न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 17, कुल 608 में से
संदर्भ में पढ़ेंकुसुमाञ्जलिकारिकाः
प्रथमः स्तवकः ।
सत्पक्षप्रसरः सतां परिमलोद्बोधबद्धोत्सवो
विम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः ।
ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रम-
चेतो मे रमयत्वविघ्नमनघो न्यायप्रसूनाञ्जलिः ॥ १ ॥
स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः ।
यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ २ ॥
न्यायचर्चैयमीशस्य मननव्यपदेशभाक् ।
उपासनैव क्रियते श्रवणानन्तरागता ॥ ३ ॥
सापेक्षत्वादनादित्वाद्द्वैचित्र्याद्विश्ववृत्तितः ।
प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥ ४ ॥
हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च ।
स्वभाववर्णना नैवमवधेर्नियतत्वतः ॥ ५ ॥
प्रवाहो नादिमानेष न विजात्येकशक्तिमान् ।
तत्त्वे यन्नवता भाव्यमन्वयव्यतिरेकयोः ॥ ६ ॥
एकस्य न क्रमः कापि वैचित्र्यञ्च समस्य न ।
शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥ ७ ॥
विफला विश्ववृत्तिर्नो न दुःखैकफलापि वा ।
दृष्टलाभफला वापि विप्रलम्भोऽपि नेदृशः ॥ ८ ॥
चिरध्वस्तं फलायालं न कर्मातिशयं विना ।
सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि ॥ ९ ॥
भावो यथा तथाऽभावः कारणं कार्यवन्मतः ।
प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ॥ १० ॥
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ।
स्वगुणाः परमाणूनां विशेषाः पाकजादयः ॥ ११ ॥
निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ।
देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा ॥ १२ ॥
ज्येतरनिमित्तस्य वृत्तिलाभाय केवलम् ।
परोद्देश्यसमवेतस्य परीक्षाविधयो मताः ॥ १३ ॥
कर्तृधर्मा नियन्तारश्चेतिता च स एव नः ।
अन्यथाऽपवर्गः स्यादसंसारोऽथ वा ध्रुवः ॥ १४ ॥
नान्यदृष्टं स्मरत्यन्यो नैकं भूतसंप्रक्रमात् ।
वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे ॥ १५ ॥
न वैजात्यं विना तत् स्यात् न तस्मिन्ननुमा भवेत् ।
विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥ १६ ॥
७३ न्या० कु०