न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 241, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] विभुनः कारणत्वसमर्थनम् । २०७
बोधनी ।
एवं भगवतः परमेश्वरस्य विचित्रविश्वप्रसङ्गेन प्रपञ्चरचनायां सहकारिकारणं तदुपज्ञसंप्रदायकं
च धर्माधर्माख्यमलौकिकं हेतुं प्रसाध्य परिच्छेदार्थमुपसंहरन्नयमेव, भगवतः सहकारिशक्तिनिय-
मेऽपि,च तत्तद्वादिभिः तत्तत्प्रवृत्तिनिमित्तयोगेन मायादिशब्दैर्जगत्कारणत्वेनाभिलप्यत इति प्रतिपा-
प्रकाशः।
अन्योन्याभावरूपव्यतिरेक एव प्रयोजको, न तु संसर्गाभावग्रहः । निमित्तसाधारणत्वात् ।
यत् कपालं तत्र घटो, यन्न कपालं तत्र नेतिवद् य आत्मा तत्र ज्ञानादि, यन्नात्मा तत्र
तद् नेति तद्ग्रहस्य सत्त्वात् । तथापि घटादिकं प्रति आत्मनो निमित्तकारणत्वग्रहः कुतः ।
तत्रोक्तगत्यभावात् । इत्थं, प्रयत्नवदात्मसंयोगश्चेष्टाद्वारा घटहेतुरिति प्रयत्नवदात्माऽपि तद्धेतुः ।
न चेवमपि संयोगो हेतुर्नात्मेति वाच्यम् । संयोगमात्रस्याहेतुत्वेन संयोगिविशेषितस्यैव हेतु-
त्वात् । अन्यथा दण्डसंयोगस्यैव घटहेतुत्वेन दण्डस्यातत्त्वप्रसङ्गात् । अथात्मसंयोगोऽपि हेतुर्-
सिद्धः । तदभावेन कार्याभावादर्शनादिति चेन्न । व्यधिकरणगुणजन्यकार्यत्वेन तत्समानाधिकर-
णगुणजन्यत्वानुमानात् । स्पर्शवद्वेगवद्द्रव्याभिघातजक्रियायां तथादर्शनात् । न च मूर्तमा-
त्रसमवेतासमवायिकारणकत्वमुपाधिः । कार्यकारणभावेन हेतोः साध्यव्याप्यतया तद्व्यापकत्व-
प्रकाशिका।
वायिकारणताग्राहकत्वमिति वाच्यम् । तथा सति समवायित्वस्य प्रथमत एव ग्रहे कार-
णतामात्रमेव सिद्धमिति सिद्धं नः समीहितमिति वदन्ति । तत्तूच्छम् । एवमपि अधि-
करणस्य समवायिनः तद्भिन्नस्य वा कारणतान्योन्याभावात्मकव्यतिरेकग्राह्येत्यत्र बाधकानुप-
न्यासात् । एवञ्च समवायिकारणताग्रह इत्युपलक्षणमधिकरणनिष्ठकारणताग्रह इति द्रष्ट-
व्यम्। अत एव कालादेरप्येवमेव कारणताग्रहो न तु संसर्गाभावग्रह इत्यादावसम्भवदिति
शेषः। नन्वेवं संसर्गाभावः क्वापि न कारणताग्राहको नेत्याह । निमित्तसाधारणत्वा-
दिति । निमित्तासमवायिसाधारणत्वात् । संसर्गाभावस्येति शेषः । तथापीति । यद्यप्यदृष्टा-
धारत्वमात्मनः प्रकृतं तच्च समवायिकारणत्वसिद्धयैव बोधितम् तथापि शिष्यहितैषितया
विचारोऽयम् । नन्वेवं संयोगिनोऽवच्छेदकत्वमस्त्वित्यत आह । अन्यथेति । यद्यपि संयो-
ग्यवच्छेदकत्ववादिनोऽत्रेष्टापत्तिः । तथापि कारणसंयोगाश्रयस्यावश्यं कार्यजनकत्वमिति निय-
माभिप्रायेणेदम् । व्यधिकरणगुणेति । प्रयत्नस्यान्वयव्यतिरेकाभ्यां चेष्टाकारणत्वे सिद्धे यः
स्पन्दो यदीयव्यधिकरणगुणजन्यः स तत्संयोगजन्य इति व्याप्तेश्चाऽऽत्मसंयोगस्य स्पन्दजनक-
त्वमित्यर्थः । फलगुरुत्वजन्योत्पतने व्यभिचार इति स्वव्यधिकरणेति । घटजन्यतत्स्पन्दे व्यभि-
चार इति गुणेति । कपालरूपजन्ये घटरूपे व्यभिचार इति कार्यपदस्य स्पन्दपरत्वम् । ईश्वर-
संयोगस्यापि घटादिकर्मजनकत्वमिति नेश्वरज्ञानादिजन्यघटादिकर्मणि व्यभिचारः । न च
फलकान्तरवृत्तिद्रव्यगुरुत्वजन्यायां फलकान्तरवर्तिद्रव्योर्ध्वक्रियायां व्यभिचार इति वाच्यम् ।
गुरुत्वाधारद्रव्यफलकसंयोगस्यापि तुलादण्डघटितसम्बन्धेन तत्क्रियाजनकत्वात् विपक्षबाधकचान्न
कारणप्रत्यासत्तेः कारणत्वावश्यकत्वमेवाप्रत्यासन्नजनकत्वेऽतिप्रसङ्ग एवेति । न चेति । साधन-
मकरन्दः ।
तथात्वं न स्यात् । तस्यापि देशकालरूपाधिकरणत्मकनिमित्तसाधारणत्वात् । न च यत् कपालं
तत्र समवायसम्बन्धेन घटः, यन्न कपालं न तत्र समवायेन घट इति विवक्षितमिति वाच्यम् ।
तर्हि समवायित्वं प्रथमत एव ग्राह्यमिति कारणत्वमात्रमेव तद्ग्राह्यमिति सिद्धं नः समीहि
तम् । सम्बन्धान्तरगर्भस्य च तस्य देशादिकारणत्वग्राहकत्वं कल्प्येत । तथापि विशिष्टं न
ग्राह्यं, किन्तु समवायिनः कारणत्वम् । एवमपि ग्राह्यमित्यत्र पूर्वकल्प एव वा तात्पर्यम् ।
नन्वेवं संयोगिनोऽवच्छेदकरूपमेवास्त्वित्यत आह--अन्यथेति । यद्यपि संयोगावच्छेदक-
त्ववादिनस्तुल्यमिदं, तथापि कारणसंयोगाश्रयस्यावश्यं कारणत्वमिति नियमाभ्युपगमावष्टम्भेने-
दम् । व्यधिकरणगुणेति । एतच्च प्रागेव व्याख्यातप्रायम् । न चेति । साधनव्यतिचार-