न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 442, कुल 608 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का देवनागरी में पंक्तिशः (line-by-line) लिप्यन्तरण प्रस्तुत है:
४१० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१५ कारिकाव्याख्यायां
बोधनी।
नेन्वाकाङ्क्षादित्रयोपेतपदार्थान्तरान्वित एवार्थे संगतिरिरिति ब्रूमः, तन्नास्त्येव विवाद इत्याह अन्वित
इति। विस्मरणमेवात्रापराध्यतीत्याह उक्तम् इति। अथ संभावितसकलदोषपरिहारेण प्राभाकरः
प्रत्यवतिष्ठते स्मृतेति चेदित्यन्तेन। पदान्तरस्मृतेन प्रतियोगिमात्रेण कारकेण क्रिया वाऽन्विते
स्वार्थे क्रियायां कारके वा संगतिर्गृह्यते न तु विशेषान्विते, तथा च सर्वेष्वपि वाक्येषु तथात्वावि-
शेषात् संगतिर्ग्रहीता स्यादिति, ततश्च न तावद्वाक्यार्थस्यापूर्वत्वदोषः पदार्थस्मृत्युत्तरकालभावित्वा-
तदन्वयप्रतीतेः क्रमभावोऽपि संगच्छत इति तर्हि कारकपदस्य क्रियाप्यर्थः क्रियापदस्यापि कारक-
मिति तयोः पर्यायता स्यादित्यत्राह नापि इति। ओदनमिति कारकपदमোদনत्वं निमित्तीकृत्य
स्वेन रूपेणौदनमभिधत्ते, ओदनं तु तत्प्रतियोगित्वमात्रेण, ततश्च स्वरूपामिधानलक्षणस्य प्राधान्यस्य
स्वार्थ एव नियतत्वान्न पर्यायतेति। यदि पदार्थस्यैवान्वितोऽर्थः तर्हि पदसंघातात्मनो वाक्यस्यापि
स एवेति वाक्यार्थः पुनरुक्तः स्यादित्यत्राह नापि पौनरुक्त्यम् इति। पदार्थविशेषविशिष्टेऽन्वये
तात्पर्यं वाक्यस्य, न त्वेवं पदस्येति। यद्वा क्रियाकारकपदयोः पौनरुक्त्यमाशङ्क्य स्वार्थविशेषा-
न्वयतात्पर्यभेदात्परिहारः। ननु क्रियाभिधाने सति तदन्वितं कारकमभिधेयं कारकपदेन, तथा
कारकाभिधाने सति तदन्विता क्रियाभिधेया क्रियापदेनेतीतरेतराश्रयत्वं स्यादित्याह नापि इति।
तथा स्यादयं दोषः यद्यभिहितेनार्थान्तरेणान्वितः स्वार्थोऽभिधीयते, न त्वेवं स्मारितेनान्वितस्याभि-
धानादन्वितस्यैव च स्मरणादिति। नन्वोदनं पचतीत्यत्र क्रियापदं कारकापेक्षं सत्समुच्चारितादन्येन
तेमनादिनान्विते स्वार्थं अभिदध्यात्, एवमोदनमपि क्रियान्तरेणौदनमानयेत्यादिनान्वितमित्यर्थभे-
दाद्वाक्यभेदः स्यादित्यत्राह नापि वाक्यभेद इति। संनिधेरप्यन्वयहेतुत्वान्न संनिहितमतिक्रम्या-
न्यदपेक्ष्यत इति। यद्वा अन्विताभिधायिनि पदानि प्रत्येकवाक्यानि भवेयुरित्याशङ्क्य यदि परस्परं
संसृष्टौ संनिहितानामन्योन्याकाङ्क्षा न भवति तदा वाक्यभेदात् भवेत्, यथाऽयमेति पुत्रो राज्ञः
पुरुषोऽपसार्यतामित्यत्र राजपुरुषयोर्यन्त्र तु स्मृतिसंनिहितानामन्योन्याकाङ्क्षाऽस्ति यथा राज्ञः पुरु-
षोऽपसार्यतामित्येतावन्मात्रोच्चारणे राजपुरुषयोस्तथैकवाक्यतेति परिहारः। अथ सिद्धान्ती याव-
त्संभवं विकल्प्य, दूषयति नान्विते इति। अन्वितमित्यत्रेतिशब्दो द्रष्टव्यः प्रकृतस्यान्विताभिधान-
स्य यन्न रूपवति तद्वत्ता स्पर्शवत्ता तस्य चक्षुषः अन्विते संगतिग्रह इत्यस्य प्रकृतोपयोगिनमर्थमा-
शङ्क्य प्रमाणाभावेन दूषयति अथ इति।
नन्वस्ति प्रमाणमर्थापत्तिरित्याह अन्वितं इति। न इति। आकाङ्क्षादिमत्पदार्थप्रतिसंधाना-
दृप्यन्वितप्रतीत्युपपत्तेरिति। ननु पचतोत्युक्ते किमोदनं तेमनं वेति कारकविशेषजिज्ञासा तावज्जायते,
न चासावगृहीते सामान्येऽवकल्प्यते तेन क्रियापदादेव कारकसामान्यान्वितां क्रियामवगम्याशीदेवं कार-
कपदादेव क्रियासामान्यान्वितं कारकमित्यन्विते व्युत्पत्तिः कल्प्यत इत्याह आकाङ्क्षा इति। न
इति। क्रियाकारकयोरविनाभावेनेतरेतरसामान्याक्षेपादपि विशेषजिज्ञासोपपद्यते, न हि चक्षुषा रूपेऽ-
धिगते द्रव्ये रसविशेषजिज्ञासा भवन्ती रससामान्यस्य चाक्षुषत्वं कल्पयतीति। ननु यदि पदार्थमात्र-
पर्यवसितेषु पदेषु पदार्थेभ्य एवान्वयप्रतीतिः स्यात्तर्हि हेत्वन्तरप्रतीतेभ्योऽपि भवेन्न चैवमस्ति ततः
पदान्येव यावदन्वयं गच्छन्तीत्याह शब्द इति। अस्त्येव हेत्वन्तरप्रतीतेभ्योऽपि पदार्थेभ्योऽन्वय-
प्रकाश।
यबोधापत्तिः। शब्दोपस्थिते पदार्थे शब्दोपस्थापितपदार्थान्तरेणैवान्वयात्, शाब्दी ह्याकाङ्क्षा
शब्देनैव पूर्यते इति न्यायात्। अत एव श्रुतार्थापत्तिस्थलेऽपि शब्द एव कल्प्यते इत्यर्थः।
प्रकाशिका।
प्राभाकरमास्कन्दतीत्यर्थः, अन्विताभिधानवादिनं प्राभाकरं शब्दोपस्थित इति। साकांक्षप-
दार्थोपस्थितित्वेन कारणता आंकांक्षा च स्वभावात्, शब्दोपहितयोरेव प्रकारान्तरोपस्थितयोरेव-