न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 70, कुल 176 में से
संदर्भ में पढ़ें३२ : न्यायविन्दुः
अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टेत्याह—
प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः।
प्रतिषेधव्यवहारस्य सिद्धिर्यथोक्ता या दृश्यानुपलब्धिस्तत एव भवति
यतस्तस्मादन्यतो नोक्ता।
ततस्तत्कस्माद्भवतीत्याह—
सति वस्तुनि तस्या असंभवात्।
सति तस्मिन्प्रतिषेध्ये वस्तुनि यस्माद्दृश्यानुपलब्धिर्न संभवति
तस्मादसंभवात्ततः प्रतिषेधसिद्धिः।
अथ तत एव कस्मादित्याह—
अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्र-
कृष्टेष्वात्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावात्।
सति वस्तुनि तस्या अदृश्यानुपलब्धेः संभवादित्यन्यथा शब्दार्थः।
एतस्मात्कारणान्नान्यथा अनुपलब्धेः प्रतिषेधसिद्धिः। कुत एतत्सत्यपि
वस्तुनि तस्याः संभव इत्याह। अनुपलब्धिलक्षणप्राप्तेष्वित्यादि। इह
प्रत्ययान्तरसाकल्यात्स्वभावविशेषाच्चोपलब्धिलक्षणप्राप्तार्थ उक्तः। द्वयोरेक¹-
स्याप्यभावेऽनुपलब्धिलक्षणप्राप्तोऽर्थ उच्यते। तदिहानुपलब्धिलक्षणप्राप्ते-
ष्विति प्रत्ययान्तरवैकल्यवन्त उक्ताः। देशकालस्वभावविप्रकृष्टेष्विति।
स्वभावविशेषविप्रकृष्टा² उक्ताः। देशश्च कालश्च स्वभावश्च तैर्विप्रकृष्टा इति
विग्रहः। तेष्वभावनिश्चयस्याभावात्। सत्यपि वस्तुनि तस्याभाव इष्टः।
कस्मान्निश्चयाभाव इत्याह। तेषु प्रतिपत्तू³रात्मनो यत्प्रत्यक्षं तस्य निवृत्तेः
कारणान्निश्चयाभावः। यस्मादनुपलब्धिलक्षणप्राप्तेष्वात्मप्रत्यक्षनिवृत्तेरभा-
वनिश्चयाभावस्तस्मात्सत्यपि वस्तुन्यात्मप्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुप-
लब्धेः संभवः। ततो यथोक्ताया एव प्रतिषेधसिद्धिः।
१. 'एकस्य' इति पाठ० ख० पुस्तक एव विद्यते। क० पुस्तके मुद्रितपुस्तके च
'एकैकस्य' इति पाठ उपलभ्यते। २. स्वभावविशेषविप्रकृष्टाः, स्व० स्वभावविशेष-
रहिताः। ३. ज्ञातुः।