सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 140, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 140

१०६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकावतरणिकायां
जायेत। न च प्रतिबन्धकाभावविशिष्टा सामग्री कारणम्। अभावस्याकार-
णत्वात्। तुच्छो ह्यसौ। प्रतिबन्धकोत्तम्भकप्रयोगकाले च तेन विनापि कार्यो-
त्पत्तेः। प्राग्ध्वंसादिविकल्पेन चानियतहेतुकत्वापातात्। अकिञ्चित्करस्य प्रति-
बोधनी।
ष्टस्य कार्यं प्रति व्यापारोऽङ्गीक्रियते तर्हि कर्मणि सत्यपि कार्यविभागः कदाचिन्न जायेत अदृष्टवै-
गुण्यसंभवादिति । उभयवादिसिद्धप्रतिबन्धकाभावेनान्यथोपपत्तिमाशङ्कयाह- न च-इति ।
किंमिति कारणं न भवतीत्यत आह-तुच्छ-इति । विधिरूपविरहस्तुच्छत्वमिति । ननु विधिरू-
पेण तुच्छत्वेऽपि स्वरूपेण सतः कथं कारणत्वानुपपत्तिरित्यत आह-प्रतिबन्धक इति । उत्त-
म्भकप्रयोगकाले प्रतिबन्धकस्य सत्त्वात् तेन प्रतिबन्धकाभावेन विनापि कार्योत्पत्तेर्व्यभिचाराद-
कारणमभाव इति । इतश्चाकारणमभाव इत्याह-प्राक्-इति । न तावत् प्रागभावः कारणं, प्रध्वंसे
व्यभिचारात्, न च प्रध्वंसः, प्रागभावे व्यभिचारात्, नात्यन्ताभावः, इतरत्र व्यभिचारात्, न
च समुच्चयेन, प्रत्येकं व्यभिचारात् असम्भवाच्च, नापि विकल्पेन, अनियतहेतुकत्वप्रसङ्गादिति ।
तथाचान्वयव्यतिरेकयोर्व्यभिचारादिति । एवं कार्यान्यथानुपपत्तिं शक्तिसद्भावे प्रमाणयित्वा प्रति-
बन्धकत्वान्यथानुपपत्तिमपि प्रमाणयति-अकिञ्चित्करस्य-इति । दृष्टेऽग्न्यादिस्वरूपे प्रतिब-
न्धादर्शनाददृष्टमनभ्युपगच्छतो मण्यादीनां प्रतिबन्धकत्वं न संभवतीति । अस्तु किञ्चित्करस्ततः
प्रकाशः।
पेयम्। तेन विना तदभावाधीनदाहाद्यभावानुपपत्त्याऽर्थापत्तेः शक्तिसिद्धिरिति भावः। ननु
यत्किञ्चिद्दाहप्रयोजकाभावस्तंत्र सिद्धयति, न तूक्तरूपः। यद्भावे दाहाभावस्तदभाव एव प्रयोज-
कोऽस्तु, अन्वयाद्यनुविधानादुभयसिद्धत्वाच्चेत्यत आह । न चेति । तुच्छो हीति । तुच्छ-
त्वं विधिरूपरहितत्वम् । अत्र कारणत्वं विधित्वव्याप्यमित्याशयात् । न त्वलीकत्वम्, मीमांस-
कैस्तथाऽनङ्गीकारात् । एतच्चाग्रे स्फुटम् । व्यतिरेकव्यभिचारमाह । प्रतिबन्धकेति । एकप्र-
तिबन्धकसत्त्वे तदन्यप्रतिबन्धकाभावे कार्यानुदयादन्वयव्यभिचारोऽपीति भावः। सामान्यतो
व्यतिरेकव्यभिचारमुक्त्वा विशिष्य तमाह । प्रागिति । परस्परव्यभिचारेण प्रतिबन्धकाभावहे-
तुत्वस्य ग्रहीतुमशक्यत्वाद् न तेनान्यथोपपत्तिरित्यर्थः । तावतामुपसंग्राहकश्चैक उपाधिर्ना-
स्तीत्यभिमानः। अत्र प्रागभावेति वक्तव्ये प्रध्वंसपदगम्याभावविशेषणतया प्रागभावस्य-
प्राप्तेः प्रागित्येतावन्मात्रमुक्तम् । प्रतिबन्धकत्वान्यथानुपपत्तिरूपामप्यर्थापत्तिमाह । अकि-
ञ्चिदिति । प्रतिबन्धजननं विना प्रतिबन्धकत्वानुपपत्तेरित्यर्थः । अथ शक्तिनाशरूपप्रति-
प्रकाशिका।
अदृष्टविशेषाजितमणिसमवधानस्य प्रतिबन्धकत्वमाशङ्कितमपि न निराकृतम् । दृष्टेनैव विशिष्टाभा-
वेनान्यथोपपत्तेः। तत्कल्पनायां मानाभावात् । अत एव मणिसमवधानजनकादृष्टस्यापि न प्रतिबन्ध-
कत्वमाशङ्कितं समवधानपूर्वं दाहापत्तेश्च, अदृष्टस्य तस्य पूर्वत एवानुवृत्तेः, तदा तदुत्पत्तौ कारणा-
भावात् । अविनाशयदवस्थकर्मणीति षष्ठीसमासः। मीमांसकैरिति । भट्टैरतिरिक्तस्य प्राभाकरैरधिक-
रणरूपस्यानलीकस्यैव स्वीकारादित्यर्थः। अन्वयव्यभिचारोऽपीति। प्रतिबन्धकाभावत्वेन कार-
णत्वात् कारणतावच्छेदकावच्छिन्नियतकिञ्चित्समवधान एव च कार्योत्पादादिति भावः। अत्रेति।
अभाववाचकध्वंसपदसन्निहितस्य प्राक्पदस्य लक्षण्या प्रागभावोपस्थापकत्वमिति भावः। प्रतिब-
मकरन्दः।
योजके पुरुषे तदुत्पत्तिरिति भावः।
मीमांसकैरिति । यद्यपि तैरभावो नाङ्गीक्रियते एव, तथाप्यधिकरणात्मकस्यापि