न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 414, कुल 608 में से
संदर्भ में पढ़ें३८२ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां
वृत्त्यन्तरे तद्विषयतया प्रयोगः सङ्गतिम्विज्ञाय ज्ञातुं शक्यते । सामानाधिकरण्या-
दिति चेन्न । पिण्डमात्रे सिद्धसाधनात्, निमित्ते चासिद्धेः, सादृश्यस्यानिमित्त-
त्वादित्युक्तम् ॥
ननु व्याप्तिपरमिदं वाक्यं स्यात्-यो गोसदृशः स गवयपदार्थ-इति, तथा च
वाक्यादवगतप्रतिबन्धोऽनुमिनुयात्-अयमसौ गवयो गोसदृशत्वादतिदेशवाक्या-
वगंतपिण्डवदिति । न । विपर्ययात्, न हि गोसदृशं बुद्ध्यारोप्यानेन पृष्टः स
किंशब्दवाच्य इति, किन्तु सामान्यतो गवयपदार्थमवगम्य स कीदृगिति । तथा
बोधनी ।
तदसत्त्वविशेषिताच्च प्रयोगारसङ्गतिग्रह इतीतरेतराश्रयप्रसङ्ग इति । अस्तु तर्हि गोसदृशपदेन
सामानाधिकरण्यात् गवयपदस्य गोसदृशविषयत्वसिद्धेर्गवयत्वस्य तत्सदृशत्वात्तद्वाचकत्वसिद्धिरित्याह
सामानाधिकरण्यात् इति। न इति । सामानाधिकरण्येन गोसदृशपिण्डमात्रविषयताप्रयोगः स्यात्,
तेन च तन्मात्रवाचकत्वमेव सिध्येत् नाभिमतं गवयत्ववाचकत्वमिति । न च निमित्तेन च गवयत्वेन
सामानाधिकरण्यं सिद्धं गवयत्वस्याप्रतीतेः, प्रतीतेन तु सादृश्येन सामानाधिकरण्यसिद्धावपि नास्त्यु-
पयोगस्तस्यानिमित्तत्वादित्याह निमित्ते इति ।
नन्विति । गवयपदवाच्यं पृष्टः साक्षात्तत्प्रतिपादनाशक्तः तदनुमानसम्पन्नौ व्याप्तिमेवावष्टे यो
प्रकाशः।
अस्मत्पितृचरणास्तु, सर्वत्रान्वयानुपपत्तिरेव लक्षणाबीजम् । यष्टीः प्रवेशयेत्यत्रापि प्रकर-
णादिना भोजनादिप्रयोजनकप्रवेशनस्य ज्ञानात् तादृशे च प्रवेशने यष्ट्यारेरनन्वयात, तात्पर्यग्रहार्थ-
मपि प्रकरणादेरवश्योपजीव्यत्वादित्याहुः ।
मानान्तरमिति । तर्कः प्रमाणसहकारी, न च तस्यां दशायां मानान्तरमस्तीत्युपमानं
तर्कोपकार्यमास्थेयमित्यर्थः । असिद्धेरिति । वस्तुतो गवयव्यक्तिवाचकत्वसिद्धावपि गवयत्वस्य
प्रवृत्तिनिमित्तत्वं न सिद्ध्यतीति भावः । गवयसामानाधिकरण्येन गोसदृशो गवय इतिवाक्यप्रतिपाद-
नाद्गवयवाचकत्वं गवयपदस्य ज्ञायते इत्याह सामानाधिकरण्यादिति । गवयसामानाधिकरण्येनेत्यत्र
यदि पिण्डसामानाधिकरण्यं विवक्षितं, तदा पिण्डवाचकत्वसिद्धावपि गवयत्वविशिष्टवाच्यत्वासिद्धे-
र्नोपमानपरिच्छेद्यस्य मानान्तरात् प्रतीतिरित्याह पिण्डेति । गवयत्वजातिसामानाधिकरण्यं तु
मानाभावादसिद्धमित्याह निमित्ते चेति ॥
प्रकाशिका ।
सर्वत्रान्वयेति । यद्यप्येवमपि प्रकृते लक्षणा स्यादेव प्रकरणसाचिव्येनेव प्रवृत्तिनिमित्तविशिष्टपर-
त्वनिश्चयात् तस्य धर्मिमात्रेऽनन्वयात, तथापि तात्पर्यानुपपत्त्या लक्ष्णैत्येतावन्निराकरणपरोऽयं
ग्रन्थः । बाधकन्तु लक्षणायां तादृशप्रकरणाद्यभावेऽपि गवयत्वप्रवृत्तिनिमित्तत्वपरिच्छेद इत्येवेति
स्मर्त्तव्यम् । असिद्धिरिति, मूलं विशिष्टस्य हेतोरिति शेषः । अत एवाग्रे विशेष्यसिद्धये
सामानाधिकरण्यादिति मूलम् । वस्तुत इति । गवयत्वविशिष्टवाचकत्वे च साध्ये साध्याप्रसि-
द्धिरिति भावः । गवयवाचकत्वमिति । गवये प्रयुज्यमानत्वमित्यर्थः । एवमग्रेऽपि वाचकत्वपदं
प्रयुज्यमानत्वपरम् । केचित्तु सामानाधिकरण्यादिति मूलं न पूर्वहेतोर्विशेष्यसिद्धिपरं किन्तु गवयप-
दस्य गवयत्ववाचकत्वे साध्ये हेत्वन्तरोपदर्शनपरमेवेति यथाश्रुतप्रकाश एव सम्यगित्याहुः । पिण्ड-
सामानाधिकरण्यमिति । तादृशहेतौ गवयत्वविशिष्टवाचकत्वे साध्ये द्रव्यं प्रमेयमिति वाक्ये
मकरन्दः।
भावः । वाक्येऽपि लक्षणेतिमतेन पदमिह वाक्यमेवोक्तमित्यन्ये । शक्यसम्बन्धमाह गोसादृश्य-
समानाधिकरणमिति । सर्वत्रान्वयेति । यद्यप्येवमपि प्रकृते लक्षणा स्यादेव, उक्तप्रकरणादिना
प्रवृत्तिनिमित्तवाच्यत्वज्ञानात्, तस्य च धर्मिमात्रेऽनन्वयात्, तथापि तात्पर्यानुपपत्त्या लक्षणेति
परोक्तनिराकरणमात्रपरोऽयं ग्रन्थ इति प्रतिभाति । यदीति । उद्देश्यस्य व्याप्यत्वं विधेयस्य