न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 138, कुल 608 में से
संदर्भ में पढ़ें१०४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकावतरणिकायां
यादृशादेव दाहो दृष्टः, तादृशादेव मन्त्रादिप्रतिबन्धे सति दाहो न जायते, असति
बोधनी ।
किमपि कार्यान्यथानुपपत्त्या कल्पनीयमिति भावः । तत्र दृष्टादृष्टयोरन्यतरवैगुण्येनार्थानुपप-
प्रकाशः ।
तीन्द्रियभावभूतधर्मवन्ति न वा? आत्मन्यदृष्टं तथा प्रसिद्धम् । यद्वा, कारणतावच्छेदकत्व-
मतीन्द्रियत्वव्याप्यं न वेति सामान्यतः । विशिष्य तु, वह्निर्दाहानुकूलादृष्टातीन्द्रियभावभूतधर्म-
वान्न वा ? करतलानलसंयोगो वा तादृशधर्मसमवायी न वा? आत्मा तथा प्रसिद्धः । अनुकूलत्वञ्च
प्रकाशिका ।
त्संयोगमादायांशतः सिद्धसाधनवारणाय (१) प्राचीनमते तस्य पक्षतावच्छेदकैक्येऽपि दोषत्वात् ।
अत एव स्थितिसंस्थापकादिमिति तद्वारणाय पूर्वं प्रयत्नः कृतः । अदृष्टपदं चाव्यासज्यवृत्त्यर्थकमतोऽधि-
करणभेदेनाभावभेदाभावादद्विष्ठपदेनैवाभाववारणे भावभूतपदमनर्थकमितिदूषणं परास्तम् । अती-
न्द्रियपदमुष्णस्पर्शादिना सिद्धसाधनवारणाय, अनुपलब्धिगम्याभाववादिनो भट्टस्य मतेऽभावस्य सर्व-
स्याप्यतीन्द्रियत्वम् । न्यायमतेऽचादृष्टाद्यभावस्यातीन्द्रियत्वमिति तद्वारणाय भावभूतेति । धर्मपदञ्च
साक्षात् सम्बन्धलाभाय तेन न परम्परासम्बद्धतादृशधर्मेणार्थान्तरम् । यद्वेति । तन्मते शक्तेरेव
सर्वत्र कारणतावच्छेदकतया तस्याश्चातीन्द्रियत्वाद् विधिकोटिप्रसिद्धिः । न च तन्मतेऽभावस्या-
तीन्द्रियतया तस्यैवावच्छेदकत्वमस्त्वित्यर्थान्तरं धर्मपदस्य समवेतपरत्वात् न्यायमते तु दण्ड-
त्वादेरपि कारणतावच्छेदकत्वान्निषेधकोटिप्रसिद्धिः । वह्निरिति । दाहानुकूलत्वं ताद्रूप्यसिद्धये-
विशेषणम् । तादृशेति । दाहानुकूलातीन्द्रियेत्यर्थः । अतीन्द्रियपदमत्र संयोगत्ववारणाय । नन्वनु-
कूलत्वं यदि जनकत्वं तदा बाधः शक्तेरजनकत्वात् यदि च जनकतात्वच्छेदकत्वं तदा दृष्टान्ता-
सिद्धिः, अदृष्टस्यानवच्छेदकत्वादत आह । अनुकूलत्वं चेति । व्याप्तिरत्र कालिकी । न च
प्रागभावगर्भस्यास्य नित्यस्थलेऽसम्भवः, तदगर्भस्य च दण्डाभावे सत्यपि घटसत्त्वेन व्यभिचारादन्या-
मकरन्दः ।
योगेन सिद्धसाधनवारणार्थमन्यासज्जवृत्त्यर्थपरम् । अन्यथा अधिकरणभेदेनाभावभेदानभ्युपगमे
तत एव प्रतिबन्धकाभावव्यवच्छेदे भावपदमनर्थकं स्यात् । उष्णस्पर्शादिना अंशतः सिद्धसाधन-
वारणायतीन्द्रियेति । न च तत एव प्रतिबन्धकाभाववारणे भावपदवैयर्थ्यं, भट्टमतेऽनुपलब्धि-
गम्यतया तस्यातीन्द्रियत्वात् । दुरदृष्टादिप्रतिबन्धकाभावस्याऽतीन्द्रियत्वाच्च । यथाकथ-
ञ्चित् सम्बन्धितयाऽदृष्टेनैवार्थान्तरवारणाय धर्मपदम् । न हि तदन्यधर्मस्तदनाश्रितत्वादित्याहुः ।
यद्वेति । न च प्रतिबन्धकाभावमादाय भट्टमतेऽर्थान्तरम्, धर्मपदस्य भावपरत्वादिति वदन्ति ।
दाहानुकूलत्वमत्र ताद्रूप्यसिद्धयर्थमेव । तादृशेति । दाहानुकूलातीन्द्रियेत्यर्थः । अत्र च संयो-
गत्वेनार्थान्तरवारणायातीन्द्रियेति ।
नन्वनुकूलत्वं यदि जनकत्वं, तदा तन्मतेऽपसिद्धान्तः । अथाऽवच्छेदकत्वं, तदास्मन्मतेऽ
(१) पक्षतावच्छेदकस्य साध्यतावच्छेदकधर्माक्रान्ततया साध्यरूपत्वे पक्षतावच्छेदकीभूत-
साध्यमादायापि सिद्धसाधनं दोषः प्राचीनमते, तन्मते तद्व्यावृत्तमेव साध्यतावच्छेदकं कर-
णीयम् । नवीनमते पक्षतावच्छेदकीभवत्साध्येन सिद्धसाधनं न दोषः, साध्यतावच्छेदकस्यासिद्धसा-
धारणस्येष्टतावच्छेदकत्व' भवात् तन्मते तत्साधारणमपि साध्यतावच्छेदकं भवत्येव, समानप्रका-
रकसिद्धेरेव नव्यमते विरोधित्वादिति भावः । अदृष्टवदात्मसंयोगविशिष्टवह्नेरेव कारणत्वेन स्थिति-
स्थापकविशिष्टस्यैव वंशस्य कर्मकारणत्वेन कारणपक्षकानुमाने तेषां पक्षतावच्छेदकत्वं बोध्यम् ।