न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 415, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३८३
च यद्योगप्राथम्यास्यां तस्यैव व्याप्यत्वं, ततः किं तेन ? प्रकृतानुपयोगात् ।
अथ किंलक्षणकोऽसाविति प्रश्नार्थः । तदा व्यतिरेकपरं स्यात् , लक्षणस्य
तथाभावात् । तथा च गोसदृशो गवय इत्यस्यार्थो यो गवय इति 'न व्यवह्रियते
नासौ गोसदृश इति । एवञ्च प्रयोक्तव्यम्—अयमसौ गवय इति व्यवहर्त्तव्यः
गोसदृशत्वात्, यस्तु न तथा, नासौ गोसदृशो यथा हस्ती । न च हस्त्याऽऽदीनां
विपक्षत्वे प्रमाणमस्ति, सर्व्वाप्रयोगस्य दुरवधारणत्वात् , कतिपयव्यवहारस्य
चानैकान्तिकत्वात् ॥
बोधनी ।
गोसदृशः स गवयपदवाच्य इति, ततः श्रोतुरनुमानप्रवृत्तेर्नावकाशः प्रमाणान्तरस्य इति ।
न इति । व्याप्यव्यापकयोर्विपर्ययादिति । तमेवाह न हि इति । अस्तु तर्हि यो गवयपदार्थः स
गोसदृश इति वाक्यार्थः, तत्राह ततः किम् इति । न हि गवयपदार्थं जिज्ञासमानस्य व्याप्यत्वेन
तस्य निर्देश उपयुज्यत इति ।
अथ इति । असौ-गवयपदार्थवाच्य इति । तदा इति । लक्षणप्रश्ने सत्युत्तरवाक्यं केवल-
व्यतिरेकिहेतुप्रतिपादनपरं स्यात् लक्षणस्य केवलव्यतिरेकित्वात् । तदुक्तं तार्किकरक्षायां—“असा-
धारणधर्मत्वात् व्यतिरेक्येव लक्षणम्” इति । विवृतश्च सारसंग्रहेऽस्यार्थ इति । व्यतिरेकिपरत्वे
चातिदेशवाक्यस्यायमर्थः स्यादित्याह तथा च इति । एवं वाक्यावगतव्यतिरेकव्याप्तिना च नाग-
रिकेण लक्षणज्ञानार्थमेवमनुमानप्रयोगः कार्य इत्याह एवं च इति । तथा नाम प्रयुक्तम् इत्यत्राह न
च इति । येन विपक्षाद्व्यतिरेकः सिध्येदिति । हस्त्यादिषु गवयपदाप्रयोगस्तेषां विपक्षत्वे प्रमाण-
मित्याशङ्कयाह सर्व्वेति । मा भूतर्हि व्यतिरेकिरूपलक्षणविशेषप्रश्नः, सामान्यप्रश्नस्तु भविष्यति-
प्रकाशः।
न हीति ॥ येन सादृश्यस्य व्याप्यत्वं स्यादिति शेषः । यदि गोसदृशः किंशब्दवाच्य इति
पृच्छेत् , तदा तमुद्दिश्य गवयशब्दवाच्य इति विदध्यादपि तु कीदृग्गवय इति पृष्टः, तथा च यो
गवयशब्दवाच्यः स गोसदृश इति उत्तरयतो विपरीत एव व्याप्यव्यापकभाव इत्यर्थः । यद्योगेति ।
व्याप्यं यच्छब्देन पूर्वमुद्दिश्यते यथा यो धूमवान् सोऽग्निमानित्यर्थः ॥
यद्योगप्राथम्याभावेऽपि गन्धवती पृथिवीत्यादिवद्व्यतिरेकिरूपलक्षणपरत्वं स्यादित्याह—
अथेति ॥ हस्त्यादीनां गवयव्यवहाराविषयत्वं तत्राप्रयोगेण निश्चेयं, तत्राह सर्व्वेति । न
चैवं व्यवहारसाध्ये सर्वत्र लक्षणोच्छेदः स्यादिति वाच्यम् । यथा पृथिवीत्वेन पृथिवीपदवाच्यत्वं
साध्यते, तथा गवयत्वेन निमित्तेन गवयपदवाच्यत्वस्य साधयितुमशक्यत्वात् , गवयत्वस्यातिदेश-
वाक्यादप्रतीतेः ।
प्रकाशिका ।
प्रमेयपदे व्यभिचार इति धर्मिवाचकत्वमात्रं साध्यम् , तथा च तत्सिद्धावपि न विशिष्टवाचकत्वसि-
द्धिरित्यर्थः । विदध्यादिति । तथा सति च विधेयस्य गवयशब्दवाच्यत्वस्य व्यापकता प्रतीये-
तेति भावः । कीदृग् गवय इति । गवयपदवाच्यः कीदृगित्यर्थः । तथा चेति । न तु यो गोस-
दृशः स गवयपदवाच्य इत्युत्तरम् येन ययोगादिना गोसादृश्यस्य व्याप्यत्वं प्रतीयेतेति भावः । पृथिवी-
त्वेनेति । पृथिवीत्वनिमित्तकपृथिवीपदवाच्यत्वेनेत्यर्थः । एवमग्रे गवयत्वेनेत्यत्रापि धर्मिमात्रवा-
मकरन्दः ।
व्यापकत्वं प्रतीयते इति भावः । कीदृग् गवय इति । गवयपदवाच्यः कीदृगित्यर्थः । गवयत्व-
विशिष्टत्ववाच्यत्वमेवमपि न सिद्ध्यतीत्यपि बोध्यम् । तथा चेति । न तु यो गोसदृशः स गवयपद-
वाच्य इत्युत्तरं, येन गोसादृश्यस्य वाच्यत्वं यद्योगादिना लभ्येतेति भावः । पृथिवीत्वेनेति ।
पृथिवीत्वनिमित्तकपृथिवीपदवाच्यत्वमित्यर्थः । गवयत्वेनेति । गवयत्वनिमित्तकगवयपदवाच्यत्व-