न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 348, कुल 608 में से
संदर्भ में पढ़ें३१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां
अथासामेव साक्षात्कारितयेन्द्रियत्वेन तदनुमातव्यम्,
तथापि व्यापकस्य निरूपाधेर्नन्द्रियत्वमित्युपाधिर्वक्तव्यः । तत्र यदि कर्ण-
शष्कुलीवन्नियतशरीरावयवस्योपाधित्वं, तदा तावन्मात्रे वृत्तिलाभः । तद्लोपे च
वृत्तिनिरोधः श्रोत्रवत् प्रसज्येत । ततः शरीरमात्रमुपाधिरवसेयः । तथा च तद-
वच्छेदेन वृत्तिलाभे शिरसि मे वेदना, पादे मे सुखमित्याद्यव्याप्यवृत्तिप्रतीतिवि-
रोधः । असमवायिकारणानुरोधेन विभुकार्याणां प्रादेशिकत्वनियमात् । शरीरत-
बोधनी ।
वक्तव्यम् ; न हि कर्णशष्कुल्यनुपहितमाकाशं श्रोत्रं भवतीत्याह—अथ इति । अस्तु तर्हि शरीरा-
वयवः कश्चिदत्रोपाधिरित्यत्राह—तत्र यदि इति । दृश्यते चावयवान्तरे शरीरमात्रेऽपि मनसो
वृत्तिरिति भावः । ततः किमित्यत आह—ततः इति । ततोऽपि किमित्यत आह-तथा च इति ।
नेतु न कर्णशष्कुलीवन्नियतः शरीरावयवः कश्चिदुपाधिः, किन्तु शरीरं तदवयवाश्चानियमेनोपाधयः
सन्तु, तेन व्याप्यवृत्तिरवयवान्तरवृत्तिश्चोपपत्स्यत इत्याह—शरीरतदवयव इति । किंच सर्वेषा-
मप्यवयवानामुपाधित्वे शिरसि सुखमित्ययं नियमो नोपपद्येत, अवयवान्तराणामप्युपाधित्त्वेन तत्रापि
प्रकाशः ।
अथेति । ज्ञानकरणजन्यः सुखायनुभव इन्द्रियजन्यः जन्यप्रत्यक्षत्वात्, रूपप्रत्यक्षवत् ।
स्पर्शाद्यविषयत्वेन विशेषणान्न त्वगादिना अर्थान्तरम् । गन्धादिष्वेकैकमात्रप्रत्यक्षजनकत्वेन पृथिव्या-
दिभेदसिद्धौ निःस्पर्श, लाघवाच्च निरवयवमित्यर्थः । तथापीति । यथा श्रोत्रस्य विभ्विन्द्रियतया
कर्णशष्कुल्यवच्छिन्नस्यैवेन्द्रियत्वात्तदनवच्छेदेनोत्पन्नोऽपि शब्दो न गृह्यते, तदवच्छेदेनोत्पन्नस्यापि
तस्य तदुपघातान्न ग्रहः । तथा मनोऽनवच्छेदकशरीरावयवावच्छेदेनोत्पन्नं सुखाद्यपि तदवच्छेदेनो-
त्पन्नश्च तदुपघातान्न गृह्येतेत्यर्थः । असमवायीति । कार्यविभुविशेषगुणे चायन्नियमोऽतो न
व्याप्यवृत्तिकर्मजन्यविभुपरमाणुसंयोगेन व्यभिचारः ।
ननु किमससमवायिकारणं स्वावच्छिन्ने विभुकार्यं जनयतीति नियमः, स्वावच्छिन्ने जनयत्ये-
वेति वा, स्वावच्छिन्न एव जनयतीति वा ? आद्ये सुखादेरधिकदेशतायामापादकाभावः । द्वितीये
प्रकाशिका ।
द्रव्यतयेति शेषः । ज्ञानकरणेति । जन्यत्वमपि पक्षविशेषणं, तेन नेश्वरप्रत्यक्षे भागबाधः, इन्द्रियज-
न्यत्वं च विषयप्रत्यासन्नसंयोगिकरणसाध्यत्वमन्यथा इन्द्रियत्वस्य मनोगर्भतया साध्याप्रसिद्धेः, अत-
एव च ज्ञानकरणाजन्यत्वादिकमंशतो बाधवारणाय पक्षविशेषणमन्यथा मनोजन्यत्वमादायानुमित्यादावपि
साध्यसत्त्वेनांशतो बाधप्रसङ्गात, निःस्पर्शमिति । अतः इति पूरणीयन्तेन च कारणसङ्गतिः
मकरन्दः ।
तियोगिन्यात्मपरिमाणे साध्याव्यापकत्वात् । ज्ञानेति । जन्यत्वमपि पक्षविशेषणमतो नेश्वरप्रत्यक्षभागे
बाधः । इन्द्रियजन्यः = विषयप्रत्यासन्नसंयोगिकरणजन्य इत्यर्थः । तेनेन्द्रियत्वस्य मनोगर्भत्वादिक्षौ
न साध्याप्रसिद्धिः । यथेति । यद्यप्यतिप्रसङ्गभिया श्रोत्रस्योपाधिकल्पनेऽप्यत्र तदभावान्न तत्क-
टिप्पणी ।
सूचितस्तथा च नासङ्गतिः । आद्यन्तशब्दयोरप्युद्धवत्फलमप्रामाणिकम् । श्रोत्रप्रत्यासत्तिप्रत्यक्ष-
कालस्थित्यभावेनैवाप्रत्यक्षोपपत्तेरिति । कार्यविभुविशेषगुणे चेति । मूलानुवादो न विशेषणम्,
तेन विशेषगुणस्याकार्यत्वेऽपि न क्षतिः । स्वावच्छिन्न विभु कार्यं जनयतीति नियम
इति । अथ प्रथमपक्ष एवकारार्थप्रत्ययात् कथं नियम इति चेन्न । न हि परिसंख्यावन्नियमे-
ऽपीतरव्यावृत्तिमुखेनैव प्रतीतिनियमः, किन्तु प्राप्तांशपरिपूरणमुखेन पश्चात्प्रतीतिरिति प्रथमच्चे,
पक्षप्राप्तस्वावच्छिन्नांशपूरणेन तद्विशेषणदानलब्धेन यद्यद् विभुकार्यं तदसमवायिकारणावच्छिन्नं