न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 471, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३६
तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षा-
दिन्द्रियजं भविष्यतीति चेन्न । उत्सर्गस्य बाधकाभावेन सङ्कोचाद्यनुपपत्तेः । अन्यथा
सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गोऽविशेषात् । तथापि विपक्षे किं बाधकमिति
· बोधनी ।
संस्कार इति । न तावदनुभवत्वं संस्कारातिरिक्तासाधारणकारणाभावान्, नापि साक्षात्का-
रित्वमिन्द्रियार्थसन्निकर्षासमुत्थत्वादिति वक्ष्यामश्चतुर्थे परिच्छेदे इति ।
अज्ञायमानकरणकेन ज्ञानेनेन्द्रियेण भवितव्यमिति व्याप्तिर्भावज्ञानेषु नाभावज्ञानेष्वपीत्याह
तथापि इति । न इति । सामान्यतः प्रवृत्ताया व्याप्तेर्बाधकमन्तरेणाभावविषयत्वेन संकोचानुप-
पत्तेस्तथापि वा संकोचेऽतिप्रसङ्ग इति । मा भूत्संकोचः तथाप्यज्ञायमानकरणकस्यैव कस्यचिद् ज्ञान-
स्यानिन्द्रियजत्वे किं बाधकमित्याह तथापि इति । बाधकं वि + (ना ?) + त्सर्गापवादेऽतिप्रसङ्ग इत्येत-
प्रकाशः ।
प्रत्यक्षत्वप्रयोजकः, स्मरणे तु स एव सन्निकर्षः । प्रत्यभिज्ञाने तु तत्ता स्मृत्युपनीता भासते, न तु
संस्कारस्तत्सन्निकर्षः । तज्जन्यत्वे स्मृतित्वापत्तेरित्यर्थः ।
तथापीति । विपक्षे बाधकाभावादित्यर्थः । न च भावविषयत्वमुपाधिः, अभावज्ञानेऽपि
प्रतियोग्यादिभावविषयतया साधनव्यापकत्वात् । नाप्यभावविषयत्वं, अभावस्मरणे साध्याव्याप-
कत्वात् । उत्सर्गस्येति । सामान्यत एव व्याप्तिर्भावविषयत्वस्य गुरुत्वादित्यर्थः । तथाप्यु-
त्सर्गस्य बाध्यत्वशङ्कानिवारकं किमित्याह, तथापीति । निर्बीजतादृशशङ्कायां सर्वत्र सामान्य-
प्रकाशिका ।
चेन्द्रियमेव करणमिति भावः । नन्विदमिति । न च तत्रापि मनोजन्यतया साध्यमस्त्येवेति
वाच्यम् । यथाश्रुते सिद्धसाधनतया विषयप्रत्यासन्नेन्द्रियजन्यत्वस्य साध्यत्वात् । लिङ्गादीति ।
सिद्धान्तेऽप्यनुभवपदं ज्ञानपरम् । अत एव मूलोक्तद्वितीयदृष्टान्तासङ्गतिः साध्यस्यापि निरुक्तस्य
संस्कारलक्षणां प्रत्यासत्तिमादाय स्मरणे सत्त्वात् । कैश्चित्तु सिद्धसाधनापनुत्तये मनोभिन्नेन्द्रियज-
न्यत्वमिन्द्रियत्वेनेन्द्रियजन्यत्वं वा साध्यमित्याशयेन व्यभिचारदेशनेयं द्वितीयदृष्टान्ते चारुचिरेव
प्रकाशकृतः अत एव सिद्धान्तेऽनुभवपदोपादानं करिष्यति स्मरणे निरुक्तसाध्याभावादिति वदन्ति ।
मास्तु प्रतियोगिज्ञानत्वेनाभावज्ञानं प्रति जनकत्वं तथाप्यसिद्धिरैवेत्याह सविकल्पकेति । मननेति-
व्यवहितव्यापारत्वञ्च विषयाप्रत्यासन्नत्वादिकमेव बोध्यम् । उपनीतेति । तथा चोपनीताभावज्ञानेऽशतः
सिद्धसाधनवारणाय साक्षात्पदं ज्ञानादिप्रत्यासत्तिरहितपरमिति भावः । साक्षादिति । यदपि
चेन्द्रियत्वेनेन्द्रियजन्यत्वस्य साक्षात् प्रयोजकत्वेनेयं शङ्का तथापीन्द्रियसन्निकर्षासाधारणकारणत्वमेव
साक्षात्त्वप्रयोजकमित्यभिप्रायेण शङ्केयमिति भावः । स्मृतित्वापत्तेरिति । इदमुपलक्षणम् । वस्तुतो
विशिष्टानुभवं प्रत्यव्यवहितविशेषणज्ञानं कारणमन्यथा स्मरणसमयेऽनुभव एव स्यादिति त-
त्राऽपि स्मृतिरेव प्रत्यभिज्ञाकारणमित्यपि द्रष्टव्यम् । विपक्ष इति । तथा चाप्रयोजकत्वपरोऽयं
ग्रन्थ इति भावः । ननूपाधिपरत्वेनैव किमिति न व्याख्यात इत्यत आह न चेति । नत्वित्यर्थः । उपाधि-
रित्यनन्तरमित्यर्थ इति शेषः । भावाभावविषयतेति काचित्कः पाठः । तत्राभावपदं दृष्टान्तार्थम्
अभावस्मरण इति । एतच्च यथाश्रुतसाध्यं विषयप्रत्यासन्नेन्द्रियजन्यत्वं वा विवक्षितम् । साध्यमभिप्रेत्य
पौनरुक्तमाशङ्क्याह तथापीति । आत्मादिना सिद्धसाधनवारणायाह ।
मकरन्दः ।
न चेति । न त्वित्यर्थः । इत्यर्थ इति शेषः, भावाभावविषयतेति यदि पाठः क्व चित्तदाऽभावपदं
सम्पातायातम् । अभावस्मरण इति । एतच्च यथाश्रुते । वस्तुत उपनीताभावप्रत्यक्षे तयात्वम् । अदृष्टा-
दिना अर्थान्तरादाह लिङ्गादिति ।