सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 137, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 137

प्रथमस्तबके ] अपूर्वकारणताव्यवस्थापनम् । १०३
न तावदैन्द्रियकस्यातीन्द्रियं रूपम् , व्याघातात् । द्वितीये त्वपूर्वसिद्धिः ॥ ९ ॥
सिद्धयतु भूतधर्म एव गुरुत्वादिवदतीन्द्रियः । अवश्यं त्वयाऽप्येतदङ्गी-
करणीयम् । कथमन्यथा मन्त्रादिभिः प्रतिबन्धः । तथाहि । करतलानलसंयोगाद्

बोधनी ।
तच्चातीन्द्रियममीषां कर्मणां स्वरूपं वा सहकारिभेदो वेति । न तावत् पूर्वः कल्पः, ऐन्द्रियक-
त्वादतीन्द्रियत्वलक्षणविरुद्धधर्मसंसर्गोद्भेदप्रसङ्गेनैकत्वव्याघातादित्यत आह—न तावत्-इति ।
द्वितीयस्तु सिद्धसाधनमित्याह । द्वितीये तु-इति । कर्मणां फलोत्पत्यनुगुणोऽतीन्द्रियः सहकारिभेद
एवापूर्वम् । तु शब्दोऽभ्युपगमसूचनार्थः । अत्र कश्चिद् विपश्चिदन्यो व्याचष्टे-समस्तस्यैव श्लोक-
स्यार्थं निगमयति-तस्मादस्त्यतिशयः कश्चिदिति । आत्मसमवेत इति शेषः । ईदृशानीति ।
**भूतानि=**ईदृशान्येवात्मसमवेतमपूर्वमन्तरेणास्मदाद्यनुपलक्षणीयरूपविशेषविशिष्टानि जायन्ते । येन
भूतानि नियतोपभोगसाधनानीति । सुगममन्यत् ॥९॥ सम्भोगे निर्विशेषाणामिति विवरीष्यम् तद्वि-
परीतं चोदयति-सिद्ध्यतु-इति । सत्यं, यागादिजन्यमपूर्वमस्ति, तच्च भूतधर्म एवास्तु न त्वात्म-
धर्मः, गुरुत्ववेगादिवदिति । ननु रूपादय एव भूतधर्मा दृश्यन्ते कथं तदतिरेकिणोऽपूर्वस्य भूतधर्म-
त्वमित्यत आह—अवश्यम्-इति । त्वया नैयायिकमानिनापि कश्चिदतीन्द्रियः कार्योदयानुकूलो
भूतधर्मः शक्त्यादिपदवेदनीयोऽङ्गीकरणीयः, तथाऽपूर्वमपि भूतधर्मो भविष्यतीति भावः । शक्तेर्वा
कथमङ्गीकरणीयतेत्यत आह-कथमन्यथा-इति । मन्त्रादिभिर्दाहादिकार्यप्रतिबन्धस्तावद्
दृश्यते, स चान्यथानुषपद्यमानः शक्तिं कल्पयतीति । तदेव विभजते-तथा हि-इति- । यादृशा-
दग्नेः पूर्वं दाहो जातः तादृशादेव दृष्टवैकल्यरहितादेव न जायते दाहः । तेन दृष्टस्य व्यभिचाराददृष्टं

प्रकाशः ।
यसहकारी । यद्वा, रूपं धर्मो जातिरूपोऽजातिरूपो वा ? आद्ये । न तावदिति । व्यक्तियोग्यत-
यैव जातेर्योग्यत्वादित्यर्थः ॥ ९ ॥
अन्त्यं शङ्कते । सिद्धयत्विति । नैतावताऽप्यात्मधर्मापूर्वसिद्धिः । भूतवृत्त्यतीन्द्रिय-
धर्मादेवोपपत्तेरिति भावः । गुरुत्वादिवदित्यादिपदेन मीमांसकाभिमतशक्तिर्गृह्यते । तत्र
शक्तार्थापत्तिं प्रमाणयति । तथाहीति । शक्तौ विप्रतिपत्तिः । कारणानि स्वजन्यानुकूलादृष्टा-

प्रकाशिका ।
अन्त्यमिति । द्वितीयव्याख्यानुसारेणेदम् । प्रथमव्याख्यायान्तु सहकारिभेदोऽपूर्वमेवास्तु भू-
तधर्म एव कश्चनातीन्द्रियोऽस्त्वित्याशङ्केति ध्येयम् । कारणानीति । पण्डापूर्वे भागबाधा
इति कारणत्वपर्यन्तं पक्षतावच्छेदकं, गुरुत्वस्थितिस्थापकादिमत्त्यंशतः सिद्धसाधनमिति स्वज-
न्यानुकूलेति । तदर्थश्च स्वनििमित्तकारणानुकूलत्वं स्थितिस्थापकश्च स्वाश्रयसमवायिकारणककर्मा-
नुकूलमिति तस्य व्युदासः । केचित्तु स्वजन्यानुकूलत्वं ताद्रूप्यसिद्धये विशेषणं यथाश्रुतार्थकमेव,
स्थितिस्थापकाश्रयभिन्नस्यैव च पक्षत्वमतो न सिद्धसाधनमंशत इत्याहुः । अदृष्टपदं च अदृष्टवदा-

मकरन्दः ।
कारणानीति । वस्तुमात्रपक्षत्वे भागवाघादिरजनके पण्डापूर्वादौ तन्मते स्यादिति कार-
णीत्युक्तम् । नचादृष्टस्थितिस्थापकगुरुत्वादिकमादायापि पृथिव्यादिष्वंशतः सिद्धसाधनम् । त-
द्विन्नकारणस्यैव पक्षत्वात् । न च पक्षतावच्छेदकैक्ये तद्दोष एव नेति वाच्यम् । प्राचीनमतेनैवो-
क्तत्वाद् , अन्यथा अदृष्टपदप्रक्षेपानुपपत्तेः । अत एव वक्ष्यमाणहेतुपक्षतावच्छेदकयोर्नाभेदः ।
स्वजन्यानुकूलत्वं ताद्रूप्यसिद्धये । यद्वा, स्थितिस्थापकवतोऽपि पक्षान्तर्भावात् तमादायांशतः
सिद्धसाधनवारणार्थं तत् । तदर्थश्च स्वनििमित्तकारणानुकूलत्वमित्याहुः । अदृष्टपदमदृष्टवदात्मसं-