सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 116, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 116

७८ न्यायबिन्दुः
सहचारिणि निवृत्ते निवर्तते वचनमित्याशङ्क्याह—
अर्थान्तरस्य वा कारणस्य निवृत्तौ न वचनादेर्नि-
वृत्तिरिति संदिग्धव्यतिरेकोऽनैकान्तिको वचनादिः ।
अर्थान्तरस्य वा कारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण नान्यस्य
वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिविरहश्चेति । इति शब्दस्त-
स्मादर्थे । तस्मादससर्वज्ञत्वविपर्ययाद्विपक्षात्सर्वज्ञत्वाद्रागादिमत्त्वविपर्ययादरा-
गादिमत्त्वात्संदिग्धो व्यतिरेको वचनादेः । अतोऽनैकान्तिको वचनादिः ।
एवमेकैक रूपासिद्धिसंदेहे हेतुदोषानाख्याय द्वयोर्द्वयोरूपयोरसिद्धि-
संदेहे हेतुदोषान्वक्तुकाम आह—
द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः ।
द्वयो रूपयोर्विपर्ययसिद्धौ सत्यां विरुद्धः ।
त्रीणि च रूपाणि सन्ति ततो विशेषज्ञापनार्थमाह—
कयोर्द्वयोः सपक्षे सत्त्वस्यासपक्षे चासत्त्वस्य यथा
कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धो
हेत्वाभासः ।
कयोर्द्वयोरिति । विशिष्टे रूपे दर्शयति । सपक्षे सत्त्वस्यासपक्षे
चासत्त्वस्य विपर्ययसिद्धाविति सम्बन्धः । कृतकत्वमिति स्वभावहेतुः ।
प्रयत्नानन्तरीयकत्वमिति कार्यहेतोः । प्रयत्नानन्तरीयकशब्देन हि प्रयत्नानन्तरं
जन्म ज्ञानं च प्रयत्नानन्तरीयकमुच्यते । जन्म जायमानस्य स्वभावः । ज्ञानं
ज्ञेयस्य कार्यम् । तदिह प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुः । एतौ
हेतू नित्यत्वे साध्ये विरुद्धौ हेत्वाभासौ ।
कस्मात्पुनरेतौ विरुद्धावित्याह—
अनयोः सपक्षेऽसत्त्वमसपक्षे च सत्त्वमिति
विपर्ययसिद्धिः ।
१ 'तस्मादससर्वज्ञत्वविपर्ययाद्विपक्षात्' आदि, ख० 'तस्मादससर्वज्ञत्वाद्वीतरागत्वविपर्य
यात् (अशुद्धः) विपक्षात्सर्वज्ञत्वाद्वीतरागादिमत्त्वात्संदिग्धः' आदि ।