न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 114, कुल 176 में से
संदर्भ में पढ़ेंस्परपरिहारस्थितलक्षणता तया। इह यस्मिन्परिच्छिद्यमाने यद्व्यवच्छिद्यते
तत्परिच्छिद्यमानमवच्छिद्यमानपरिहारेण स्थितरूपं द्रष्टव्यम्। नीले च
परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरवच्छिद्यते तद्व्यवच्छेदे नीलापरिच्छेद-
प्रसङ्गात्। तस्माद्वस्तुनो भावाभावौ परस्परपरिहारेण स्थितरूपौ। नीलात्तु
यदन्यरूपं तन्नीलाभावाव्यभिचारि। नीलस्य दृश्यस्य पीतादावुपलभ्यमाने
ऽनुपलम्भादभावनिश्चयात्। यथा च नीलमभावं परिहरति तद्वद्भावाव्य-
भिचारि पीतादिकमपि। तथा च भावाभावयोः साक्षाद्विरोधौ १ वस्तुनो-
स्त्वन्योन्याभावाव्यभिचारित्वाद्विरोधः। कस्य २ चान्यत्राभावावसायो यो
नियताकारोऽर्थस्तस्य। न त्वनियताकारोऽर्थः क्षणिकत्वादिवत्। क्षणिकत्वं
हि सर्वेषां नीलादीनां स्वरूपात्मकम्। अतो न नियताकारम्। यतः
क्षणिकत्वपरिहारेण न किंचिद्दृश्यते। यद्येवमभावोऽपि न नियताकारः।
कथं न। नियताकारो नाम यावता वस्तुरूपविविक्ताकारः कल्पितोऽभावः।
ततो दृष्टं कल्पितं वा नियतं रूपमन्यत्रासदवसीयते नानियतम्। एवं
नित्यंत्वे ३ पिशाचादिरपि नियताकारः कल्पितो द्रष्टव्यः। एकात्मकत्व-
विरोधश्चायम्। ययोर्हि परस्पर४परिहारेणावस्थानं तयोरेकत्वाभावः। अत
एव लाक्षणिकोऽयं विरोध उच्यते। लक्षणं रूपं वस्तूनां प्रयोजनमस्येति
कृत्वा। विरोधेन ह्यनेन वस्तुतत्त्वं ५ विभक्तं व्यवस्थाप्यते। अतएव दृश्य-
माने रूपे यन्निषिध्यते तद्दृश्यमेवाभ्युपगम्य निषिध्यते। तथा हि।
अभावोऽपि पिशाचोऽपि यदा पीते निषेद्धुमिष्यते तदा दृश्यात्मतया
निषेध्य इति दृश्यत्वमभ्युपगम्य दृश्यानुपलब्धेरेव निषेधः। तथा च सति
रूपे परिच्छिद्यमान एकस्मिंस्तदभावो दृश्यो व्यवच्छिद्यते। ततः स्वप्रच्यु-
तिवत्प्रच्युतिमन्तोऽपि व्यवच्छिन्ना इति ये परस्परपरिहारस्थितरूपाः सर्वे
तेऽनेन निषिद्धैकत्वा इति सत्यपि चास्मिन्विरोधे सहावस्थानं स्यादपि।
ततो भिन्नव्यापारौ विरोधौ। एकेन विरोधेन शीतोष्णस्पर्शयोरेकत्वं
वार्यते। अन्येन सहावस्थानं भिन्नप्रवृत्तिविषयौ च ६। सकले वस्तुन्य-
१ विरोधौ, ख० विरोधो। २ कः कस्य। ३ नित्यस्वे, ख० नित्यश्व। ४ परस्पर-
परिहारेण, ख० परस्परेण। ५ वस्तुतत्त्वं, क० स्तुतत्वं। ६ 'प्रवृत्ति' इति पाठः ख०
पुस्तके नोपलभ्यते।