निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 697, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २८३ ) ६ अ० ३ पा० ७ खं०
॥ ६७ ॥ जज्झतीः ॥ ६८ ॥ अप्रतिष्कुतः
॥ ६९ ॥ शाशदानः ॥ ७० ॥
निरु०-“प्रवोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे
अग्रियोत वाजाः ।” [ ऋ० सं० ३, ७, ३, ३ ]
प्रास्थुर्वा जोषयमाणा अभवन् सर्वे, अग्रगम-
नेन-इति वा, अग्रसरणेन-इति वा, अग्रसम्पादिन्-
इति वा ।
अपिवा ‘अग्रम्’ इत्येतत् अनर्थकम्-उपबन्धम्-
आददीत ॥
“अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व
पचतोत सोमम् ।” ( ऋ० सं० ८, ६, २१, ३ ) ।
अद्धि इन्द्र प्रस्थितानि इमानि हवींषि चनो
दधिष्व ।
‘चन’ इति अन्ननाम ।
( पचता- ) पचति नीमीभूतः ।
“ तं मेदस्तः प्रति पचताग्रभीष्टाम् ।”
( ) । इत्यपि निगमो भवति ।
अपि वा मेदसश्च पशोश्च सात्त्वं द्विवचनं स्यात्’
यत्रहि एक-वचनार्थः प्रसिद्धं तद्भवति ॥
“ पुरोला अग्न पचतः ।” [ ऋ०सं० ३, १, ३१,