न्यायबिन्दु (आचार्य धर्मकीर्ति - धर्मोत्तर टीका एवं पं. चन्द्रशेखर शास्त्री सविस्तार हिन्दी व्याख्या सहित)
Nyayabindu of Dharmakirti with Dharmottara Tika
आचार्य धर्मकीर्ति (टीकाकार: धर्मोत्तरोपाध्याय / चन्द्रशेखर शास्त्री) द्वारा
पृष्ठ 109, कुल 176 में से
संदर्भ में पढ़ेंतृतीयपरिच्छेदः ७१
आत्मनः साध्ये सर्वत्रोपलभ्यमानगुणत्वं लिङ्गम् । सर्वत्र देश उपलभ्य-
मानाः सुखदुःखेच्छाद्वेषादयो गुणा यस्यात्मनस्तस्य भावस्तत्त्वम् । न
गुणा गुणिनमन्तरेण वर्तन्ते । गुणानां गुणिनि समवायात् । निष्क्रिय-
श्चात्मा । ततश्च यदि व्यापी न भवेत्कथं दक्षिणापथ उपलब्धाः सुखादयो
मध्यदेश उपलभ्येरन् । तस्मात्सर्वगत आत्मा । तदिह बौद्धस्यात्मैव न
सिद्धः किमुत सर्वत्रोपलभ्यमानगुणत्वं सिध्येत् । तस्येत्यसिद्धौ हेत्वा-
भासः । पूर्वमाश्रयगसंदेहेन धर्मिणि संदेह उक्तः । संप्रति त्वसिद्धो
धर्म्युक्त इत्यनयोर्विशेषस्तदेवमेकस्य रूपस्य धर्मिबद्धस्यासिद्धावसिद्धो
हेत्वाभासः ।
तथैकस्य रूपस्यासपक्षेऽसत्त्वस्य१सिद्धावनैकान्तिको
हेत्वाभासः ।
तथा परस्यैकस्य रूपस्यासपक्षेऽसत्त्वाख्यस्यासिद्धावनैकान्तिको हेत्वा-
भासः । एकोऽन्त एकान्तो निश्चयः । स प्रयोजनमस्येत्यैकान्तिकः ।
नैकान्तिकोऽनैकान्तिकः । यस्मान्न साध्यस्य न विपर्ययस्य निश्चयोऽपि
तु तद्विपरीतः संशयः । साध्येतरयोः संशयहेतुरनैकान्तिक उक्तः ।
तमुदाहरति—
यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वा-
दिको धर्मः सपक्षविपक्षयोः । सर्वत्रैकदेशे वा वर्तमान-
स्तथास्यैव रूपस्य संदेहेऽप्यनैकान्तिक एव ।
यथेत्यादिना । अनित्यत्वमादिर्यस्य सोऽनित्यत्वादिको धर्मः ।
आदिशब्दात्प्रयत्नानन्तरीयकत्वं प्रयत्नानन्तरीयकत्वं नित्यत्वं२ च परिगृ-
ह्यते प्रमेयत्वमादिर्यस्य स प्रमेयत्वादिकः । आदिशब्दादनित्यत्वं पुनरनि-
त्यत्वममूर्तत्वं च गृह्यते३ । शब्दस्य धर्मिणोऽनित्यत्वादिके धर्मे साध्ये प्रमे-
यत्वादिको धर्मोऽनैकान्तिकः । चतुर्णामपि विपक्षेऽसत्त्वमसिद्धम् । तथाहि ।
अनित्यः शब्दः प्रमेयत्वादाकाशवद्धटवदिति प्रमेयत्वं सपक्षविपक्षव्यापि ।
१ मुद्रितपुस्तकस्य 'सत्त्वस्य' इति पाठोऽशुद्धः प्रतीयते । २ पदमिदं ख० पुस्तके
नोपलभ्यते । ३ गृह्यते, ख० गृह्णन्ते ।