सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 71, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 71

द्वितीयपरिच्छेदः ३३
अथैयं दृश्यानुपलब्धिः कस्मिन्काले प्रमाणं किंस्वभावा किंव्यापारा
चेत्याह—
अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तुः-
प्रत्यक्षस्य निवृत्तिरभावव्यवहारसाधनी ।
१प्रतिपत्तुः प्रत्यक्षो घटादिरर्थस्तस्य निवृत्तिरनुपलब्धिस्तदभावस्वभा-
वेति यावत् । अत एवाभावो न साध्यः स्वभावानुपलब्धेः सिद्धत्वात् ।
अविद्यमानोऽपि च घटादिरेकज्ञानसंसर्गिणि भूतले भासमाने समग्र-
सामग्रीको ज्ञायमानो दृश्यमानतया२ संभावितत्वात्प्रत्यक्ष उक्तः । अत
एकज्ञानसंसर्गी३ दृश्यमानोऽर्थस्तज्ज्ञानं च प्रत्यक्षनिवृत्तिरुच्यते । ततो
हि दृश्यमानादर्थात्तद्बुद्धेश्च समग्र४दर्शनसामग्रीकत्वेन प्रत्यक्षतया संभावि-
तस्य निवृत्तिरवसीयते । तस्मादर्थज्ञान एव प्रत्यक्षस्य घटस्याभाव उच्यते ।
न तु निवृत्तिमात्रमिहाभावो निवृत्तिमात्राद्दश्यनिवृत्त्यनिश्चयात् । ननु च
दृश्यनिवृत्तिरवसीयते दृश्यानुपलम्भात् । सत्यमेवैतत् । केवलमेकज्ञान-
संसर्गिणि दृश्यमाने घटो यदि भवेद्दृश्य एव भवेदिति दृश्यः संभावित-
स्ततो दृश्यानुपलब्धिनिश्चिता । दृश्यानुपलब्धिनिश्चयसामर्थ्यादेव च
दृश्याभावो निश्चितः । यदि हि दृश्यस्तत्र भवेद्दृश्यानुपलम्भो न भवेत् ।
अतो दृश्यानुपलम्भनिश्चयाद्दृश्याभावः सामर्थ्यादवसितो न तु५ व्यवहृत
इति दृश्यानुपलम्भेन व्यवहर्तव्यः । तस्मादर्थान्तरमेकज्ञानसंसर्गि दृश्य-
मानं तज्ज्ञानं च प्रत्यक्षनिवृत्तिनिश्चयहेतुत्वात्प्रत्यक्षनिवृत्तिरुक्तं द्रष्टव्यम् ।
यथा चैकज्ञानसंसर्गिणि प्रत्यक्षघटस्य प्रत्यक्षत्वमारोपितमसतोऽपि तथा
तस्मिन्नेकज्ञानसंसर्गिण्यतीते वर्तमाने चामूढस्मृतिसंस्कारे च घटस्य तद्रूप-
मारोपितमसत इति द्रष्टव्यम् । अनेन दृश्यानुपलब्धिः प्रत्यक्षघटनिवृत्ति-
स्वभावोक्ता । सा च सिद्धा तेन न६ घटाभावः साध्योऽपि त्वभावव्य-
वहार इत्युक्तम् ।
१. इदं पदं ख० पुस्तक एवोपलभ्यते । २ 'दृश्यमानतया' इति पाठः ख० पुस्तक
एवास्ति । अन्यत्र सर्वत्र तु 'दृश्यतया' इत्येव पाठः । ३. संसर्गी, ख० संसर्गात् ।
४. समग्र, ख० समय । ५. 'तु' इति पाठः ख० पुस्तके नैवोपलभ्यते । ६. 'न'
इति पाठः ख० पुस्तके नैवोपलभ्यते ।
५ न्या०