न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 593, कुल 608 में से
संदर्भ में पढ़ेंपंचमस्तवके] ईश्वरसाधनम्। ५६१
तत्र विषयो धातुना भावनाऽऽख्यातमात्रेण, शेषन्तु तद्विशेषेण लिङा इत्येव-
मिष्टाभ्युपायतायामधिगतायामन्वयबलात् तद्विषयस्येष्टसाधनत्वावगतिरिति कर्त्त-
व्यतैकार्थसमवायिनोष्टाभ्युपायता लिङः प्रवृत्तिनिमित्तमित्युक्तम्।
प्रकाशः।
नत्वात्तयैवेच्छा, तथा कृतिसाध्यत्वेन पाकस्येष्टसाधनत्वात् तथैवेच्छासत्त्वात्। अन्यथा तत्तदुपाय-
साध्यत्वेनेच्छा तत्तदुपायसाध्यत्वप्रकारकतात् स्यादित्यनन्तकारणकल्पनापत्तिः। मम तूपायेच्छा-
यामिष्टसाधनत्वज्ञानमेव हेतुः। अत एवैकप्रत्ययाभिधेयत्वप्रत्यासत्तेरन्तरङ्गतया विधिप्रत्ययाभिधेयेष्ट-
साधनत्वस्य कृतावेवान्वयो न प्रकृत्यर्थे, तथैव चिकीर्षितज्ञानजनकत्वात्। प्रकृत्यर्थस्य च
कृतौ विधेयत्वेनान्वयः। उच्यते-पाकस्य वह्निसाध्यत्वेन कृतिसाध्यत्वेन वा नेष्टसाधनत्वं
'गौरवात्, किन्तु पाकत्वेन, स च कृतिं विना नेत्यन्यदेतत्। कथं तर्हि वह्निना साधया-
मीतीच्छा। इष्टसाधनत्वेन ज्ञाते यत्र यत्साध्यत्वं ज्ञायते, तत्र तत्साध्यत्वेनेच्छासत्त्वात्।
यथा हीष्टसाधनत्वेन ज्ञाते वह्निसाध्यत्वज्ञानाद्वह्निना पाकं साधयामीतीच्छा, तथा कृतिसाध्य-
त्वेन ज्ञाते पाके इष्टसाधनत्वज्ञानात् कृत्या साधयामीतीच्छा। तथा चेष्टसाधनत्वेन कृतिसाध्यत्वेन
च ज्ञाते कृतिसाध्यत्वप्रकारिकेच्छा न त्विष्टसाधनताज्ञानमात्रादिति कृतिसाध्येष्टसाधनता विधिः।
नित्ये च ज्ञानादौ यथेष्टसाधनताज्ञाने सत्यपि न नित्यताक्षतिः, तथा निपुणतरमुपपादितं द्वितीया-
ध्यायप्रकाशे इति संक्षेपः।
तत्रेति। पचतीत्यादौ भावनाविषयः पाकादिर्धातुनोच्यते, भावना त्वाख्यातेनेत्यर्थः।
शेषमिति। यजेतेत्यादौ लिङा भावनाविषयस्य यागादेरिष्टसाधनत्वमुच्यते इत्यर्थः। अन्वयब-
लादिति। प्रकृतिसमभिव्याहारादित्यर्थः। तद्विषयस्येति। इष्टसाधनीभूतस्य भावनावि-
षयस्येत्यर्थः। भावनाया इष्टसाधनतया तत्कारणको यागोऽपि तथेति भावः। कर्त्तव्य-
तैकति। यद्यपि पूर्वं तदर्थो भावनादिस्तद्धर्म. इष्टसाधनता वेत्यनेन भावनाधर्म एवष्टसाधनत्वं लिङर्थ
इति विकल्पितम्, अधुना च भाव्यस्योच्यते इति विरोधः; तथापि तत्रादिपदेन भाव्यस्याप्य-
भिधानाददोषः।
प्रकाशिका।
इत्यर्थः। इति संक्षेप इति। इदमत्राभिसंहितम्-सुखचिकीर्षायां चिकीर्षातावच्छेदकेन कृतिसाध्य-
ताज्ञानं कारणत्वेन क्लृप्तम्, इष्टीच्छायान्तूपायेच्छात्वावच्छेदेनेष्टसाधनताज्ञानं कारणत्वेन क्लृप्तमित्युभ-
यावच्छेदकाधिकरणपाकचिकीर्षायामुभयं कारणमिति फलोपाधानाय प्रवृत्तस्य लिङ्गपदस्योभयशक्यत्व-
मित्यन्यत्र विस्तरः। एकत्रैवाख्यातत्वपुरस्कारेण भावनालिङ्पुरस्कारेण इष्टसाधनता वाच्या तदुभयसं-
संसर्गस्तु वाक्यार्थतया भासत इति मतनिराकरणाय विषयभेदमाह पचतीत्यादाविति। अन्वय-
विषयतानियामको नान्वय इत्यत आह प्रकृतिसमभिव्याहारादित्यर्थ इति। भावनाया इष्ट-
साधनतयेति। यद्यपि यागो न भावनाकारणं किन्तु विपरीतं तथापि तत्कारणमिति बहुव्रीहिः।
करणपदे विषयविवक्षा वेति भावः। यागोपि तथेति। यागद्वारेव भावनाया इष्टसाधनत्वादिति
मकरन्दः।
भावनाया इष्टसाधनतयेति। यद्यपि भावनाकारणं न यागः प्रत्युत भावनैव यागजनिका,
तथापि तत्कारणेत्यत्र बहुव्रीहिः, कारणपदेन विषयविवक्षा वेति भावः।
टिप्पणी।
इष्टाभ्युपायता लिङः प्रवृत्तिनिमित्तमिति। आचार्यमण्डनमिश्राणामप्येतदेव सम्मतम्,
तदुक्तं तैः-पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः। प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम्॥ इति।
७१ न्या० कु०