सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 472, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 472

४४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां
चेत्। नन्विदमेव तावत्। अन्यदप्युच्यमानमाकर्णय। तद् यथा अकारणकका-
र्यप्रसङ्गो, रूपाद्युपलब्धीनामपि वाऽनिन्द्रियकरणत्वप्रसङ्गः। न ह्यनुमित्यादिभिरु-
पलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपि त्वनुपलभ्यमानकरणिकाभी
रूपाद्युपलब्धिभिरेव। यद्यपि साक्षात्कारिताऽपि तत्रैव पर्यवस्यति, तथापि प्रथ-
मतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने। न ह्युपलभ्यमाने कर-
णान्तरे साक्षात्कारिणीष्वपि तासु चक्षुराद्यनुपलभ्यमानं कश्चित्कल्पयिष्यत्।
अत एव साक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः। संस्कारस्त्व-
र्थविशेषप्रत्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात्।
भावावेशाच्च चेतसः। सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणा-
बोधनी।
देव तावद् बाधकं किमन्यन्मृग्यत इत्याह नन्विदम् इति। नन्वन्वतः सिद्धायां याप्तावेव तद्वक्तुं
युक्तं तत्सिद्धिश्च विपक्षे बाधकादित्याशङ्क्याह अन्यदपि इति। इह घटो नास्तीति बुद्धिरतीन्द्रि-
यजा निर्हेतुकैव स्यात् हेत्वन्तरासंभवादिति बाधकान्तरमाह रूपादीति। तासामपीन्द्रियजत्व-
मज्ञातकरणत्वाधीनसिद्धीति भावः। तमेव स्फोरयति न हि इति। उपलभ्यमानकरणिकास्रनुमि-
त्यादिषु इन्द्रियस्य कारणत्वेनाव्यवस्थापनादनुपलभ्यमानकरणिकासु रूपादिबुद्धिषु तद्व्यवस्थाप-
नादज्ञातकरणत्वमेवेन्द्रियत्वे प्रयोजकमिति निश्चीयत इति। ननु रूपादिबुद्धीनां चक्षुरादिकारणत्व-
कल्पने तासां साक्षात्कारित्वमेव प्रयोजकं न त्वज्ञातकरणत्वमित्यत्राह यद्यपीति। रूपादिबुद्धीनां
सत्यपि साक्षात्कारित्वे प्रथमतः कार्यदर्शनसमय एव कारणमपेक्षमाणः कारणान्तराज्ञानेनैव चक्षु-
रादि कल्पयति, नतु तासां साक्षात्कारित्वमप्यनुसंधाय, ततश्च प्रथमभाविनो ज्ञातकारणत्वस्यैव
प्रयोजकत्वमिति तदेव व्यतिरेकमुखेन स्फोरयति नहि इति। अत एव इति। यत एवाज्ञातकार-
णत्वमेव प्रयोजकमैन्द्रियकत्वे न तु साक्षात्कारित्वमत एवेति। संस्कारकरण एव स्मृतेः नतु मनं
इति चेत् तत्राह संस्कारस्तु इति। करणस्य मनइन्द्रियस्य विषयप्राप्तिरूपतया संस्कार उपयु-
ज्यते, न तु कारणत्वेनेति।
तुरीयं हेतुमनूद्य व्याचष्टे भावावेशाच्च इति। बहिः स्मरणादन्तःसुखाद्यनुभवाच्चान्यत्र सर्व-
त्रैन्द्रियलिङ्गादिभावात्मककरणसहायमेव मनः प्रवर्त्तमानं दृष्टमतो व्याप्तिवलादभावानुभवेऽपि किमपि
भावरूपं कारणमाविश्य मनः प्रवर्त्तत इत्यनुमीयते, तच्च कारणमिन्द्रियमेवावशिष्यत इत्यर्थः। ननु
प्रकाशः।
व्याप्त्युच्छेद इत्याह। नन्विदमिति। उत्सर्गस्य बाधकं चिन्त्येत्याशङ्केत्यर्थः। अकारणकेति।
अज्ञातकरणकत्वावच्छिन्नज्ञानं प्रतीन्द्रियस्य करणत्वादिन्र्दियं विना तन्न स्यादित्यर्थः। न हीति।
ज्ञातकरणकज्ञानेन करणतया नेन्द्रियं कल्प्यते, किन्त्वज्ञातकरणकज्ञानेनेत्यर्थः। ननु नाज्ञायमानकर-
णकज्ञानत्वेन चक्षुरादिकल्पनम्, अपि तु साक्षात्कारिज्ञानत्वेनेत्यत आह यद्यपीति। तत्रैव
इन्द्रियकरणकत्व एवेत्यर्थः। यदि च साक्षात्कारिज्ञानमेवेन्द्रियसिद्धौ मानं स्यात्; तदा स्मृतेस्त-
दभावान्नमनःकरणत्वं नानुमीयेतेत्याह अत एवेति। न चैवं स्मृतेः साक्षात्कारित्वापत्तिः।
संस्कारातिरिक्तसन्निकर्षाभावादित्युक्तत्वात्। ननु स्मृतौ संस्कार एव कुतो न करणमित्यत आह
संस्कारस्त्विति। इन्द्रियाणामप्राप्तानां ज्ञानाजनकत्वात्, संस्कारस्य च निर्व्यापारत्वेनाकरणत्वा-
दित्यर्थः।
भावावेशादिति। भावरूपासाधारणकारणसाहित्यनियमादित्यर्थः। तथा चाभावप्रमायां
मनो भावभूतासाधारणकारणसहकृतमेव करणमिति भावः। प्रयोगश्च लिङ्गाद्यजन्या अभावप्रमा