सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 340, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 340

३०८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां
विशेषेण ब्राह्मणत्वाद्यप्रतिसन्धानेऽनुष्ठानरूपस्याश्वासस्याभावात् । न हि पूर्वजन्मनि
मातापित्त्रोर्ब्राह्मण्यात्तदुत्तरत्र ब्राह्मण्यमिति नियमो, येन सर्गादौ वर्णादिधर्मव्यवस्था
स्यात् । ईश्वरवददृष्टविशेषोपनिबद्धभूतविशेषानुपलम्भात् । अतीन्द्रियार्थदर्शित्वे
चानाश्वासस्योक्तत्वात् ।
एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्त्तनमपास्तम् । सञ्चार-
शङ्केरभावात् । वर्षान्तरसञ्चरणमेव हि दुष्करं, कुतो लोकान्तरसञ्चारः, कुतस्त-
राञ्च ब्रह्माण्डान्तरगमनम् । अणिमादिसम्पत्तेरेवमपि स्यादितिचेन्न । अत्रापि प्रमा-
णाभावात् सम्भावनामात्रेण समाश्वासानुपपत्तेः । आद्यमहाजनपरिग्रहान्यथाऽनुपप-
त्तिरेवात्र प्रमाणमिति चेत् । न । एवम्भूतेककल्पनयैवोपपत्तौ भूयःकल्पनायां गौरव-
प्रसङ्गात् । विदेहनिर्माणशक्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात् । अस्त्वेक
एवेतिचेत्, न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति ॥ ३ ॥
बोधनी ।
श्वास्यन्तीत्याह-ईश्वरवत् इति । स हि तज्जातिविशेषे निमित्तमदृष्टविशेषसहकृतभूतभेदारब्ध-
शरीरत्वं जानाति नित्यसर्वज्ञत्वेनादृष्टविशेषवेदित्वात्तस्य, नैवं कपिलादयः तेषामदृष्टविशेषज्ञानहे-
तोर्भावनाया निरस्तत्वादिति । तर्हि ब्रह्माण्डान्तरवर्तिनो ब्राह्मणा ब्राह्मणदिवर्णान् तत्र संचार्य
तत्तद्वर्णविशेषप्रयुक्तान् धर्मान् व्यवस्थापयन्तीत्याह-एतेन इति । एतेन वक्ष्यमाणेन संचरण-
शक्त्यभावेनेति । अणिमादि इति । अणिमा, महिमा, लघिमा, गरिमा, प्राप्तिः, प्राकाम्यमी-
शित्वं, वशित्वमित्येभिरैश्वर्यैः संपन्नाः कपिलादयः । ततस्तेषां किन्नाम दुष्करमिति । न इति ।
अत्राणिमादिसंपत्ताविति । तत्र संभावना तावदस्तीत्याह-संभावना इति । आद्य इति । अत्र
कपिलादीनामैश्वर्येऽतीन्द्रियार्थदर्शित्वे च तदानीन्तनमहाजनपरिग्रहान्यथानुपपत्तिः प्रमाण-
मिति । न इति ॥ विशिष्टैकरूपकल्पनयापि परिग्रहस्योपपत्तौ न भूयसां विशिष्टानां कल्पनायां
प्रमाणमस्तीति । नन्वेककल्पनायामपि तस्य विदेहस्यैव निर्मातुं शक्तिरणिमाद्यैश्वर्यसंपत्तिश्च
कल्प्येतेति कल्पनागौरवमस्त्येवेत्यत्राह-विदेह इति । अनेककल्पनायामपि तद्विशिष्टमेवे-
त्यर्थः । अस्तु तर्हि कपिलादीनामन्यतमः स एकः किमीश्वरेणेत्यत्राह-अस्तु इति ॥ ३ ॥
यद्येक एवाङ्गीक्रियते स तर्हीश्वर एव स्यात् तमन्तरेणान्यत्र कपिलादावनाश्वासस्योक्तत्वा-
दिति परिच्छेदार्थं संकलप्य दर्शयन् सर्वास्वपि जातिष्वात्मनः परमेश्वरं प्रति प्रणतिं प्रार्थयते
प्रकाशः ।
प्रत्यक्षादित्याह । न हीति । ननु यथेश्वरेणादृष्टविशेषजन्यतया शरीरे ब्राह्मण्यदि साक्षात्कृत्य
सर्गादौ कपिलादयो वेदमध्याप्यन्ते, तथा कपिलादिभिरप्यध्येष्यत इत्यत आह । ईश्वरवदिति ।
अणिमादिसम्पत्तावप्यागम एव मानम् । तत्प्रामाण्यग्रह एव चानाश्वास इत्याह । अत्रापी-
ति । हेतुदर्शनशून्यैर्ग्रहणधारणादिरूपमहाजनपरिग्रहानुपपत्तिरेवाऽणिमादिसम्पत्तौ मानमित्याह ।
आद्येति । तथाविधाः किं बहवः कल्पनीयाः, एक एव वा ? नाद्य इत्याह । एवमिति । कल्प-
नायां लाघवसाचिव्यादेक एव विषय इति तन्नानात्वे मानाभाव इत्यर्थः । कल्पनागौरवमाह
विदेहेति । विविधो देहो विदेहः । अन्त्यमाशङ्क्य ईश्वरादन्यत्रानाश्वासेन तत्रैव पर्यवसानमिति
परिहरति । अस्त्वित्यादि ॥ ३ ॥
मकरन्दः ।
न्धानं न स्यात्, न त्वेवमित्यर्थः । मूलयुक्तिमाह । कल्पनायामिति ॥ ३ ॥