न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 118, कुल 176 में से
संदर्भ में पढ़ें८० न्यायबिन्दुः
ब्रुवाणः सांख्यः । कुत एतदिति पर्य्यनुयुक्तो बौद्धेनेदमात्मनः सिद्धये प्रमाण-
माह । तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु
हेतुविपर्ययव्याप्तः । यस्माद्यो यस्योपकारकः स तस्य जनकः । जन्यमानश्च
युगपत्क्रमेण वा भवति संहतः । तस्मात्परार्थाश्चक्षुरादय इति संहतपरार्था
इति सिद्धम् ।
स इह कस्मान्नोक्तः ।
अयं च विरुद्ध आचार्यदिङ्नागेनोक्तः । स कस्माद्वार्तिककारेण सता
त्वया नोक्तः ।
इतर आह—
अनयोरेवान्तर्भावात् ।
अनयोरेव साध्यविपर्ययसाधनयोरन्तर्भावात् ।
ननु चोक्तविपर्ययं न साधयति तत्कथमुक्तविपर्ययसाधनयोरेवान्तर्भाव
इत्याह—
न ह्ययमाभ्यां साध्यविपर्ययसाधनत्वेन भिद्यते ।
नह्ययमिति । हीति यस्मादर्थे । यस्मादयमिष्टविघातकृदाभ्यां हेतुभ्यां
साध्यविपर्ययसाधनत्वेन न भिद्यते । यथा तौ साध्यविपर्ययसाधनौ तथा-
यमप्युक्तविपर्ययं तु साधयतु वा मा वा किमुक्तविपर्ययसाधनेन । तस्मा-
दनयोरेवान्तर्भावः ।
ननु चोक्तमेव साध्ये तत्कथं साध्यविपर्ययसाधनत्वेनाभेद इत्याह-
न हीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेषः इति द्वयो
रूपयोरेकस्यासिद्धावपरस्य च संदेहेऽनैकान्तिकः ।
नहीति । यस्मादिष्टोक्तयोः परस्परं १स्य साध्यत्वेन न कश्चिद्विशेषे
भेद इति । तस्मादनयोरेवान्तर्भावः इत्युपसंहारः । प्रतिवादिनो हि यज्जि-
ज्ञासितं तत्प्रकरणापन्नम् । यच्च प्रकरणापन्नं तत्साधनेच्छया विषयीकृतम् ।
साध्यमिष्टमुक्तमनुक्तं वा ।
१. परस्परस्य, क० परस्परस्मात् ।