सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 115, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 115

वस्तुनि च परस्परपरिहारविरोधः । वस्तुन्येव कतिपये सहानवस्थानं^१-
विरोधः । तस्माल्लिङ्गव्यापारौ भिन्नविषयौ च । ततो नानयोरन्योन्यान्त-
र्भाव इति ।
स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञतयोर्न संभवति ।
स चायं द्विविधोऽपि^२ विरोधो वक्तृत्वं च सर्वज्ञत्वं च तयोर्न
संभवति न ह्यविकलकारणस्य सर्वज्ञत्वस्य वक्तृत्वभावादभावगतिः । सर्वज्ञत्वं
ह्यदृश्यम् । अदृश्यस्य चाभावो नावसीयते । ततो नानेन विरोधगतिर्भवति ।
न च वक्तृत्वपरिहारेण सर्वज्ञत्वमवस्थितम् । काष्ठादयोऽपि वक्तृत्वपरि-
हृतास्तेषामपि सर्वज्ञत्वप्रसङ्गात् । नापि सर्वज्ञत्वपरिहारेण वक्तृत्वम् ।
काष्ठादीनामपि वक्तृत्वप्रसङ्गात् । तत एवाविरोधाद्वक्तृत्वविधानेन सर्व-
ज्ञत्वनिषेधः ।
स्यादेतत् । यदि नास्त्येव विरोधो घटपटयोरिव । स्यादपि तयोः
सहावस्थितिदर्शनम् । अदर्शनात्तु विरोधगतिः । विरोधाच्चाभावगति-
रित्याशङ्क्याह—
न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः । रागा-
दीनां वचनादेश्च कार्यकारणभावासिद्धेः ।
न चाविरुद्धविधेरिति । अनुपलब्धावपि नायं विरुद्धविधिः । यद्यपि
च^३ सहावस्थानानुपलम्भस्तथापि न तयोर्विरोधो यस्मान्न सहानुपलम्भ-
मात्राद्विरोधोऽपि तु द्वयोरुपलभ्यमानयोर्निवर्त्य^४निवर्तकभावावसायात् ।
तस्मादनुपलब्धावपि न वक्तृत्वविरोधिविरुद्धविधिः । अतोऽस्मान्नान्यस्या-
भावगतिस्तथा न वक्तृत्वाद्रागादिमत्त्वगतिः । यतो यदि वचनादि रागा-
दीनां कार्यं स्याद्वचनादे रागादिगतिः स्याद्रागादिनिवृत्तौ वचना^५दिनिवृत्तिः
स्यात् । न च कार्यम् । कुतः । रागादीनां वचनादेश्च कार्यकारणभावस्या-
सिद्धेः । कारणान्न कार्यमतोऽस्मान्न गतिः ।
माभूद्रागादिकार्यं वचनम् । सहचारि तु भवति । ततो रागादौ
१ सहानवस्थान०, ख० सहावस्थानं । २ द्विविधः, क० द्विरोधः । ३ 'च' इति पदं
ख० पुस्तके नोपलभ्यते । ४ निवर्त्य०, क० निर्वर्त्य० । ५ वचनादि, ख० वचन० ।