेत्यत
आह-विना तेन-इति । न ह्यनुमानेन विना क्षणिकत्वसिद्धिः प्रमाणान्तराभावात्। नन्वस्ति
प्रत्यक्षमित्यत्राह-नाध्यक्षम्-इति । कुत इत्यत्राह-निश्चयं विना-इति । निश्चयो विकल्प-
स्तेन विना न निर्विकल्पमात्रं क्वचिदपि प्रमाणं, निश्चयश्चात्र नास्तीति ।
व्याचष्टे-न हि-इति । तन्त्रं = प्रधानम् प्रयोजकमिति यावत् । कथं न सिद्धिर्यावता
साजात्येऽपि करणाकरणलक्षणविरुद्धधर्मसंसर्गाद् व्यक्तिभेदः सिध्यतीत्यत्राह-तथा-इति ।
एकजातीयवदेकस्यामपि व्यक्तौ सहकारिवशेन करणाकरणयोरविरोधादिति । तद्वा इति ।
तत् = पूर्वकालवर्तिबीजं, तादृक् = तज्जातीयव्यक्त्यन्तरम् , यथा तज्जातीयस्यैव सतः
करणाकरणे तथैकस्या एव व्यक्तीर्भविष्यत इत्यर्थः । उपसंहरति-ततः इति । तौ =
प्रामाणिकौ सहकारिलाभालाभौ, अप्रामाणिकमिति वक्ष्यमाणोपयोगितयोक्तम् , अभ्युपग-
न्तव्यं क्षणिकत्वसिद्धय इति शेषः । अस्तु वैजात्यमिष्टमेव हि नस्तदित्यत्र न तस्मिन्ननुमा
भवेदित्येतदुपपादयितुमुपक्रमते - एवम्-इति । यदि कारणेऽनुपलभ्यमानस्यैव वैजात्यस्य
प्रकाशः।
र्थस्यैव सतः कार्यजननाजननयोः सहकारिसाहित्याभावाभ्यामेवोपपत्तेः। तस्मिन्=वैजात्ये व सति
क्वाप्यनुमितिर्न स्यात्, उपस्थितं कारणगतरूपं परित्यज्यानुपलभ्यमानरूपान्तरेण कारणत्वे कार्येऽ-
प्युपस्थितरूपमपहायानुपलभ्यमानरूपान्तरेण कार्यत्वशङ्कया कार्यकारणभावाग्रहात्। तेन चानु-
मानेन विना न तत्सिद्धिः, क्षणिकत्वसिद्धिरित्यर्थः । न च प्रत्यक्षादेव क्षणिकत्वसिद्धिरित्याह ।
नाध्यक्षमिति । अध्यक्षं = निर्विकल्पकम् । निश्चयः = सविकल्पकम् । क्षणिकत्वनिश्चयाभावान्न
तदुन्नेयं क्षणिकत्वनिर्विकल्पकमित्यर्थः । तज्जातीस्येति । पूर्वविशिष्टतज्जातीयस्यैवेत्यर्थः ।
तथैकेति । यैव पूर्वव्यक्तिः सहकारिवैधुर्यात् कार्यं मा कार्षीत् सैव तत्प्राप्तौ करोतीत्यत्र विरो-
धाभावादित्यर्थः । ननु दृष्टसज्जातीयाऽपि व्यक्तिस्तदन्यैवेत्यत आह । तद्वेति । तत् = यदेव
पूर्वकालवृत्ति तदेवोत्तरकालवृत्ति । तादृग्वैजात्यशून्यमन्यदित्यर्थः । ननु दृष्टजातीयस्य कारणं विना
करणाकरणयोः = कार्यजनकत्वाजनकत्वप्रयुक्ततयाऽभ्युपगतयोः कार्योत्पादनानुत्पादनयोः ।
तज्जातीयस्य = बीजत्वेन जनककुर्वद्रूपजातीयस्य, अनेन स्वरूपजनकत्वं प्रदर्शितम् । अर्थ-
क्रियाकारिणः अर्थक्रियाकारितास्वरूपयोग्यतात्मिका कुसूलस्थस्य कुर्वद्रूपस्य चाविशिष्टैव तथापि
न काचित् क्षतिः, स्वरूपयोग्यत्वेऽपि कार्यप्रसङ्गस्य सहकारिविरहादुपपत्तेरित्याशयः। क्षणि-
कत्वसिद्धिरिति । कुसूलावस्थितिमन्त्याङ्कुरावयवहितपूर्वपर्यन्तमेकबीजव्यक्त्यभ्युपगमे कार्य-
प्रसङ्गविपर्ययौ स्यातामिति क्षणिकत्वं सिध्यति ती चेत् सहकारिलाभालाभाभ्यामुपपन्नौ कुतः क्षणि-
कत्वमित्याशयः । तथेति । यथैकजातीयस्य स्वरूपयोग्यत्वेऽपि कार्यजननाजननयोर्विरोधः सह-
कारिलाभालाभाभ्याम् तथेत्यर्थः । एकव्यक्तौ = कुसूलस्थाभिन्नायामपि कुर्वद्रूपव्यक्तौ । अविरो-
धात् = कार्योत्पादकत्वानुत्पादकत्वयोरविरोधात् । कश्चिद्विशेष इति । भेदेऽप्येकजातीयत्वापगमे

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८५
दृष्टजातीयस्येतिशङ्कया न तदुत्पत्तिसिद्धिः । दृष्टजातीयमाकस्मिकं स्यादिति
चेन्न । तत्राऽपि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरोधात् । न कार्यस्य
विशेषस्तत्प्रयुक्ततयोपलभ्यते, नापि कार्यसामान्यस्यान्यत् प्रयोजकं दृश्यत
इति चेत् । तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः ? कारणसा-
बोधनी ।
कार्यप्रयोजकत्वेनाभ्युपगमः, तर्हि तद्देव कार्येऽप्यनुपलभ्यमान एव कश्चिज्जातिभेदः स्यात्
यस्य वह्न्यादिकारणापेक्षा, न तु दृष्टधूमादिजातीयस्य वह्न्याद्यपेक्षेति शङ्कावकाशात् न
प्रतिबन्धनिवन्धनं तदुत्पत्तिः सिध्यति, तत्=कार्यलिङ्गकानुमानेनेति भावः । दृष्ट-इति ।
यदि धूमाद्यवान्तरजातिभेदे वह्न्यादेरुपयोगः, तर्हि दृश्यमानं धूमादिजातीयमहेतुकं स्यात्, ततः
कार्येऽवान्तरजातिशङ्कानवकाशेति । न इति । वह्नयादेर्धमावान्तरजातिभेदोपयोगेऽपि न धूमा-
दिजातीयस्याकस्मिकत्वविरोधः, तत्रापि वह्न्यादेरन्यदेव किञ्चिदनुपलभ्यमानं प्रयोजकं भविष्य-
तीत्यप्रामाणिकमेवाभ्युपगच्छतः किं नाम दुर्लभमिति भावः । न कार्यस्य विशेषः- इति । धू-
मादिगतविशेषो न वह्न्यादिप्रयुक्ततयोपलभ्यते, नापि कार्यमात्रस्य धूमादिजातीयस्यान्यत् प्रयोजकं
दृश्यते, तेनानुपलभ्यमानयोः प्रयोज्यप्रयोजकत्वकल्पनमेव विरोध इति । तत्किम्-इति ।
वह्न्यादिकारणगतो विशेषो धूमादिसामान्यप्रयोजको नोपलभ्यते । वह्नयादिविशेषस्य धूमादिप्र-
योजकत्वे वह्न्यादिसामान्यस्यान्यत्प्रयोजनं वक्तव्यमर्थक्रियाविरहिणः सत्त्वानुपपत्तेः । तच्च
नोपलभ्यते, तेन समानस्तादृशो विरोध इत्यनुपलभ्यमानोऽपि कारणगतो विशेषः शङ्किष्यते
प्रकाशः ।
भवत आकस्मिकत्वं स्यात् । तथा च कादाचित्कत्वव्याघात इत्यत आह । दृष्टेति । कारणं
विना कार्यस्योक्तदोषो, न तु दृष्टजातीयं विनेति तत्र कारणान्तरं स्यादित्याह । तत्रापीति ।
न कार्यस्येति । कारणविशेषप्रयोज्यं कार्यस्य वैजात्यं, दृष्टजातीयस्य च प्रयोजकान्तरं
योग्यानुपलब्धिबाधितमित्यर्थः । तत्किमिति । कुर्वद्रूपत्वमपि न कार्यं प्रति कारणतावच्छेदकं
दृष्टम् , न चोपस्थितकारणतावच्छेदकरूपस्य प्रयोज्यान्तरमिति तदपि तथेत्यर्थः । न चेष्टा-
पत्तिः । तेन रूपेणार्थक्रियारहितत्वात् त्वन्मते प्रामाणिकत्वं न स्यादित्यर्थः । अथ निश्चयेन
प्रकाशिका ।
तदपि तथेति ! कुर्वद्रूपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः । ननु यदि बीजत्वावच्छिन्नस्य
न प्रयोज्यान्तरं दृश्यते तदा मास्तु, अस्माकमिष्टमेव तदित्याशङ्कयाह । न चेष्टापत्तिरिति । कश्चितु
अस्तु बीजत्वमेवाङ्कुरप्रयोजकमित्याशङ्कायां न चेष्टापत्तिरिति पक्तिक्का तथा सति तेन रूपेण कुर्वत्त्वेन
प्रामाणिकत्वं न स्यादित्युत्तरप्रतीकार्थ इत्याह । विरोधोऽसामानाधिकरण्यम् । न च जातिसङ्कर-
मकरन्दः ।
तदपि तथेति । कुर्वद्रूपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः । न चेष्टापत्तिरिति ।
उपस्थितबीजत्वाद्येवाङ्कुरादिप्रयोजकमस्त्वित्यर्थः । तेनेति । बीजत्वादिनेत्यर्थः । तथा च ताह-
प्रवृत्त्योपयिकस्वरूपयोग्यात्मकाकारणतायां कार्यप्रसङ्गवारणे यथा • न विशेषस्तथाऽभेदेऽपि न
विशेष इत्यर्थः । न तदुत्पत्तिसिद्धिरिति । कारणत्वेन निर्णीतदृष्टजातीयकार्योत्पत्तिनिर्णय
इत्यर्थः । तथा च धूमसामान्यलिङ्गेन वह्नयनुमितेरपलापः । विशेषस्त्वनिर्णीत एवेति, न लिङ्गताव-
च्छेदकत्वयोग्य इति भावः । तत्प्रयुक्ततयेति । दृष्टजातीयकार्यप्रयोजकतया गृहीतस्य कल्पित-
वैजात्यवतः सकारणस्य प्रयुक्ततयेत्यर्थः । अन्यदिति । कल्पितविशेषवतः कारणादन्यदित्यर्थः ।
२४ न्या० कु०

१९६ व्याख्यात्रयोपेतप्रकाशबोधनीयुतन्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां
मानस्य वान्यत् प्रयोज्यान्तरं दृश्यते ? यतो विवक्षितसिद्धिः स्यात् । शङ्का तू-
भयत्रापि सुलभेति । कार्यजन्म-जन्माभ्यामुन्नीयत इति चेत् । न । सहकारिला-
भालाभाभ्यामेवोपपत्तेः । उन्नीयतां वा, कार्येषु शङ्किष्यते, निषेधकाभावात् ।
न हि धूमस्य विशेषं दहनप्रयोज्यं प्रतिषेद्धुं स्वभावानुपलब्धिः प्रभवति, कार्यै-
कनिश्चयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः । कार्यस्य चातीन्द्रियस्यापि
सम्भवात् । अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति ।
बोधनी ।
निषेधकाभावादित्याशङ्क्य सा तर्हि कार्यगतविशेषे सुलभेत्याह— शङ्का तु-इति । यद्वा, कार्य-
गतविशेषे शङ्कामात्रमेव न तु निश्चयोऽनुपलम्भादित्याशङ्क्य कारणगतेऽपि शङ्कामात्रमेवेत्याह-
शङ्का तु-इति । कार्य- इति । ननु मा भूत्कारणगतो विशेषः प्रत्यक्षः, तथापि न तत्र शङ्का-
मात्रं, किं तर्हि कुसूलस्थत्वालस्थयोः कार्यारम्भाणारम्भाभ्यामनुमीयतेऽस्ति वैजात्यमिति ।
न-इति । कार्यजन्माजन्मनोरन्यथासिद्धत्वान्न ताभ्यां वैजात्यं सिद्ध्यतीत्यभ्युपेत्याह—उन्नीय-
ताम्-इति । निश्चीयतां कारणगतो विशेषः, कार्यगतविशेषस्तु निश्चयाभावेऽपि शङ्क्योत्पद्यते,
साधकवत् बाधकस्याप्यभावाद् । अनुपलब्धस्यैव कारणगतस्य कल्पनादर्शनाच्च शङ्कोत्पपत्तेः
शङ्कामात्रेणापि प्रतिबन्धमूलं तदुत्पत्तिर्न सिध्यतीति भावः । कार्यगतविशेषं स्वरूपानुपलब्धिरेव
निषेत्स्यतीत्यत आह—न हि इति । किमिति न प्रभवति तत्राह—कार्य-इति । शङ्क्यमानस्य
कार्यगतविशेषस्यातीन्द्रियत्वेन कार्यलिङ्गेन निश्चेतव्यत्वात् कार्यानुपलब्ध्यैवानिश्चयोपपत्ते-
रिति । अस्तु तर्हि कार्यानुपलब्ध्या तत्प्रतिषेधोऽत आह—कार्यस्य इति । कार्यगतविशेषव-
तत्कार्यमपि किञ्चिदतीन्द्रियमस्तीति संभावनायां कार्यानुपलब्धिः, तं प्रतिषेधति—अत इति । अत
एव, यत एव स्वभावानुपलब्धिर्न प्रभवति अत एवेत्यर्थः । सन्ति हि षोडशानुपलब्धयः—
स्वभावानुपलब्धिः स्वभावविरुद्धकार्यानुपलब्धिः स्वभावविरुद्धव्याप्तोपलब्धिरिति चतस्रः, कार्या-
नुपलब्धितद्विरुद्धकार्यविरुद्धव्याप्तोपलब्धयश्चेति चतस्रः, तथा व्यापकनुपलब्धिस्तद्विरुद्धविरुद्ध-
प्रकाशः ।
नोच्यते, अपि तु शङ्क्यते तत्राह । शङ्का त्विति । ननु न कारणवैजात्यं शङ्क्यते, येन
तत्कार्येऽपि वैजात्यशङ्का स्यात् । किं त्वनुमानसिद्धम् । तथा हि यदि यः प्रागजनकः स
एवोत्तरकालमनुवर्तते तदा कथं ततः कार्यजन्म । जनकस्य वा तत्पूर्वं सत्त्वे कथं पूर्वमजनन-
मिति कार्यजननाजननाभ्यां पूर्वोत्तरयोर्वैजात्यमनुमीयत इति शङ्कते । कार्येति । जननाजन-
नयोरन्यथाऽप्युपपत्तेर्नोपलभ्यमानवैजात्यानुमानमिति परिहरति । सहकारीति । निषेध-
केति । साधकस्येव बाधकस्याप्यभावादित्यर्थः । नन्वनुपलब्धिरेव बाधिकेत्याह । न हीति ।
स्वभावानुपलब्धिः = योग्यानुपलब्धिः । वैजात्यस्यायोग्यत्वादित्यर्थः । कार्यैकेति ।
सतोऽपि वैजात्यस्य व्यञ्जकतत्कार्यानुपलब्धौ वाऽनुपलब्ध्युपपत्तेः । कार्यानुपलब्ध्या हि कारणं
न निश्चीयते, न तु तदभावो निश्चीयते व्यभिचारादिति भावः । ननु धूमकार्यदर्शनेऽपि न धूम-
वैजात्यं दृश्यत इत्यत आह । कार्यस्य चेति । धूमकार्यमैन्द्रियकमेवेत्यत्र नियामकाभावादती-
न्द्रियमपि तदस्तीति तत्प्रयोजकधर्मवैजात्यशङ्का स्यादित्यर्थः । अत एवेति । व्यापकानुपल-
ब्धिरपि न तन्निषेधिकेत्यर्थः । उक्तशङ्कया तदुत्तरस्याप्यनिश्चयेन व्यापकत्वानिश्चयादिति भावः ।
मकरन्दः
दोषापत्तौ तवापसिद्धान्त इति भावः । यद्वा कुर्वद्रूपत्वेनेत्यर्थः । तथा चानेन रूपेणार्थक्रियार-
हितत्वमभ्युपगमात् तव कुर्वद्रूपत्वं प्रामाणिकं न स्यादिति भावः । ननु शालिश्चकुर्वद्रूपपरयो-

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८७
एवं, विधिरूपयोर्व्यावृत्तिरूपयोर्वा जात्योर्विरोधे सति न समावेशः, समा-
विष्टयोश्च परापरभावनियमः, ऽन्यूनानतिरिक्तवृत्तिजातिद्वयकल्पनायां प्रमाणा-
बोधनी ।
कार्यविरुद्धव्याप्तोपलब्धयश्चेति चतस्रः । तत्र चानुपलब्धिकार्यप्रतिषेधसामर्थ्यादुपलब्धीनामप्य-
नुपलब्धिव्यवहारः । सर्वासामसां न कार्यगतातीन्द्रियविशेषनिषेधे सामर्थ्यम् । अतीन्द्रियेण सह
विरोधित्वकार्यकारणत्वव्याप्यव्यापकत्वानामाशक्यनिश्चयत्वादित्यर्थः । एवं वैजात्याङ्गीकारे कार्य-
लिङ्गकमनुमानं न सिध्यतीत्युक्तम् ।
इदानीमनुपलब्धिलिङ्गकं स्वभावहेतुकं च यथा न सिध्यति तथा दर्शयितुं भूमिकामारचयन्
वैजात्याभ्युपगमे बाधकान्तरमाह—एवम्-इति । यथातथा वा भवतु जातिस्वरूपं, सर्वथा
तु तस्य कुर्वत्त्वजातिभेदस्य बीजत्वेन सहैकस्यां व्यक्तौ न समावेशः संभवति । कुर्वत्त्वाकुर्वत्त्व-
योर्विरोधाद् यदि समावेशः स्यात्ततस्तस्य शालित्वं प्रति परत्वं वा स्याद् वृक्षत्ववत्, अपरत्वं
वा स्याच्छिंशपात्ववदिति । न चोभयमपि संभवति, परत्वे शालिजातीयं सर्वमपि कार्यं कुर्यात्,
अपरत्वे स्वशालिजातीयमङ्कुरं न कुर्यादिति भावः । अत्र परापरभूतयोर्जात्योरसमावेश
एव साध्यः, समाविष्टयोस्तु परापरभावः प्रसङ्गादुक्त इति । उत्तरस्मिन्साध्ये हेतुमाह-अन्यून-
इति । अनुवृत्ताकारावभासिनी हि प्रतीतिर्जातिसद्भावे प्रमाणम् । तस्याश्चैकयैव जात्योपपत्तौ न
तावत्स्वेव पिण्डेषु जात्यन्तरे प्रमाणमस्तीति । व्यावृत्तिरूपयोरपि जात्योः समावेशे परापरभाव
प्रकाशः ।
वैजात्ये जातिसङ्करं बाधकान्तरमाह—
एवमिति । विधिरूपयोरिति स्वमते, व्यावृत्तिरूपयोरिति परमते । विरोधः=परस्पराभा-
वसद्वृत्तित्वम् । कुर्वद्रूपत्वस्य शालित्वव्याप्यत्वे यवबीजे तदभावः । व्यापकत्वे कुशूलस्थशालौ
तदभावः स्यादिति परस्परव्यभिचारे तयोरेकत्र समावेशो न स्यादित्यर्थः । अन्यूनेति । पर्याय-
प्रकाशिका ।
स्थले तच्छङ्कितमत आह । विरोधः परस्परति । कुर्वद्रूपत्वस्येति । अङ्कुरकुर्वद्रूपत्वस्येत्यर्थः।
एकत्र समावेश इति । क्षेत्रपतितशालिबीज इत्यर्थः । ननु समाविष्टयोः परापरभावनियम
इति मूलमयुक्तं घटत्वकलशत्वयोर्व्यभिचारात् परापरभावस्य न्यूनाधिकवृत्तित्वरूपत्वादित्या-
शङ्कायां मानाभावेन तादृशजात्यभावप्रतिपादकं मूलमन्यूनेत्यादितत्र बाधकमपि हेतुत्वेन समुच्चि
मकरन्दः ।
विरोध एव नास्ति, सामानाधिकरण्यादित्यत आह । विरोध इति । पर्यायेति । सर्वत्र प्रवृत्ति-
निमित्तभेदसम्भवेनैकप्रवृत्तिनिमित्तकत्वाभावादिति भावः । अनुगतबुद्धिवलात्तेषु नियामकं सिद्धय-
ल्लाघवादेकमेव सिध्यतीति नान्यूननातिरिक्तव्यक्तिकजातिद्वयस्वीकार इत्यपि द्रष्टव्यम् ।
विरोध इति । यद्यप्यत्र विरोधो न सामानाधिकरण्याभावो, नापि परस्परात्यन्ताभाववद्वृत्ति-
त्वं, तयोर्व्याप्यव्यापकभावाभ्युपगमात् । तथाप्यन्यूननातिरिक्तव्यक्तिकव्यतिरिक्तत्वाभाव एव स
जात्योरिति । अनुगतप्रत्ययानु रोधेनाखण्डतया कल्पितयोरित्यर्थः । तेन तेषां जातिपरि-
भाषाऽभावेऽपि न क्षतिः । उपाधिश्च नाखण्डोऽनुगतः सप्तपदार्थवादिनामपि हीष्ट, इत्याशयः ।
विरोधे=परस्परपरिहारेण वृत्तौ सत्याम् ।

१८८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां
भावात् । व्यावत्र्त्यभेदाभावेन विरोधानवकाशे भेदानुपपत्तेः ।
बोधनी ।
एवेत्याह—व्यावर्त्त्य-इति । अपोह्यभेदेनापोहानां विरोधस्ततश्च तेषां भेद इत्यपोहवादः । तन्न
शब्दोच्छेदप्रसङ्गाद् बाधकाच्चेति भावः । प्रमाणाभावमेवाह । व्यावत्र्त्येति । यथा
प्रकाशः ।
वृक्षत्वशिंशपात्वयोर्व्यावर्त्त्यभेदाद्विरोधः, एकस्य ह्यवृक्षमात्रं व्यावर्त्त्यम्, अन्यस्य वृक्षविशेषोऽ-
पि पनसादिः । न तथा बुद्धित्वज्ञानत्वयोर्व्यावर्त्त्यभेद इत्यर्थः ।
ननु समाविष्टयोर्जात्योर्न परापरभावनियमः । घटत्वसुवर्णत्वयोर्व्यभिचारात् । न चोपष्ट-
म्भकपार्थिवभागवृत्त्येव घटत्वं, न सुवर्णवृत्तीति वाच्यम् । एवमपि काष्ठपाषाणघटादावप्रतीका-
रात् । नाऽपि मार्द्द एव घटे घटत्वम् , अन्यत्र तु तथाविधसंस्थानवत्त्वगुणयोगाद् गौणो घट-
व्यवहारः । मुख्यत्वस्य विनियन्तुमशक्यत्वात् । अथ संस्थानवृत्त्येव घटत्वं, न द्रव्यवृत्तीति
न तयोः समावेशः, संस्थानं हि अवयववृत्तिः संयोग एव । युक्तं चैतत् । कथमन्यथा तस्मिन्नेव
सुवर्णे तत्संस्थानसत्त्वासत्त्वाभ्यां घटतदभावव्यवहार इति । तन्न । तत्राप्यन्यतरकर्मजत्त्वादिना
सङ्करप्रसङ्गात् । गुणगतजातौ न साङ्कर्य्यदोष इति मतन्निर्बीजमेव ।
अत्राहुः । सुवर्णत्वादिव्याप्यं नानैव घटत्वम् । न चैवं सुवर्णादिघटेष्वनुगतव्यवहारो न
स्याद् , घटत्वस्य प्रत्येकविश्रान्तत्वेन व्यक्तिस्थानीयत्वादिति वाच्यम् । भिन्नजातीयघटेषु तादृ-
शसंस्थानवत्त्वेनोपाधिना तथा व्यवहारात् । तर्हि संस्थानवृत्त्येवान्यतरकर्मजत्वादिव्याप्यं नानैव
प्रकाशिका ।
नोति । पर्यायेति । व्यावर्त्त्यभेदाद्दु विरोध इति । व्यापकजातिसंगृहीतस्य कस्यचित्
प्रतिक्षेप एव व्याप्यजात्या तयोर्विरोध इति ध्येयम् । मुख्यत्वस्येति । मार्द्दघटमध्यस्थिते सौ-
वर्णघटमानयेति व्यवहारवत् सौवर्णघटमध्यस्थिते मार्द्दं घटमानयेति विशेषादिति भावः । तत्रा-
प्यन्यतरेति । संयोगकर्मजन्यतावच्छेदकजात्या सङ्कर इति भावः । गवाश्वाकारकरभितरतद्वस्तू-
पलम्भापत्तिर्जातिसङ्करे बाधिका न च रूपरसयोः साकारत्वं अवयवसंस्थानस्याकारत्वा-
दित्याशयेन गुणगतजातौ न साङ्कर्य्यदोष इति प्रवादस्तं निषेधति । इति मतं निर्बीजमे-
वेति । रूपरसात्मकवस्तुपलम्भापत्तेर्गुणगतजातावपि बाधकत्वादिति भावः । तादृशसंस्था-
नवत्त्वेनेति । संस्थानञ्च घटसमानाधिकरणमेकजातीयमेव, अन्यतरकर्मजत्वादिकन्तु तद्-
व्याप्यं नाना । तत्रानुगतव्यवहारस्यान्यतरकर्मजत्वादिन। संभवात् । न च संस्थानवृत्त्येकजातौ
मानाभावः घटोऽयं घटोऽयमिति नानाजातीयघटीयपरम्परासम्बन्धेनानुगतव्यवहारोपपादक-
त्वात् । न च तथा सति द्रव्यवृत्तिनानाजातेः सुवर्णत्वादिव्याप्यायाः स्वीकारे किं प्रमाणमिति
वाच्यम् । महाशीलो घट इति प्रयोगस्य साक्षात्सम्बन्धधर्मेणोपपत्तौ परम्परासम्बन्धनिमित्तक-
त्वाकल्पनात् । अत एव च घटपदस्य नानार्थत्वमप्यनन्यगतिकत्वात् । अन्यथाक्षादिपदेऽप्यन्या
न्यत्वं निमित्तमादायैकार्थत्वं किं न कल्प्यते तादृशी न प्रतीतिरिति तु प्रकृतेऽपि तुल्यम् ।
तर्हीति । यद्यपि संस्थानवृत्त्येकैव जातिरित्युक्तम् । तथापि जातित्रयस्वीकारेऽपि सुवर्णत्वादि-
मकरन्दः ।
इह विवक्षित इति बोध्यम् । न चोपष्टम्भकेति । समाविष्टत्वमेव नानयोरिति भावः । ननु
संस्थानवृत्तित्वेऽपि कथं न द्रव्यवृत्तित्वमत आह । संस्थानं हीति । संस्थानवृत्तित्वे युक्तिमाह ।
युक्तञ्चैतदिति । गुणगतजाताविति । तद्दोपताप्रयोजकस्य बीजस्य तुल्यत्वादिति भावः ।
तादृशेति । यद्यप्यवयवसंयोगात्मकसंस्थानं नावयवनि, तथापि परम्परासम्बन्धेन तद्वत्त्वं
बोध्यम् । अत एव तदेकार्यसमवायिद्रव्यत्वं तत्त्वमिति वक्ष्यतीति भावः । एवञ्च घटपदप्रवृ-

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८६
परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपि तथाभावप्रसङ्गात् ।
बोधनी ।
तावत्स्वेव पिण्डेषु अपोहद्वयानाधारेषु सत्सु कुतोऽपोहभेदः कुतस्तरां तन्निबन्धनो विरोधः
कुतस्तमां वापोहभेद इति । पूर्वसाध्यसिद्ध्यर्थमनिष्टप्रसङ्गमाह—परस्पर-इति । तथा
भावः=समावेशस्तस्माद्भिन्नायोरपरापरभूतयोः परस्पराभावाविनाभाविनोरेकत्र न समावेशः,
प्रकाशः ।
घटत्वमस्तु, तन्नानात्वस्यावश्यकल्प्यत्वात्, एतावता संस्थानविशेषान्वयव्यतिरेकानुविधानमपि
घटव्यवहारस्य सङ्गच्छत इति चेत् । न । महान् नीलो घटश्चलतीति परिमाणरूपविशेषकर्म-
सामानाधिकरण्यप्रतीतेः । न च संस्थाने गुणे तत्सम्भवः । यद्वा, संस्थानविशेषैकार्थसमवायिद्रव्य-
त्वमुपाधिर्घटत्वम् ।
ननु क्वचिदसमाशदर्शनादस्त्वनयोर्विरोध इत्याह । परस्परेति । विरोधे क्वचित्समावेशो
प्रकाशिका ।
व्याप्यनानाजातिस्वीकारापेक्षया लाघवमेवेति तथैवाशङ्कितम् । घटत्वमस्त्विति । साक्षात्स-
म्बन्धेनैव घट इति प्रतीतौ प्रकारोऽस्त्वित्यर्थः । महान्नील इति । तथा च महत्त्वादिसामाना-
धिकरण्यप्रतीत्यनुरोधेन द्रव्यवृत्त्येव घटत्वं नाना च, यदि च मार्त्तंसौवर्णघटसाधारणी प्रतीतिः,
तदा संस्थानवृत्त्येकजात्येति प्रथमपक्षाशयः, लाघवादुपाधेरेकस्यैव प्रवृत्तितिमित्तत्वं प्रतीतिप्रकारत्व-
ञ्चेत्याशयेन द्वितीयकल्पमाह । यद्वेति । अत्रापि दण्डादिजन्यतावच्छेदकत्वेन सिद्धानां जाती-
नां नापलापः, विजातीयसंस्थानस्यानुगमकत्वं प्रतीतौ प्रयोगे चेति परं भेदः । तत्रापि कपाल-
रूपादावतिप्रसक्तिरिति द्रव्यपदं तत्संस्थानोपरमानन्तरमुत्पन्ने तत्रैव द्रव्यान्तरेऽतिव्याप्तिवार-
णाय स्वसमानकालीनत्वं संस्थाने विशेषणं प्रवेशनीयमिति दिक् । नवीनास्तु मार्त्त एव घटे घट-
त्वमन्यत्र तादृक्संस्थानवत्त्वेन गौणः प्रयोग इति न जातिसङ्करनानार्थतादिः । न च विनिगमका
भावः । घटमानयेति निरुपपदघटपदप्रयोगान्मार्त्तस्यैव प्रतीतेः । अत एव पिष्टकमय्यो गाव
इत्यत्र लक्षणेति चिन्तामणिकृतः । न च प्रतीतिः सौवर्णादिसाधारणी कथमनुगतेति वाच्यम् ।
पिष्टकगवादावपि तुल्यत्वात् । यदि च साधारणी प्रतीतिरसिद्धैव सिद्धौ वा तत्तुल्यसंस्थानवत्त्वेनो-
पाधिनेति तदा प्रकृतेऽपि तुल्यं सौवर्णघटत्वान्वसत्त्वे मार्त्तं घटमानयेति विशेषणोपादानं
लाक्षणिकोयधशङ्कानिराशाय । पिष्टकादिगवादिसत्त्वे तद्व्यावर्त्तकविशेषणोपादानवत् ।
विनिगमकं च भूयः प्रयोगः पूर्वनिरुक्तं चेति वदन्ति । अस्त्वनयोर्विरोध इति ।
मकरन्दः ।
त्तिनिमित्तमपि स एवोपाधिरन्यथा नानार्थतापत्तेरिति ध्येयम् । नन्वेवं घटत्वस्य जातित्व एव
मानाभावः, कुतो नानात्वम् । अनुगतमत्यादिना हि तत् सिद्ध्यति, तद्विषयश्चोपाधिरेवेति कथं
तत्सिद्धिः । न चैवं तारत्वादिकमपि नानाजातिर्न स्यादिति वाच्यम् । उत्कर्षादेर्जातित्वनियमे
जातिसङ्करादनन्यगत्या नानात्वाभ्युपगमात् । तत्रानुगतोपाधेरपि तज्जातिघटितत्वाञ्चेत्यनुश-
यात्तथैव सिद्धान्तमाह । यद्वेति । संस्थानविशेषवत्त्वं नावयविनीति तदेकार्थसमवायित्व-
समावेशे इति । नन्वस्तु पृथिवीत्वघटत्वादिकमिव शालित्वयवत्वादिव्याप्यं नानैव
विजातीयाङ्कुरकुर्वद्रूपत्वं तत्र नोक्तदोषः परस्परपरिहारवत्त्वाभावात् । न चाङ्कुरकुर्वद्रूपत्वमेकं
प्रामाणिकमङ्कुरसामान्यार्थं बीजसामान्ये प्रवृत्त्यदर्शनेन तत्र सामान्याभावादिति चेन्न । शालीनां
वैजात्यस्य प्रत्यक्षसिद्धतया शाल्यङ्कुरार्थे शालिषु प्रवृत्तिदर्शनात् शाल्यङ्कुरकुर्वद्रूपत्वस्य शालित्वै-
जात्येन साङ्कर्यदोषान् । न च शालिवैजात्यव्याप्यं नानैव विजातीयशाल्यङ्कुरकुर्वद्रूपत्वमङ्कुरवै-

१६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां
सामग्रीविरोधान्नैवमिति चेत् , कुत एतत् ? परस्परपरिहारेण
बोधनी ।
समावेशे वा जगति विरोधोच्छेद एव स्यादिति भावः । शङ्कते—सामग्री इति । न हि गोत्वा-
श्वत्वयोरसमावेशे परस्परपरिहारवत्त्वं प्रयोजकं किन्तु तदभिव्यञ्जकव्यक्त्युत्पादकसामग्रीविरोधः,
तस्माद्विरुद्धयोः समावेशे नातिप्रसङ्ग इति भावः । गूढाभिसन्धिः सिद्धान्ती पृच्छति—कुत एतत्
इति । गवाश्वयोर्विरुद्धसामग्रीकत्वं कुतः प्रमाणादवगम्यत इति । इतर आह—परस्पर-इति ।
प्रकाशः ।
न स्यादन्यथाऽतिप्रसङ्ग इत्यर्थः । सामग्रीति । गोत्वाश्वत्वव्यञ्जकव्यक्तिसामग्र्योर्विरोधात-
योरसमावेश इत्यर्थः । कुत इति । एतद्=विरोधस्वरूपम् । सामग्र्योरेव विरोधः कुतो मानात्
सिद्ध इत्यर्थः । परस्तत्र मानमाह । परस्परेति । अतीन्द्रियसामग्र्योरन्योन्यं सहानवस्थान-
प्रकाशिका ।
शालित्वकुर्वद्रूपतयोरित्यर्थः । जिज्ञासाङ्गतिम्पाकरोति । विरोधस्वरूपमिति ।
मकरन्दः ।
मुक्तम् । कपालरूपादावतिप्रसङ्गवारणाय द्रव्यत्वम् । ननु संस्थानविशेषस्यानुगतत्वात् कथं
तद्घटितोपाध्यनुगमः ? । तद्विशेषत्वं हि घटावयवसंयोगत्वं वा, कपालद्वयसंयोगत्वं वा अन्यद्वा ?
नाद्यः । घटत्वस्याननुगमात् । उक्तोपाधिनेव तदनुगमेऽन्योन्याश्रयात् । नापि द्वितीयः । घट-
त्ववत् कपालत्वस्याप्यभावात् । तत्र तत्राप्येवमनुगमकोपाधिगवेषणे घटत्वधीस्तावद्विषयशत-
भारमन्थरा स्यात् । नान्त्यः । तदनिरुक्तेः । न च जातिविशेष एव तथेति वाच्यम् । अन्य-
तरकर्मजत्त्वादिना सङ्करप्रसङ्गात् । एवञ्चाथकल्पेऽपि तादृक्संस्थानवत्त्वेन कथमनुगम इति ।
न चैकव्यक्तिसंस्थानसदृशसंस्थानवत्त्वेनानुगम इति वाच्यम् । कस्य चित् का चिद्व्यक्तिर्बुद्धिवि-
षयः, कस्य चित् का चिदिति सकलानुगतबुद्धिविषयानुगतोपाध्यभावात् । अत एवाथकल्पे एक-
जातीयघटसंस्थानसदृशसंस्थानवत्त्वेनानुगम इत्यपास्तम् । अत्राहुः । आद्यकल्प एव साधुः ।
अनन्यगत्या घटपदस्य नानार्थत्वम् , अक्षादिपदवत् । उक्तोपाधेरनुगतत्वेऽपि तत्प्रकारकप्रतीतेः
शाब्द्याः सन्दिग्धत्वेन नानार्थत्वस्यैवोचितत्वात् । अन्यथा तावदन्यतमत्वस्यानुगतोपाधिसत्त्वेऽ-
क्षादिपदेऽपि तथात्वं न स्यात् । मार्त्तसौवर्णादिसाधारणी यद्यनुगतधीरस्ति, तदा तद्वेव तत्पदवा-
च्यतयाऽस्तु । तद्धटजातीयसदृशसंस्थानवत्त्वेनैव वा तस्यानेकस्यानुगतत्वसम्भवात् , विनि-
गमकाभावात् , तत्प्रकारकप्रतीत्यभावाच्च तन्न तत्प्रवृत्तिनिमित्तमिति नानार्थत्वमिति । केचित्तु
मार्त्त एव घटे घटत्वमन्यत्र तथाविधसंस्थानगुणयोगाद् गौणस्तद्व्यवहारः । मुख्यत्वे विनिगमक-
स्तु निष्पाधिप्रयोग एव, घटमानयेत्युक्ते मार्त्तव्यवहारात् , सुवर्णादिपदसमभिव्याहारात् सौव-
र्णादिव्यवहारः । अन्यथा प्रयोगस्य शक्याशक्यसाधारणत्वेन मुख्यत्वनिर्णयः क्वापि न स्यात् ।
अत एव सौवर्णादिगवादौ गोपदमुख्यम् । तदुक्तं, विष्टकमय्यो गाव इत्यत्र गवाकृतिग्रह-
शाक्तौ लक्षणेति । ननु शाब्दो व्यवहारो यथातथाऽस्तु । सौवर्णादिसाधारणी प्रत्यक्षाऽनुगतधीः
कथमिति चेन्न । सौवर्णादिगवादावपि तुल्यत्वात् । यदि च तत्र तत्साधारणी गवाकारानुगत-
मतिरसिद्धा, सिद्धौ वा तत्तुल्यसंस्थानवत्त्वोपाधिविषया, तदा प्रकृतेऽपि तुल्यम् । अन्यथा घटं
दद्यादित्यत्र वेदे सौवर्णामार्त्तादिविषयतयाऽनध्यवसायः स्यात् । सौवर्णादिसत्त्वे मार्त्तं घटमानयेति
तद्व्यावर्त्तकविशेषणोपादानं लाक्षणिकान्वयबोधशङ्कानिराशाय । सौवर्णादिगवादिसत्त्वे गवि तद्व्या-
वर्त्तकविशेषणोपादानवदिति वदन्ति । जिज्ञासाङ्गतिम्पाकरोति, विरोधस्वरूपमिति ।
जात्यं फलवैजात्यानुमेयं प्रत्यक्षञ्चेति वाच्यम् । शालिजाजादिकार्यवैजात्यस्य प्रामाणिकतया तत्कु-

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १६१
सर्वदा व्यवस्थितरिति चेद् , नेदमप्यध्यक्षम् । एकदेशसमावेशेन तु सामग्रीस-
मावेशोऽप्युन्नीयते ।
यावत्तत्कार्ययोः परस्परपरिहृतस्वभावत्वादिति चेत् । तर्हि कम्पशिशपयोः
बोधनी ।
सामग्र्योः परस्परपरिहारस्थितेर्विरोधोऽवगम्यत इति । नेदम्-इति । सामग्र्योः परस्प-
रपरिहारेणावस्थानम् । इदं न प्रत्यक्षं सामग्र्योर्नित्यं कार्यकल्पत्वादिति, प्रत्युत
सामग्रीसमावेश एवानुमातुं शक्यत इत्याह । एकदेश-इति । त्वन्मते गोत्वाश्वत्वयोरेकस्यां
व्यक्तौ समावेशात् सामग्र्योरपि समावेशसंभवोऽनुमीयेत यावद् बाधकदर्शनं तावदिति । यद्वा,
विरुद्धयोरसमावेशः सामग्रीविरोधादिति वदता विरुद्धयोरेकदेशसमावेशाङ्गीकाराद् विरुद्धयोरपि
सामग्र्योः समावेशसंभवोऽनुमीयत इत्यर्थः । शङ्कते-तत्कार्ययोः-इति । न वयं कार्ययोः
परस्परपरिहारेण स्थितेः सामग्र्योः परस्परपरिहारस्थितिं कल्पयामः, येन कार्ययोः समावेशसं-
भवात् सामग्रीसमागमोऽपि कल्प्येत, किन्तु सामग्रीद्वयकार्ययोर्गवाश्वयोः परस्परपरिहृतस्वभा-
वत्वादितरेतराभावत्वादिति यावत्, अस्ति ह्येकदेशसमाविष्टयोरपि परस्परपरिहृतस्वभावत्वमिति
भावः । गूढामिसन्धिमुद्घाटयन्नाह-तर्हि=इति । यदीतरेतराभाववत्त्वेन गवाश्वयोः सामग्रीवि-
रोधादसद्भावेश इति कल्प्यते तर्हि कम्पशिशपयोरप्यसमावेशः स्यात् । कम्पशब्दश्चात्र कम्प-
रूपार्थक्रियाकारिणं शिशपावान्तरजातिविशेषमाह, तेनायमर्थः कारणवैजात्यमभ्युपगच्छता ह्यक-
प्रकाशः ।
नियमो नासर्वज्ञाध्यक्षगम्य इत्याह । नेदमिति । प्रत्युत सामग्र्येकदेशकालदिगादिरूपसमावेशेन
यदेव गोरश्वस्य च कारणं दृष्टं, तस्यैव पशुजनकत्वमिति स्वरूपेण गवाश्वसामग्र्योरप्येककार्य-
जनकत्वरूपः समावेश एव कल्प्यत इत्याह । एकदेशेति । कार्ययोरिति । कार्ययोर्विरोधा-
तत्सामग्र्योर्विरोधः कल्प्यत इत्यर्थः । कम्पेति । सौगतैः कर्म्मण आश्रयभिन्नस्यास्वीकारात्
कम्पत्वशिशपात्वजात्योर्न समावेशः स्यात् । चलपिप्पले निश्चलशिशपायाञ्च परस्परपरिहारेण
प्रकाशिका ।
गरश्वस्यो च कारणमिति । एवञ्च कालादिदृष्टान्तेन गोकारणत्वेन हेतुना गवासाधारणकारणस्याप
श्वजनकत्वमनुमेयमिति भावः । पशुजनकत्वम् = गोरूपपशुजनकत्वमित्यर्थः । यद्वा पशुजनकत्वम् =
पशुजातीयजनकत्वम् । तथा चैकजातीयकार्यजनकत्वेनैककार्यजनकत्वमपि कल्प्यमिति भावः ।
मकरन्दः ।
प्रत्युतेति । उभयसामग्र्येकदेशासाधारणकारणकालदिगादेः समावेशेन परस्परसाहित्येनैक
कार्यजनकत्वेन दृष्टान्तेन तदुभयासाधारणकारणयोरप्येकपशुजनकत्वं स्यात् । तथा च तदुभयसा-
मग्र्या अप्युक्तः समावेशः स्यात् । सामग्र्याः साधारणसाधारणकारणत्मकत्वादित्यर्थः ।
यद्वा, पशुजनकत्वं पशुजातीयजनकत्वम् । तथा च यथा एकजातीयजनकत्वं तथैककार्यजनक-
त्वमपि स्यादित्यर्थः । गोत्वाश्वत्वयोरिति । एवमुपाधिसान्कर्यमपि न दोषः स्यात् । परस्प-
रात्यन्ताभावसमानाधिकरणोपाध्योः समावेशे विरुद्धोपाध्योरपि सङ्करशङ्कयाऽन्यतरेणाऽन्यतरा-
भावानुमानं न स्यादिति तुल्यत्वादिति प्रत्यक्षप्रकाशे विपश्चितमनुसन्धेयम् ॥ १६ ॥
र्वद्रूपत्वस्य शालिवैजात्येन साङ्कर्यस्य दुर्वारत्वादिति भावः । सर्वदेति । सामग्रीति शेषः ।
नेदमप्यध्यक्षमिति । व्यवहितदेशकालादेरप्रत्यक्षत्वेनोक्तनियमस्याग्राह्यत्वादित्यर्थः । ए-
कदेशसमावेशेनेति । सामग्र्येकदेशकालादृष्टेश्वरादिसमावेशेनेत्यर्थः । तथा चाश्वज-
निका सामग्री गोजनिका अश्वकारणत्वात् कालादृष्टादिवदित्यनुमानात् समावेशसिद्धिः स्यादिति
भावः । कार्ययोः = गवाश्वाद्योः । परस्परेति । गोः स्वभाव एवायं यदश्वत्वपरित्यागेनैव

१६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां
परस्परपरिहारवत्योर्न समावेशः स्यात् । दृश्यते तावदिदमिति चेत् । गोत्वाश्वत्व-
योरपि न दृश्यते इति का प्रत्याशा ? तथा च गतमनुपलब्धिलिङ्गेनाऽपि । क्वचिदपि
बोधनी ।
म्पकारिणः शिंशपात्वात् कम्पकारिणो वैजात्यमभ्युपगन्तव्यम् , ततश्च कम्पजनकजनकयोः
शिंशपातदवान्तरविशेषयोरसमावेशप्रसङ्गः । तयोरपि परस्पराभावत्वादिति । यद्वा, कार्ययोः
परस्परपरिहारेण स्थितेः सामग्रीविरोध इति तत्कार्ययोरित्यनेनाशङ्कय यदि क्वचित्परस्परपरिहार-
दर्शनेन सामग्रीविरोधमुच्चीय कार्ययोः सर्वदा सर्वत्रासमावेशः कल्प्येत तर्हि कम्पशिंशपयोः कदा-
चिदसमावेशदर्शनात् सर्वदा सर्वत्रासमावेशप्रसङ्ग इति परिहारमाह-तर्हि-इति । दृश्यत इति ।
परस्परपरिहारेऽपि कम्पशिंशपयोः समावेशो दृश्यते न तु गोत्वाश्वत्वयोरिति नाप्रसङ्गाति-
प्रसङ्गाविति । गोत्वाश्वत्वयोरिति । परस्परपरिहारवतोरपि क्वचित्समावेशदर्शनादत्रापि तत्सं-
भावना दुष्परिहरेति । एवं तावज्जनकजनकयोः समावेशाङ्गीकारे सर्वत्र गवाश्वादिविरुद्धसमा-
वेशसंभावना निष्प्रत्यूहं प्रवर्तेत इति स्थितम् । एवं भूमिकामारचय्य तत्र विवक्षितमनुमाना-
भावं निवेशयति-तथा च-इति । कार्यलिङ्गवदनुपलब्धिलिङ्गेनापि गतमिति । तथा चेति
परामृष्टं हेतुं स्पष्टयति-क्वचिदपि-इति । एषा हि बौद्धपरिभाषा अनुपलब्धिरसद्व्यवहारयो-
ग्यत्वं प्रतिबन्धबलेनानुमापयति । प्रतिबन्धश्चानुपलब्धेः सद्ब्यवहारविरोधात्सिद्ध्यति यथाह
न गोत्वमस्ति अश्वत्वादिति गोत्वविरुद्धाश्वत्वोपलब्धिरूपा गोत्वानुपलब्धिर्गोत्वाभावं गमयतीति ।
तत्र यदि विरुद्धयोरपि समावेशः स्यात् तदानुपलब्धेरपि सद्ब्यवहारयोग्यत्वसमावेशसंभवेना-
सद्ब्यवहारयोग्यतया प्रतिबन्धासिद्धेर्गतमनुपलब्धिलिङ्गकमिति । अत एव स्वभावहेतुरपि निरस्त'
प्रकाशः ।
स्थितेरितिमर्थः । दर्शनादर्शनकृत एव समावेशासमावेश इत्याह । दृश्यत इति । यथा तयोर-
न्योन्यपरीहारस्थितयोरपि क्वचित्समावेशस्तथा तादृशयोर्गोत्वाश्वत्वयोरपि समावेशः स्यादित्या-
शङ्क्येतेत्याह । गोत्वेति । गोत्वाश्वतवयोः समावेशे दूषणमाह । तथा चेति । गोत्वाश्व-
त्वयोः समावेशेन विरोधासिद्धौ गोत्वस्याश्वत्वविरुद्धस्योपलब्ध्याऽश्वत्वाभावानुमानं न स्यात् ।
तथा च कार्यलिङ्गकमनुमानं गतमिति प्रागुक्तं, सम्प्रत्यनेनापि गतमित्यर्थः । क्वचिदपीति ।
अन्यत्र समावेशसंशयादिति भावः । एवं च वृक्षं विना शिंशपाऽनुपलब्धिरूपविपक्षबाधकनिश्चयं
शिंशपाया वृक्षस्वभावत्वमपि न निश्चीयेत । शिंशपात्वमपि वृक्षत्वं व्यभिचरेदिति शङ्कायाः स-
जायते । अश्वस्याप्ययं स्वभावो यद्गोत्वपरिहारेणैव जायत इति स्वभावादेव यावत्कार्ययोर्धर्मपरि-
हारनियम इति कुतो धर्मयोः समावेशसम्भव इति भावः । परिहारवत्योरिति । परिहारः
परस्परधर्मयोः कम्पत्वशिंशपात्वयोर्बोध्यः । समावेशः स्यादिति । न च तयोरसमावेशः कम्प
त्वस्य क्रियाधर्मत्वादिष्ट इति वाच्यम् । गुणक्रियाद्रव्याणां भेदस्य तैरनभ्युपगमेन कम्पात्मकशिं-
शपालक्षणक्षणिकव्यक्तौ समावेशस्य सम्भवादिष्टापत्तेरयोगात् ।
कम्पत्वशिंशपात्वयोः समावेशदर्शनात् परस्परपरिहारो न स्वभावः कम्पशिंशपयोः किं तु
सामग्रीसमावेशासमावेशनिबन्धनः । गवाश्वयोस्तु स्वभाव एव समावेशदर्शनात् स्वभावत्यागो
न कस्यापीष्ट इति शङ्कते । दृश्यत इति ।
मनुपलब्धिलिङ्गेनापीति । अनुपलब्धिलिङ्गज्ञापकं यन्न तथा चानुपलब्धिमूलकेनेत्यर्थः ।
गोत्वेनाश्वत्वाभावानुमाने विरोधग्रहो मूलम् तत्रापि गोत्ववत्यश्वत्वानुपलब्धिर्मूलमिति भावः ।

प्रथमस्तबके ] क्षणभङ्गनिरकरणम् । १६३
विरोधासिद्धेः । ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः ।
नन्वस्ति तत् । तथा हि । वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री, सा,
वृक्षमतिपत्य भवन्ती स्वकारणमेवातिपतेत् । एवं, शाखादिमन्मात्रानुबन्धी वृक्ष-
व्यवहारः तद्विशेषानुबन्धी च शिंशपाव्यवहारः, स कथं तमतिपत्याऽऽत्मानमा-
सादयेदिति चेत् । एवं तर्हि शिंशपासामग्र्यन्तर्भूता चलनसामग्री, ततस्तामति-
पत्य चलनादिरूपता भवन्ती स्वकारणमेवातिपतेत् । तथा, शाखादिमद्विशेषानु-
बन्धो शिंशपाव्यवहारस्तद्विशेषानुबन्धी च चलनव्यवहारः । स कथं तमतिपत्या-
त्मानमासादयेदिति तुल्यम् ।
बोधनी ।
इत्याह-ततः-इति ।
तादात्म्येन प्रतिबद्घो हेतुः स्वभावः, यथा शिंशपात्वं वृक्षत्वस्य । कचिदपि विरोधासिद्धाव-
वृक्षेऽपि शिंशपात्वसमावेशसम्भवात्तस्य प्रतिबन्धो नास्तीति । स्वभावहेतोर्विपक्षे बाधकमशङ्कते-
ननु-इति । वृक्षसामग्र्यन्तर्भूता शिंशपासामग्री तदविनाभूता तत्कारणिकेति यावत् । ततश्चा-
वृक्षे वृक्षसामग्र्यभावेन स्वभावसामग्र्यभावाच्छिंशपा न भवति । तेनावृक्षलक्षणे विपक्षेऽपि
शिंशपात्वस्य सामग्र्यभावो बाधकमित्यर्थः । शिंशपाव्यवहारेण वृक्षव्यवहारे साध्येऽप्येतदेव
विपक्षे बाधकमित्याह-एवम्-इति । यदि च शिंशपाव्यवहारो वृक्षव्यवहारमतिपतेत् तत-
स्तयोः सामान्यविशेषभावो न स्यादिति भावः । यद्यप्यत्र कचिदपि विरोधासिद्धौ शिंशपातद्व्य-
वहारयोर्वृक्षतद्व्यवहारातिपातेऽपि न विरोध इत्यपि परिहारः संभवो तथापि परिहारवैभवाद-
न्यथा परिहरति-एवं तर्हि-इति । एवंविधस्य विपक्षे बाधकस्य तुल्यत्वाच्छिंशपात्वावान्तरजा-
तिविशेषेण कम्पकारित्वेन शिंशपात्वानुमानं तद्व्यवहारेण शिंशपाव्यवहारानुमानं प्रसज्येत । न
च तच्छक्यं शिंशपात्वानन्तर्भूतस्य पलाशादेरपि कम्पजनकत्वादिति ।
प्रकाशः ।
स्त्वादित्याह । तत इति ।
विपक्षे बाधकान्तरमाह ।
नन्वस्तीति । तद् = विपक्षे बाधकम् । शिंशपात्वेन वृक्षत्वं साध्यं, वृक्षव्यवहारो वा ?
उभयत्र कार्यकारणभावो विपक्षे बाधक इत्यर्थः । तथा च चलपत्रता शिंशपात्वं, तद्व्यवहारश्च
शिंशपाव्यवहारं न व्यभिचरेदित्याह । एवं तर्हीति । न च शिंशपासामग्र्यन्तर्वर्त्तिन्येव चल-
पत्रतासामग्री, किन्तु तद्भिन्नैवेत्याह ।
ततो विपक्षे बाधकादिति । यद्वान्वयव्यतिरेकेण कार्यकारणभावः शिंशपावृक्षसामग्र्यो
र्गृहीतः, स च सहकारिनियमानादरेण त्वया तिरस्कृतः कुर्वद्रूपत्वेनातीन्द्रियेण कार्यदर्शनैक-
समधिगम्येन कारणता चावृक्षसामग्र्याः कदाचित् क्वचिच्छिंशपोत्पत्तिदर्शनसम्भावनयाऽवृक्षसामग्री
साधारणतया सम्भाविता सत्यवृक्षमूलभूतामपि शिंशपां सम्भावयतीत्यत इति ततः शब्दार्थः ।
उक्तयुक्त्या विरुद्धजातीनां समावेशशङ्कायां कार्यकारणभावमात्रोच्छेदसम्भावनात् इति चार्थः ।
स्वभावहेतुरिति । वृक्षत्वानुमापकत्वेन सम्प्रतिपन्नस्य वृक्षस्वभावशिंशपात्वस्य व्यभिचार-
शङ्कयाऽनुमापकत्वासम्भवात् ।
शिंशपेति । शिंशपादीत्यर्थः । चलनादिसामग्रीति । त्वन्मतप्रसिद्धेति शेषः । अति-
पत्येति । शिंशपात्मकचलनस्थले प्लक्षसामग्र्या प्लक्षात्मकचलनस्थले शिंशपासामग्र्या अति-
पतनेऽपि यथा चलनरूपताया आत्मलाभः, तथा वृक्षसामाग्र्यतिपातेऽपि शिंशपाया आत्मलाभः
२५ न्या० कु०

१६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां
नोदनाद्यागन्तुकनिबन्धनं चलनत्वं, न तु तद्विशेषमात्राधीनमिति चेत् । यदि
नोदनादयः स्वभावभूतास्ततस्तद्विशेषा एव, अथास्वभावभूतास्ततः सहका-
रिण एव, ततस्तानासाद्य निर्विशेषैव शिंशपा चलनस्वभावानारभते इति,
तथा च कुतः क्षणिकत्वसिद्धिः ? । स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भव-
न्तीति चेत् । एवन्तर्हि वृक्षसामग्र्यामागन्तुकसहकार्यनुप्रवेशादेव शिंशपाऽपि
जायते इति न कश्चिद्विशेषः । एवमेतत्, किन्तु शिंशपाजनकास्तरुसामग्रीमुपा-
दायैव, चलनजनकास्तु न तामेव किन्तु मूर्त्तमात्रम्, तथा दर्शनादिति चेत् ।
बोधनी ।
नोदनादि-इति । यथा वृक्षसामग्रीविशेषः शिंशपासामग्री, नैवं शिंशपासामग्र्यन्तर्भूता कम्प-
सामग्री, किन्तु नोदनाभिघाताद्यागन्तुकहेतुकत्वाच्चलत्वस्य शिंशपात्वातिपातेऽपि न कश्चिद्विरोध
इति । एतद्विकल्प्य निराचष्टे-यदी-इति । किं नोदनादयो भवन्मतानुरोधेन शिंशपास्वभावभूता
भवेयुः, अस्मन्मतानुरोधेनास्वभावभूता वा ? पूर्वत्र शिंशपाविशेषा एव नोदनादयः, अशिशपायाः
शिंशपास्वभावत्वायोगात्; तत्र च पूर्वोक्तं शिंशपातुल्यत्वं तदवस्थमेव । उत्तरत्र कम्पजनने
शिंशपायाः सहकारिणो नोदनादयः स्युरिति । सन्तु सहकारिणः का नो हानिरित्यत्राह-ततः-
इति । निर्विशेषैव जातिभेदं व्यक्तिभेदं विनेति यावत् ; चलस्वभावान्=चलनात्मकान् स्वभा-
वान् धर्मान्, चलनात्मिकाः क्रिया इत्यर्थः । पुनः शङ्कते-स्वभावभूताः-इति । स्वभावभूताः=
शिंशपायाः स्वभावभूता एव नोदनादयः ते चागन्तुकनोदकादिसहकारिसंनिधानाधीनजन्मानः,
ततश्चागन्तुकसहकार्यनुप्रवेशाच्चलनजननस्वभावं शिंशपान्तरं जायत इति क्षणिकत्वं सिद्ध्यति,
सिद्ध्यति चाशिंशपाया अपि चलद्रूपत्वं नोदनाद्यागन्तुकसहकारिणां पलाश्यादावपि संभवादिति ।
तर्हि शिंशपाया अपि वृक्षातिपातः स्यादित्याह-एवं तर्हि-इति । शङ्कते-एवम्-इति । एव-
मविशेषे सत्येतत्त्वदुक्तं स्यात् , किंतु विशेषोऽस्तीत्यर्थः । यथा वृक्षसामग्र्यामागन्तुकशिंश-
पाबीजत्वादिसहकार्यनुप्रवेशात् शिंशपोत्पत्तिरित्येतत्सत्यं, तथाप्ययं विशेषोऽस्तीति तमेव विशे-
षमाह-शिंशपा-इति । उपादायैव शिंशपा जनयन्तीति शेषः । न तामेव शिंशपासामग्री-
मुपादायैव चलत्वं जनयन्ति किन्तु मूर्त्तमात्रमुपादाय, पलाशादीनामपि कम्पदर्शनात् । शिंश-
पासामग्री तरुसामग्रीं न व्यभिचरति, चलसामग्री तु शिंशपासामग्रीं व्यभिचरतीति विशेष
प्रकाशः।
नोदनेति । नोदनादयः किं {शिंशपाविशेषा एव, तद्विशेषजनका वा ? द्वयमपि नास्ती-
त्याह । यदीति । तथा च तेषां तथाभूतानामेव शिंशपान्व्यभिचारे शिंशपा वृक्षं व्यभि-
चरेदिति भावः । ननु सदृशरूपेषु उपादानकारणेषु सत्सु सम्भूयमात्रकारिणो नोदनादय
इत्यत आह । अथेति । भावस्य समर्थैकस्वभावत्वेऽपि कार्यकारणकरणयोः सहकारिलाभा-
लाभप्रयुक्तत्वात् प्रसङ्गतद्विपर्यययोरभावे प्रतिबन्धासिद्धेरनुमानात् कुतः क्षणिकत्वमित्याह ।
तथा चेति । शिंशपायाः स्वभावभूता अपि नोदनादय आगन्तुकसहकार्यनुप्रवेशाज्जाय-
मानाः शिंशपां विना भविष्यन्तीत्याह । स्वभावति । एवं वृक्षस्वभावभूता शिंशपाऽऽ-
गन्तुकसहकारिवशेन जायमाना वृक्षं विनाऽपि स्यादिति गूढाशय आह । एवं तर्हीति । आश-
यमविद्वान् शङ्कते । एवमिति । किन्विति । आगन्तुका अपि तद्व्याप्या एवेत्यर्थः ।
प्रकाशिका।
नोदनादय इति । संयोगस्यानङ्गीकारात् सकम्पशिंशपापूर्ववर्त्तिशिंशपा नोदनपदेनोच्यते ।