न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 240, कुल 608 में से
संदर्भ में पढ़ें२०६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १९ कारिकाव्याख्यायां
पेक्षणीयः स्यात् । तथा च सामान्यतो देशसिद्धावितरपृथिव्यादिबाधे तदतिरि-
क्तसिद्धिं को वारयेत् । एवमसमवायिनिमित्ते चोहनीये ॥ १६ ॥
बोधनी ।
कार्येण, स एव नः समवायिकारणमिति । नन्वस्तु तावता समवायिनः सिद्धिः किमायातात्मम-
सिद्धेरित्याह-तथा च-इति । सामान्यतस्तावत्कश्चिद्देशो भवतैवाभ्युपगतः, तत्र ज्ञानादयः
पृथिव्याद्यष्टद्रव्याश्रया न भवन्ति मानसप्रत्यक्षत्वात्, य उक्तसाध्या न भवन्ति न त उक्ता-
धना यथा रूपादयः पृथिव्या इत्यनेन पृथिव्याद्याश्रयत्वस्य बाधे सति सामान्यतो दृष्टानुमानपू-
र्वकात् परिशेषानुमानादष्टद्रव्यातिरिक्तद्रव्यसिद्धेः को वारयिता, न कश्चित् । तथा हि ज्ञानादयः
क्वचिदाश्रिताः कार्यत्वादूपादिवदिति सामान्यत आश्रयसिद्धौ ज्ञानादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रयाः
स्तदाश्रयत्वबाधे सति कार्यत्वात् , न यदेवं न तदेवं यथा रूपमिति । समवायिवदसमवायिनि-
मित्ते च कारणे बाधकबलादेवोहनीये इत्याह-एवम्-इति । समवायिमात्रकारणत्वेऽपि तन्नि-
त्यत्वात् कार्यस्य सततोत्पत्त्यादिप्रसङ्गः, असमवायिमात्रकारणत्वे इन्द्रियार्थसन्निकर्षे विनापि
आत्ममनःसंनिकर्षादेव बाह्यार्थविषयज्ञानोत्पादप्रसङ्गः, निमित्तमात्रादुत्पत्तावपि आत्ममनःसंनिक-
र्षाभावेऽपि तदुत्पादप्रसङ्ग इत्यादि बाधकमूहनीयम् ॥ १९ ॥
प्रकाशः
यित्वादित्यर्थः । तथापि समवायिविशेषसिद्धिः कुत इत्यत आह । तथा चेति । प्रसिद्धसम-
वायिवृत्तित्वबाधकसहकृतं समवायिवृत्तित्वसाधकमेवाप्रसिद्धसमवायि विषयीकरोति । सामा-
न्यग्राहकस्यान्य मानस्य सहकारिविशेषाद् विशेषे पर्यवसानदर्शनादित्यर्थः । यदा तु समवा-
यिवृत्तित्वानुमानान्तरं बाधकावतारः, तदा केवलव्यतिरेकिणस्तत्सिद्धिरिति भावः ।
एवमिति । तदन्यतराभावेऽपि कार्योत्पत्तिप्रसङ्गेनेत्यर्थः । वस्तुतः समवायिकारणत्वग्रहे
प्रकाशिका ।
प्रतीति । स्वरूपसम्बन्धात्मककारणतायां मानाभावे सत्येवं कल्पनेति भावः । प्रसिद्धस-
मवायीति । सामान्यतो दृष्टानुमानमेव बाधकोपनतं पृथिव्याद्यन्यत्वं समवायिनि विष-
यीकरोति सामान्यत एवोपनयस्य प्रमाणमात्रे सहकारित्वादिति भावः । यद्वा सामान्येनैव
रूपेण तन्मात्रं विषयीकरोति सामान्यतो दृष्टं बाधकावतारे, तदनवतारे तु तमन्यञ्च विशेषं
विषयीकरोतीति भावः । केवलेति । केवलव्यतिरेकिण एवाष्टद्रव्यातिरिक्तद्रव्यप्रकारसिद्धि-
रिति भावः । वस्तुत इति । अत्र केचित्, इदमापाततो भरस्तु प्रथमकल्प एव, तथा
हि समवायिकारणत्वं विशिष्टं तत्र च समवायित्वं मानान्तरेण गृहीत्वोक्तग्राहकेन कारण-
ताग्रहे संत्यर्थसमाजमहम्नैवं विशिष्टग्रहः, अन्यथा समवायिकारणत्वस्यापि विशिष्टस्य ग्राह्यत्वे
ग्राहकान्तरमाश्रियेत । न हि तत्र संसर्गाभावः प्रयोजको निमित्तसाधारण्यात्, नाप्यन्योन्या-
भावः, तदधिकरणे कार्यानुत्पादेन तस्य तत्राभावात् । किञ्चान्योन्याभावात्मकव्यतिरेको न सम-
वायिकारणताग्राहको निमित्तीभूतकालादिसाधारण्यात् । न च यत् कपालं तत्र समवायेन घट
इत्येवमात्मकस्यान्वयस्य यन्न कपालं न तत्र समवायेन घट इत्येवं रूपस्य च व्यतिरेकस्य सम-
मकरन्दः ।
श्रयान्तर्भाव इति भावः । तथापीति । असमवायिनोऽप्याधारत्वसम्भवादिति भावः ।
वस्तुत इति । यद्यपि समवायित्वसमानाधिकरणं कारणत्वमेव समवायिकारणत्वम् । तच्च
विशिष्टं न ग्राह्यं, किन्तु गोत्वादिसमवायित्वसाधारणसमवायित्वग्राहकसामाजात् कारणत्वग्राहका-
देवार्थसमाजमहम्ना विशिष्टसिद्धिः । अन्यथा समवायिकारणत्वस्यापि विशिष्टस्य ग्राह्यत्वे ग्राह-
कान्तरसम्बन्धमनुस्रियेत । न हि तत्र संसर्गाभावग्रहः प्रयोजकः । निमित्तसाधारणत्वात् ।
नाप्यन्योन्याभावग्रहः । तदधिकरणककार्यानुत्पादेन तस्य तत्राभावात् । यदि च कारणत्वमात्रमेव
तंतो ग्राह्यं तस्य निमित्तसाधारणतया ग्राहकस्य निमित्तसाधारण्यं न दोषस्तदा प्रकृतेऽपि
तुल्यम् । किञ्च संसर्गाभावग्रहस्य निमित्तसाधारणतया यदि न तद्ग्राहकत्वं, तदा निरुक्तस्यापि