न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 347, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुपलब्धेरर्थापत्त्वनिराकरणम् । ३१५
ज्ञानासमवायिकारणसंयोगाधारत्वादित्यादेरिति चेन्न । सर्वेषामापातः स्वरूपा-
सिद्धत्वात् । तथाहि । यदि रूपाद्युपलब्धीनां क्रियात्वेन करणतया मनोऽ-
नुमितिर्न तदा द्रव्यत्वसिद्धिः । अद्रव्यस्यापि करणत्वात् ।
बोधनी ।
च द्रव्यानारम्भकत्वमिह विवक्षितम् । आकाशादय एव दृष्टान्तः । ज्ञानस्यासमवायिकारणमात्ममन-
सोः संयोगः, तदाश्रयत्वान्मनसो वैभवमनुमीयते । आत्मवत्सर्वोपलभ्यमानकार्यत्वादात्मवदित्यादि-
शब्दार्थः । न इति । द्रव्यत्वासिद्ध्या चतुर्णां हेतूनामापातः स्वरूपासिद्धिः, निरूपणदशायां तु
धर्मिग्राहकप्रमाणवाध इति भावः । स्वरूपासिद्धिं तावदाह—तथाहि इति । अद्रव्यमपि हृष्टप्रय-
त्नसंयोगादिक्रियाकरणं दृष्टमिति ।
यद्यासां सुखाद्युपलब्धीनां साक्षात्काररूपत्वादिन्द्रियस्यैव तत्साधनत्वाच्चेन्द्रियतया मनोऽनुमीयते,
तथा च द्रव्यत्वं सिध्यति द्रव्यस्यैवेन्द्रियत्वादित्युच्येत तथापि व्यापकत्वे तस्योपाध्यवच्छेदेनैवेन्द्रियत्वं
प्रकाशः ।
ष्टान्तः । चतुर्थहेतावात्मा दृष्टान्तः । न च महत्त्वमुपाधिः, साधनाव्यापकत्वात् । न च सुखादिकं
मूर्तसंयोगासमवायिकारणगुणवृत्तिमद्गुणत्वव्याप्यजातिमत्, नित्यवृत्त्यनित्यविशेषगुणत्वाच्छब्दवत्
पागजवच्चेति प्रतिरोधः । मूर्तत्वस्याप्रयोजकत्वात्, अनात्मवृत्तित्वस्योपाधित्वाच्चेति भावः । आपातत
इति । यावन्मनो न सिद्धयतीत्यर्थः । स्वरूपासिद्धिमेवाह । तथाहीति ! अद्रव्यस्यापीति ।
लिङ्गज्ञानादेरित्यर्थः । द्रव्यत्वविनाकृतञ्च रूपादिभिर्व्यभिचारीति भावः ।
प्रकाशिका ।
गादीति साधारणम् । साधनेति । स्वमतावष्टम्मेनेदमुक्तम् । न च सुखादिकमिति । अत्र संयोग-
मादाय सिद्धसाधनमिति मूर्त्तेति । सुखकारणचन्दनसंयोगमादाय सिद्धसाधनमिति असमवायीति ।
कालिकव्याप्त्या गुणत्वव्याप्यत्वं सत्ताया अपीति तामादाय सिद्धसाधनमिति गुणवृत्तीति । तथा च
गुणवृत्त्या समवायेन गुणत्वव्याप्यत्वमर्थो लभ्यत इति न सत्तामादाय प्रसङ्गः । शब्दजशब्दे व्यभिचार
इति जातिगर्भता अनुसुखान्यतरत्त्वमादाय सिद्धसाधनमिति जातीति । न च समवायेन गुणत्वव्या-
प्यत्वस्य पूर्वं विवक्षितत्वानेकासिद्धसाधनमिति वाच्यम् । समवायेनेत्यस्य दैशिकव्याप्तिमात्रतात्प-
र्यात् । हेतौ जलायवयविस्नेहे व्यभिचार इति नित्येति । जलपरमाणुस्नेहे व्यभिचार इत्यनित्येति ।
परमाणुद्वित्वे व्यभिचार इति विशेपेति । भट्टमते शब्दस्य द्रव्यतयोभयसिद्धं दृष्टान्तरमाह ।
पाकजवच्चेति । अनात्मवृत्तित्वस्येति । विशेषगुणत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुपा-
धिरन्यथा प्रच्रयजन्यपरिमाणवृत्तिजातिमादायात्मपरिमाणे साध्याव्यापकतापत्तेः । यावन्मन इति ।
मकरन्दः ।
संयोगादीति भट्टमते । स्वमतावष्टम्मेनाह साधनेति । अन्यथा पक्ष एव साधनाव्यापकत्वात् ।
अजसंयोगेन सिद्धसाधनादाह मूर्त्तेति । चन्दनसंयोगेन सिद्धसाधनादाह असमवायीति । शब्दज-
शब्दे व्यभिचारवारणाय जातिगर्भत्वम् । तत्र च गुणपदं स्पष्टार्थम् । गुणत्वावान्तरपदं तादृशशब्दवृ-
त्तिसत्तायोगित्वेनार्थान्तरवारणाय । शब्दसुखान्यतरत्वादिकमादायार्थान्तरादाह जातिपदम् । जला-
वयविस्नेहे व्यभिचारादाह नित्यवृत्तीति । परमाणुस्नेहे व्यभिचारादाह अनित्येति । आत्मवृ-
त्तिद्वित्वे व्यभिचारादाह विशेषेति । भट्टमते शब्दस्य द्रव्यत्वादुभयसिद्धं दृष्टान्तरमाह पाकजव-
च्चेति । अनात्मेति । साधनावच्छिन्नसाध्यव्यापकोऽयमुपाधिः, अन्यथा प्रच्रयजन्यपरिमाणवृत्तिजा-
टिप्पणी ।
तिवन्धकतायामुक्तरीत्या व्यभिचारादभावस्यापि सिद्धान्तेऽनुच्छलत्वात् सामग्रीत्वेनैव प्रतिबन्धकत्वम्,
रूपमेदाच्चैकस्यापि कारणत्वप्रतिबन्धकत्वे क्षत्यभावाज् ज्ञाने उद्भूतत्वकल्पनमप्रामाणिकमित्येवास्वरसः