सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 117, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 117

अनयोरिति । सपक्षे नित्ये कृतकत्वप्रयत्नानन्तरीयकत्वयोरसत्त्वमेव
निश्चितम् । अनित्ये विपक्षे एव सत्त्वं निश्चितमिति विपर्ययसिद्धिः ।
कस्मात्पुनर्विपर्ययसिद्धावप्येतौ विरुद्धावित्याह —
एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ ।
एतौ च साध्यस्य नित्यत्वस्य विपर्ययमनित्यत्वं साधयतः साध्य-
विपर्ययसाधनाद्विरुद्धौ ।
यदि साध्यविपर्ययसाधनाद्विरुद्धावेतावुक्तं न परार्थानुमाने साध्यं न
त्वनुक्तम् । इष्टं चानुक्तमतोऽन्य इष्टविघातकृद्वाच्यमिति दर्शयन्नाह—
तत्र च तृतीयोऽपीष्टविघातकृद्विरुद्धः ।
ननु च तृतीयोऽपि विरुद्ध उक्तः । उक्तविपर्ययसाधनौ द्वौ तृतीयोऽ-
यमिष्टस्य शब्देनानुपात्तस्य विधानं करोति विपर्ययसाधनादिति । इष्ट-
विघातकृत् ।
तमुदाहरति—
यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयना-
शनाद्यङ्गवदिति ।
यथेति । चक्षुरादय इति धर्मी । परोऽर्थः प्रयोजनं संस्कार्य उप-
कर्तव्यो येषां ते परार्था इति साध्यम् । संघातत्वात्संचितरूपत्वादिति
हेतुः । चाक्षुरादयो हि परमाणुसंचितिरूपाः । ततः संघातरूपा उच्यन्ते ।
शयनमासनं चादिर्यस्य तच्छयनासनादि । तदेवाङ्गं पुरुषोपभोगाङ्गत्वात् ।
अयं व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि पारार्थ्येन संहतत्वं व्याप्तम् ।
यतः शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति
परार्था उच्यन्ते ।
कथमयमिष्टविघातकृदित्याह—
तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः ।
तदिष्टासंहतपारार्थ्यविपर्ययसाधनादिति । असंहते विषये पारार्थ्यम-
संहतपारार्थ्यम् । तस्य सांख्यस्य वादिन इष्टमसंहतपारार्थ्यं तदिष्टासंहतपारार्थ्यं
तस्य विपर्ययः । संहतपारार्थ्यं नाम तस्य साधनाद्विरुद्धः । आत्मास्तीति