सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 339, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 339

द्वितीयस्तबके ] सर्गोपपादनम् । ३०५
न्तानस्येश्वरनिःश्वसितस्याऽनुवृत्तेः । कियानसावित्यत्राविरोधादागमप्रसिद्धमनति-
क्रम्य तावन्तमेव कालमित्यनुमन्यते । ब्रह्माण्डान्तरव्यवहारो वा कालोपाधिः ।
तदवच्छिन्ने काले पुनः सर्गः । यथा खल्वालाबुलतायां विततानि फलानि, तथा
परमेश्वराकाशेऽनुस्यूतानि सहस्रशोऽण्डानीति श्रूयते । तस्मादेवं विच्छेदसम्भवे
कस्य केन परिग्रहो, यतः प्रामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः ततः कार-
काभावान्नियतं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत् ।
बोधनी ।
योजनः श्वाससंतानोऽनुवर्त्तते, इतरथा हि तदानीं जीवनकालावच्छेदयोग्यक्रियाभावादियन्तं कालम-
नेन जीवितमतोऽयमायुर्मागः पक्व इति तत्क्रमो न स्यादिति। यद्यत्र कश्चित्पृच्छेत् कियान्तं कालमसौ
प्रलयोऽनुवर्त्तत इति, तत्रैवमुत्तरितव्यमित्याह-कियानसौ इति । प्रमाणविरोधाभावादागमप्रसि
द्ध्यनुसारेण यावन्तं कालं सर्गानुवृत्तिस्तावन्तं कालमिति । यद्वा, यावानागमेषूपदिश्यते तावानिति ।
सर्वथा ब्राह्मेण मानेन वर्षशतमिति । उपाध्यन्तरमाह-ब्रह्माण्डान्तर इति । यदेकस्मिन् ब्रह्मा-
ण्डे विनष्टे ब्रह्माण्डान्तरमुत्पद्यते तद्व्यवहारो वा तत्समये भाविनो ब्रह्माण्डान्तरस्यानुवृत्तिकालं यावद-
न्यस्य प्रलय इत्यर्थः । सन्ति च बहूनि ब्रह्माण्डानीत्याह-यथा खल्विति । श्रुतिरेवात्र प्रमाण-
मित्यर्थः । परमप्रकृतमुपसंहरति-तस्मादिति । उक्तैर्हेतुभिरेव सर्वेषां विच्छेदे परिग्राह्यपरिग्रही-
तृपरिग्रहाणामभावान्न तद्द्वारेण प्रामाण्यं शक्याभ्युपगममिति । परिग्रहमङ्गीकृत्याप्याह-ज्ञापक
श्चेति । महाजनपरिग्रहः खलु प्रामाण्यस्य ज्ञापकः । ननु ज्ञापकानि च कारकोत्पादितानीति
केवलं ज्ञापयन्ति, शब्दानां च मूलप्रमाणवत्ता प्रामाण्यकारणं, न हि सा नित्यस्य संभवति, स्वतः
प्रामाण्यमित्युक्तं, ततः कारकाभावानिवर्त्तमानं प्रामाण्यं ज्ञापकाभिमतः परिग्रहः सन्नपि कथं व्यव-
स्थापयेत् । न हि सहस्रचक्षुरपाऽपि नभसि नभस्वति वा रूपं शक्यसंपादमिति ।
प्रकाशः ।
कियानिति । ब्रह्मवर्षशतमेव कालोपाधिरित्यागमप्रसिद्धेरास्थीयते इत्यर्थः । यद्वा, प्रकृत-
ब्रह्माण्डान्यब्रह्माण्डवृत्तिः कालोपाधिरित्याह । ब्रह्माण्डेति । पूर्वं शब्दनित्यत्वस्य प्रवाहाविच्छेद-
रूपस्य नित्यत्वस्य चासिद्धिरुक्ता । इदानीमस्मदभिमतस्यापि महाजनपरिग्रहस्य सर्गादावसम्भ-
वादसिद्धिमाह । एवमिति । किञ्च महाजनपरिग्रहः प्रामाण्यज्ञापको, न तूत्पादकः, यस्तूत्पादको
गुणस्तदभावे ग्राह्यस्य प्रामाण्यस्याभावात् किन्तेन ग्राह्यमित्याह । ज्ञापकश्चेति । अयमर्थो =
महाजनपरिग्रहरूपः ।
द्वितीयामन्यथासिद्धिं दूषयितुमुपन्यस्यति-
प्रकाशिका ।
भाविप्रवाहोच्छेदयोः सिद्धिः कुत इत्यर्थः । षष्ठीसमासेऽन्यथेत्यादेरसङ्गतेः । यद्यपि भाविप्रवाह-
सिद्धयैव दृष्टान्तसिद्धिः, तथापि तदुच्छेदासिद्धौ उत्पन्नब्रह्माण्डादेर्विनाशित्वे इदानीन्तनब्रह्माण्ड-
स्याप्यनाशप्रसङ्ग इत्याशयेनोच्छेदोऽप्युक्तः । "परैः पूज्यमानानामप्यत्र प्रवेशा"दिति मूलं पूज्य-
त्वमत्र सदर्शनं प्रविशन्त्विति श्लाघाविषयत्वं तथा च नान्यत्रानधिकारेणात्र प्रवेश इत्यर्थः । क्वचि-
दप्रवेशादिति पाठः, तत्र तन्मतपूज्यानामपि चेदत्रानधिकारस्तर्हि तन्मतानधिकृतानामत्र प्रवेशा-
मकरन्दः ।
दिति मूलम्। पाषण्डैः स्वमतप्रवेशार्थं पूज्यमानानामप्यत्र प्रवेशदर्शनादनन्यगतिकतया नात्र प्रवेश
इत्यर्थः । वस्तुतोऽप्रवेशादिति पाठः । अत एव बौद्धाधिकारेऽपि तथैव पाठः । तत्र तन्मतप्रवि-
ष्टानां पूज्यानामेव नात्र प्रवेशाधिकारः, तत्राप्यनधिकृतानामत्र प्रवेशस्त्वसम्भावित एवेत्यर्थः ।
३६ न्या० कु०