सामग्री पर जाएँ
सर्वकोश
न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)

Nyayabindu of Dharmakirti with Dharmottara Tika

आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 113, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 113

तृतीयपरिच्छेदः ७५
ततोऽसमर्थावस्थाजनकत्वमेव निवर्तकत्वम् । अतश्च यस्मिन् क्षणे जनक-
स्ततस्तृतीये क्षणे निवृत्तो विरुद्धो यदि शीघ्रम् निवर्तते । जन्यजनक-
भावाच्च संतानयोर्विरोधो न क्षणयोः । यद्यपि च न संतानो नाम वस्तु
तथापि संतानिनो वस्तुभूताः । ततोऽयं परमार्थः न क्षणयोर्विरोधः ।
अपि तु बहूनां क्षणानाम् । यतः सत्सु दहनक्षणेषु प्रवृत्ता अपि शीतक्षणा
निवृत्तिधर्माणो भवन्तीति । संतानयोर्निवर्त्यनिवर्तकत्वनिमित्ते च विरोधे
स्थिते सर्वेषां परमाणूनां सत्यप्येकदेशावस्थानाभावेन विरोध इतरेतरसंता-
नानिवर्तनात्तेषां गतिधर्मा चालोको यां दिशमाक्रामति तद्दिग्वर्तिनो विरोधि
संतानान्निवर्तयति । ततोऽपवरकैकदेशस्था प्रदीपप्रभान्धकारनिकटवर्ति-
न्यपि नान्धकारं निवर्तयति । अन्धकाराक्रान्तायां दिश्यालोकक्षणान्तर-
जननासामर्थ्यात् । कारणासामर्थ्यहेतुकृतं संताननिष्ठमेव विरोधं दर्शयता
र्भवतेति कृतम् । भवतः प्रबन्धेन वर्तमानस्य शीतस्पर्शसंतानस्याभावोऽन्य-
स्योष्णस्पर्शसन्तानस्य भावे सतीति ।
ये त्वाहुर्न विरोधो वास्तव इति त इदं वक्तव्याः । यथा न निष्पन्ने
कार्ये कश्चिज्जन्यजनकभावो नाम दृष्टोऽस्ति । कारणपूर्विका तु कार्य-
प्रवृत्तिरतो वास्तव एव । तद्वन्न निवृत्ते वस्तुनि कश्चिद्दिष्टो नाम विरो-
धोऽस्ति । दहननिमित्तं तु शीतस्पर्शस्य क्षणान्तरासामर्थ्यमतो विरोधोऽपि
वास्तव एव ।
उदाहरणमाह ।
शीतोष्णस्पर्शवत् ।
शीतश्चोष्णश्च तावेव स्पर्शौ तयोरिव । शीतोष्णस्पर्शयोर्हि पूर्ववद्वि-
रोधो योजनीयः ।
द्वितीयमपि विरोधं दर्शयितुमाह ।
परस्परपरिहारस्थितलक्षणतया वा भाववत् ।
परस्परपरिहारः परित्यागस्तेन स्थितं लक्षणं रूपं ययोस्तद्भावः पर-
१ असमर्थावस्था०, ख० असामर्थ्यावस्था० । २ संतानयोः, क० संतनयोः ।
३ तद्दिग्वर्तिनः, क० तद्विघ्वर्त्तिनः । ४ अन्धकाराक्रान्तायां, क० अन्धकारायाक्रान्तायां ।
५ हेतुकृतं, ख० हेतुत्वकृतं । ६ भवता, क० ख० भवतः ।