न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 426, कुल 608 में से
संदर्भ में पढ़ेंयप्रत्ययो न जायते । न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साका-
ङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् , निवृत्ताकाङ्क्षस्य च तदभावात् ॥
कथमेष निश्चयः, साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्, तावन्मा-
त्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच्च । यदा हि
दूराद् दृष्टसामान्यो जिज्ञासते कोऽयमिति, प्रत्यासीदंश्च स्थाणुरयमिति प्रत्येति,
तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति ।
तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावग-
बोधनी ।
सत्यपि विशेषणे तज्ज्ञानाभावेनानुमानप्रतीतिः तद्वदत्रापि सत्यामप्याकाङ्क्षायां तज्ज्ञानाभावे यदि
संसर्गप्रतीतिर्न स्यात्स्यादपि तदा द्वितीयकल्पे, न चैतदस्ति योग्यतासत्तिमात्रं प्रतिसंदधानस्याकाङ्क्षा-
स्वरूपमात्रान्वयव्यतिरेकानुविधायित्वेनान्वयप्रतीतेर्दर्शनादिति ।
नन्वाकाङ्क्षासत्तैवान्वयप्रतीतिहेतुर्न तु ज्ञानमिति कुतो निश्चय इत्याह कथम् इति । सत्तामा-
त्रेणोपपत्तौ ज्ञानकल्पनायां प्रमाणाभावाच्छब्दादन्यत्र जिज्ञासाहेतुकेषु तावन्मात्रेण तदुपयोग-
दर्शनाच्चेत्याह न इति । अविशेषादिति जिज्ञासाहेतुकत्वेनाविशेषादिति । किञ्च संसर्गप्रतियो-
गिपदार्थविशेषस्मरणकाले तद्विषयजिज्ञासावगतिरपेक्षेत ततः प्रागेव वा ? न प्रथमः, घटमित्युक्ते
पश्यतीतिपदस्मारिते क्रियाविशेषे तत्संसर्गस्यैवावगमात् । न द्वितीयः, पदस्मारितविशेषजिज्ञासाया
एवाकाङ्क्षापदार्थत्वेन ततः प्राग्भाविन्त्यास्तस्या गुणक्रियाद्यशेषविषयत्वेनाकाङ्क्षानात्मनो वाक्यार्थ-
ज्ञानं प्रत्यनङ्गतत्वादित्याह विशेषेति । अस्तु ज्ञातैवाकाङ्क्षा संसर्गज्ञानहेतुः अस्तु च हेतोर्वि-
प्रकाशः ।
र्थपुरुषपदार्थयोरन्योन्यान्वये वक्तृज्ञानाभावादित्यर्थः । अनुमानान्तरवदिति । अनुमितिकारणान्त-
रव्याप्त्यादिवदित्यर्थः । यद्यपि प्रतिपदार्थान्विताकाङ्क्षायास्तत्काल एव नाशान्न कालान्तरे सत्त्वं,
तज्ज्ञानहेतुत्वञ्च संस्कारद्वारा सम्भवति, तथापि पदार्थसमूहविषयाया एकस्या एवाकाङ्क्षायाः स्वरू-
पसत्त्वमस्त्येवेति भावः । विशेषोपस्थानेति । अन्वयप्रतियोगिपदार्थस्मरणानन्तराव्यवहितकाले इत्यर्थः।
नन्वाकाङ्क्षा ज्ञाताऽन्वयधीहेतुः ज्ञायमानकारणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्याद् व्याप्तिवत् ।
प्रकाशिका ।
अजनितफले तात्पर्यघटितसाध्ये व्यभिचार इति भावः । नन्विति । तथा च तथा लिङ्गविशेषण-
मकरन्दः ।
तत्रेश्वरतात्पर्याभावात्तात्पर्यघटितसाध्ये व्यभिचार इति भावः । नन्विति । तथा चाकाङ्क्षाया
टिप्पणी ।
काङ्क्षेति । आकाङ्क्षाभाभ्यः सम्बन्धपदार्थः प्रतिपदार्थतदन्वितपदार्थावान्तरगोचरेत्यर्थः । तत्-
काल एव नाशादिति । उत्तरपदश्रवणकाले नाशात्तन्न कालान्तरे सत्त्वमिति इति स्वरूपसत्या हेतुत्वन्न
सम्भवतीत्यर्थः । तथापि पदार्थसमूहविषयाया इति । तत्तत्पदार्थान्वितजिज्ञासामूलिकायाः ।
नन्वाकाङ्क्षा ज्ञातान्वयधीहेतुरिति । कार्य्यत्वेनाभिमतसंसर्गज्ञानहेतुस्तेन न दृष्टान्ते साध्यवैकल्यम्।
ज्ञायमानकारणे ज्ञानोपयोगिव्यभिचारीति । ज्ञायमानकारणे ज्ञानेन य उपयोगस्सहकारिसम्पा-
दनन्तद्व्यभिचरितुं शीलमस्य तद्विलक्षणत्वात् कारणज्ञाननिष्ठव्यभिचारिनिरूपकज्ञानविषयान्यत्वा-
दित्यर्थः । न हि कारणज्ञानमूलजनने व्याप्तिज्ञानम् व्यभिचरतीति भवति तत्तथा । यद्वा ज्ञायमान-
कारणे ज्ञानस्य फलीभूतज्ञानस्योपयोगिव्यभिचारिज्ञानान्तरस्थलसाधारणम् साधारणकारणमनः-
संयोगादिकन्तद्वैलक्षण्यादित्यर्थः, एतेन प्रथमहेतोराकाङ्क्षादेश्ज्ञायमानहेतुत्वाधीनहेतुत्वेऽपि न