निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 698, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३८४ ) ६ अ० ३ पा० ७ खं०
२ ] । इति यथा ॥
‘शुरुधः’ आपो भवन्ति । शुचं संरुन्धन्ति ।
“ऋतस्य हि शुरुधः सन्ति पूर्वीः” । (ऋ०सं०
३, ६, १०, ३) ।
‘अमिनः’ अमितमात्रो महान् भवति ।
अभ्यमितो वा ।
“अमिनः सहोभिः” । [ ऋ० सं० ४, ६,
७, १) । इत्यपि निगमो भवति ॥
'जज्जतीः' आपो भवन्ति । शब्दकारिण्यः ।
“मरुतो जज्जतीरिव” । (ऋ० सं० ४, ३,
९, ६) । इत्यपि निगमो भवति ॥
'अप्रतिष्कुतः' अप्रतिष्कृतः । अप्रतिस्खलि-
तो वा ।
“अस्मभ्यमप्रतिष्कुतः” । (ऋ० सं० १, १,
१४, १) । इत्यपि निगमो भवति ॥
‘शाशदानः’ शाशद्यमानः ।
“ह्रस्वां मतिमतिरच्छाशदानः” । [ ऋ० सं०
१,३,३,३ ] । इत्यपि निगमो भवति ॥७ (१६) ॥
इति षष्ठाध्यायस्य तृतीयः पादः ॥ ६, ३ ॥
'अग्रिया' (६३) अनवगत सेना के आगे चलने वाल का अथवा
अपने को आगे करने वाले का अथवा आग्रही का नाम है ।—