सामग्री पर जाएँ
सर्वकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 11, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 11

मनपह्नवनीयतां गतमस्ति । तथा हि कुसुमाञ्जलिग्रन्थे 'कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः ।
वाक्यात्संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ।' इति पद्ये अष्टविधेपु अनुमानेषु ब्रह्माण्डविषयीणि
कार्यायोजनधारणानि पक्षीकृत्येश्वरानुमानमुक्तं तत्तु ब्रह्माण्ड इव पिण्डाण्डेऽपि स्वतन्त्रनाडीतन्त्रकृतं
शरीरनिर्माणात्मकं कार्यं, तदारम्भकपरमाणुप्रेरणात्मकमायोजनं, जीवतः शरीरधारणात्मकञ्च पक्षी-
कृत्य सम्यगवगन्तुं शक्यते । 'पदात्प्रत्ययतः श्रुतेः' वाक्याच्च नादसापेक्षात् ईश्वरानुमानं पूर्वोक्त-
नादप्रक्रियया स्वतन्त्रनाडीतन्त्रमूलिकया स्पष्टमवगन्तुं शक्यत इति पराहन्तानुभवानुसारेण
एकस्मिन्सर्वविषयकज्ञाने स्थिरीकृते सति तदनुसारिमनननिदिध्यासनादिद्वारा जीवस्यापि सर्वज्ञ-
त्वसिद्धिरप्रत्यूहा भवति । अत एव
स्वर्गापवर्गयोर्द्वारमामनान्त मनीषिणः ।
यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥
न्यायचर्चैयमीशस्य मननव्यपदेशभाक् ।
उपासनैव क्रियते श्रवणानन्तरागता ॥
इत्युक्तं न्यायकुसुमाञ्जलौ । इयांस्तु विशेषः-अद्वैतवादिनां द्वैतवादिनाञ्चेश्वरविषयविवादे
मध्यसेतुभूतास्तत्रभवन्त उदयनाचार्याः स्वकीयया अलौकिक्या नैयायिकपरिभाषया ईश्वरतत्त्वम-
नुमानद्वारा उभयाविरुद्धं साधयन्ति, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यैव सम्पूर्णेऽस्मिन्ग्रन्थे
उपलभ्यमानत्वात् । अन्तरा अनूद्यमाने जीवेश्वरभेदादौ तु अनूद्यमानत्वमेव न विधेय-
त्वम्, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यात्र ग्रन्थे क्वचिदप्यदर्शनात्, प्रत्युत—
'न ग्राह्यभेदसवधूय धियोऽस्ति वृत्तिस्तद्बाधने बलिनि वेदनये जयश्रीः ।
नोचेदनिन्द्वमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥'
( आत्मतत्त्वविवेके ) इत्यादिना आचार्यैर्वैदकसिद्धे परमेश्वरतत्त्वे स्वतात्पर्यमाविष्कृत-
मन्यत्र, अतः प्रामाणिकानामयमत्यन्तमुपादेयः कुसुमाञ्जलिग्रन्थ इति न तिरोहितमस्ति विदुषाम् ।
नैयायिकानामपि परलोकधर्माधर्मविषयेषु नैयायिकप्रक्रियानुरोधिविप्रतिपत्त्याद्यभ्यासार्थं बहुटीका-
सनाथः विशेषतो मिथिलामण्डलमण्डनायमाननैयायिकवरपूज्यवच्चाझामहोदयकृतटीकोपबृंहितोऽयं
ग्रन्थो अतीव प्रकाशकरो वर्तत इति उचिततममुपादेयतमञ्चैतत्प्रकाशनं श्रीमता श्रेष्ठिवरेण जयकृष्ण-
दासगुप्तमहोदयेन कृतं प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतइष्टसाधनताककर्माऽनुष्ठानरूपभारतीय-
राजनीतिरूपमेवेति सहर्षमस्माभिरनुमोद्यते । इति ।