सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 141, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 141

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १०७
बन्धकत्वायोगात् । किञ्चित्करत्वे चातीन्द्रियशक्तेः स्वीकारात् । मन्त्रादिप्रयोगे
चेतरेतराभावस्य सत्त्वेऽपि कार्यानुदयात् । अतोऽतीन्द्रियं किञ्चिद्दाहानुगुण-
मनुग्राहकमग्नेरुन्नीयते, यस्यापकुर्वतां प्रतिबन्धकत्वमुपपद्यते । यस्मिन्नविकले
कार्यं जायते । यस्यैकजातीयत्वादुनियतहेतुकत्वं निरस्यत इति । अत्रोच्यते ।
भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥
बोधनी ।
किमित्यत आह—किञ्चित्करत्वेऽपि इति । यत् किञ्चित् करोति सैवास्माकं शक्तिरिति । सिं-
हावलोकितन्यायेन कार्यार्थापत्तिमेवोपसंक्रम्याह-मन्त्रादीति । प्रयुज्यमाने मन्त्रादौ प्रतिबन्धके
तदितराभावोऽस्त्येव तथापि कार्यं न जायत एवेति । अथवा मन्त्रप्रयोगे मण्यादिप्रतिबन्धकाभावे
सत्यपि कार्यस्यानुदयः । एवं मणिप्रयोगे मन्त्राभावेऽपि । एकमेकतरमण्यादिप्रतिबन्धकप्रयोगे
तदितरमण्यादिप्रतिबन्धकाभावस्य सत्त्वेऽपि कार्यानुदय इति । तदुभयथाप्यन्वयव्यभिचारान्ना-
भावः कारणमिति । अर्थापत्तिभ्यां साध्यसिद्धिं निगमयति—अतोऽतीन्द्रियम् इति । तत्र
यस्यापकुर्वतामिति प्रतिबन्धकार्थापत्तेरुपसंहारः, यस्मिन्नित्यादिना त्वितरस्य इति । तथाच सति
शक्तिवादिनो न कश्चित् पूर्वोक्तदोष इति भावः ॥ सिद्धान्तमाह—अत्रोच्यते ।
भाव इति । अत्र पूर्वार्धेन कार्यार्थापत्तेरन्यथोपपत्तिरुपपाद्यते, उत्तरेणोत्तरस्याः ।
अयमर्थः—येन हेतुना भावः कारणं भवति तेनैवाभावोऽपि । न भावो भाव इत्येव कारणं किन्तु
कार्येणानुविहितान्वयव्यतिरेक इति, तच्चाविशिष्टमभावस्यापीति सोऽपि कारणम् । तुच्छत्वादका-
रणत्वे तत एव कार्यत्वमपि न स्यात्, क्रियते च प्रध्वंस इत्याह-कार्यवत् इति । यथा
प्रकाशः ।
बन्धजनकत्वात्तत्त्वं तत्राह । किञ्चित्करत्त्व इति । प्रतिबन्धकाभावमात्रकारणत्वे दूषणान्तर-
माह । मन्त्रादीति । यदि प्रागभावादिष्वनुगमकमभावत्वमेव, तदाऽन्योन्याभावेऽपि तद-
स्तीति प्रतिबन्धकसत्त्वेऽपि तदन्योन्याभावमादाय कार्योत्पत्तिप्रसङ्गः । संसर्गाभावत्वञ्च तद्-
व्यावृत्तं निर्वक्तुमशक्यमित्यर्थः । सिद्धमर्थमुपसंहरति । अतीन्द्रियमिति ।
ननु अनुगुणत्वं कार्याभावव्याप्याभावप्रतियोगित्वं सहकारिणोऽप्यस्तीति शक्तेः सहकारित्वा-
भ्युपगमेऽपसिद्धान्तः । शक्तिमत्कारणं न शक्तिरिति स्वीकारादिति विशिनष्टि । अनुग्राहकमिति ।
कारणतावच्छेदकमित्यर्थः । यस्यापकुर्वतामिति । कर्मणः कारकस्यैव सम्बन्धमात्रवि-
वक्षया षष्ठी । यस्येत्यनन्तरं स्वरूपमिति शेष इत्यन्ये । तथाच कारणतावच्छेदकशक्तेः प्रतिबन्ध-
केन नाशात् सति प्रतिबन्धके कार्याभाव उपपद्यते । नित्यानित्यघटितसामग्र्यां नित्यकारणशक्ते-
रनुत्पन्नभावत्वेनानाशेऽप्यनित्यकारणशक्तिनाशात् कार्याभावः । नचैवं पुरुषान्तरस्यापि ततो-
ऽग्नेर्दाहानुत्पत्तिः । प्रतिनियतकरतलानलसंयोगगतदाहानुकूलशक्तिनाशादिति भावः । शक्तेः प्रदे-
शान्तरेऽप्युपयोगमाह । यस्येति । तृणादीनां व्यभिचारात्कारणत्वमनुपपद्यमानमनुगतसाम-
र्थ्यमतीन्द्रियं कल्पयतीत्यर्थः ।
भावो यथेति । यथा येन प्रकारेणान्वयाद्यनुविधानेन कारणत्वग्राहकेन भावः कारणं
प्रकाशिका ।
न्धकत्वेति । प्रतिबन्धकपद्वाच्यत्वेत्यर्थः । संसर्गाभावत्वं चेति । संसर्गप्रतियोगिकत्वं च तत्-
प्रतियोगिकान्योन्याभावेऽतिव्याप्तमिति भावः । प्रतिनियतेति । फलबलेन तथा कल्पनादिति भावः ।
मकरन्दः ।
तस्याभ्युपगमादेतदुक्तमित्येके । तदेकदेशिमतेनेदमित्यन्ये । प्रतिनियतेति । फलबलेन तथा