सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 412, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 412

३८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्यायां
वाक्यं स्मृतिसमारूढं फलिष्यति, अध्ययनसमयगृहीत इव वेदराशिरङ्गोपाङ्गपर्य-
वदातस्य कालान्तरे । न च वाच्यं-'वाक्येन स्वार्थस्य प्रागेव बोधितत्वात् प्रागेव
पर्यवसितमिति' । गोसादृश्यस्योपलक्षणनिमित्तत्वयोरन्यतरत्र तात्पर्य्यसन्देहात्,
इदानीन्तु गवयत्वेऽवगते तर्कपुरस्कारात् सादृश्यस्योपलक्षणतायां व्यवस्थितायां,
गङ्गायां घोष इतिवदन्वयप्रतिपत्तिरिति चेत्, न—
श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ॥
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥ १२ ॥
गोसदृशो गवयशब्दवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ विशेष-
सन्देहेऽपि वाक्यस्य पर्यवसितत्वेन मानान्तरोपानीतानपेक्षणात् । रक्तरक्तसन्दे-
हेऽपि घटो भवति इति वाक्यवत्, अन्यथा वाक्यभेददोषात् । न च गङ्गायां
बोधनी।
यद्गृहस्तथापि पश्चाद्भवगतस्य प्रवृत्तिनिमित्तोपलम्भे सति तत्सहकृतप्रागनुभूतमतिदेशवाक्यमेव स्मृ-
तिस्थं तत्फलिष्यति संबन्धग्रहं, यथा ह्यध्ययनसमये पाठमात्रगृहीतो वेदः पश्चादङ्गोपाङ्गसंस्कृतः तस्य
वाक्यार्थज्ञानं प्रसूत इति । ननु युक्तं तत्राऽध्ययनात्पूर्वं वाक्यार्थप्रतिपादनाय गृहीतस्य वेदस्यापर्य-
वसानादङ्गादिसहकृतस्य तस्यैव धर्मद्विज्ञानहेतुत्वम् , अत्र त्वतिदेशवाक्यस्य स्वार्थप्रतिपादनेन पर्य-
वसानादयुक्तः समयपरिच्छेदहेतुभाव इत्याशङ्कयाह न च वाच्यम् इति । अतिदेशवाक्यमपि
न तावत्पर्यवस्यति गोसदृशपदस्य तात्पर्यानवधारणेनार्थानिश्चयात्पदार्थपूर्वकत्वाच्च वाक्यार्थस्य
गवयत्वावगतौ तु तर्क पुरस्कृत्य गोसदृशपदस्योपलक्षणपरत्वसिद्धौ च गवयत्वविषयं समयवाक्यमेव
प्रतिपादयति । यथा गङ्गायां घोष इत्यत्र मुख्यार्थबाधेन गङ्गापदस्य तीरोप लक्षणत्वस्थितौ पश्चा-
दन्वयप्रतिपादनम् । तर्कश्चात्र-सादृश्यस्य गवयत्वातिरेकिणः निमित्तत्वे क्लृप्तकल्प्यविरोधः,
सादृश्यमात्रनिमित्तत्वेऽतिप्रसङ्गः, सादृश्यस्य निमित्तत्वे विशेषगस्य गौरप्यभिधानेऽशक्ति कल्पना-
गौरवमिति वक्ष्यते । तस्माच्छब्द एव समये प्रमाणमिति ।
न, श्रुतान्वयात् इति । तदर्थनामाकाङ्क्षा संनिधियोग्यतावशेन परस्परमन्वयादेव पर्यवसितम-
तिदेशवाक्यं नान्यत्पक्षोपनीतं गवयत्वादिकमाकाङ्क्षति वाक्यार्थप्रतिपादनायेति शेषः । गङ्गायां घोष
इत्यत्र तु गङ्गापदस्य मुख्यार्थेन पदार्थान्तरा गामनन्वयात् मुख्यार्थलक्षितेन तु कूलेन सह संगतिरिति
व्याचष्टे गोसदृश इति । कोऽसौ गोसदृश इति विशेषसंदेहेऽपि यो गोसदृशः स गवयशब्द-
वाच्य इति सामान्येनैवान्वयसिद्धेर्न मानान्तरोपमेयविशेषाकाङ्क्षा वाक्यस्य, न हि पटो भवतीति
वाक्यं रक्तरत्वादिनिश्चयादृते न पर्यवस्यतीति, यदि हि वाक्यमेव सामान्येनान्वयं प्रतिपाद्य विशेषा-
प्रकाशः।
नीमिति । गवयत्वविशिष्टपिण्डप्रत्यक्षकाल इत्यर्थः । तर्केनेति । प्रागुक्ततर्काद्गवयत्वे प्रवृत्ति-
निमित्ते तात्पर्यनिश्चयाद् गोसदृशपदं लक्षणया गवयत्वबोधकमित्यर्थः ।
उपलक्षणत्वनिमित्तत्वसन्देहेऽपि यो गोसदृशः स गवयपदवाच्य इति सामानाधिकरण्यरूपयथाश्रुतप-
दार्थान्वयेनैव वाक्ये पर्यवसिते पश्चाल्लक्षणा न कल्प्यते, यत्र त्वयोग्यतया मुख्यार्थान्वयाऽसम्भवः,
तत्रैव सेत्याह श्रुतेति ।
मानान्तरेति । मानान्तरं प्रत्यक्षं, तेनोपनीतं दर्शितमित्यर्थः । अन्यथेति । यदि पर्यवसिं-
प्रकाशिका।
मतेनेदमुपपादनीयम् । वस्तुतो गम्भीरायां नद्यामितिवदेकपदे एव लक्षणा पदान्तरन्तु नियामक-
मकरन्दः।
पूर्वत्वस्य किञ्चिन्निरूप्यत्त्वादह गवयपिण्डेति । गोसदृशपदमिति । यद्यप्येतन्न पदं किन्तु