निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 654, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (२३६) ६ अ० १ पा० ४ खं०
उद्धर रक्षः सहमूल मिन्द्र । 'मूलं' मोचनाद्वा ।
मोषणाद्वा । मोहनाद्वा । वृश्च मध्यं प्रति शृणी-
हि अग्रम् । 'अग्रम्' - आगतं भवति आकियतो
देशात् । 'सललूकम्' संलुब्धं भवति पापकम् इति
नैरुक्ताः । सरूकं वा स्यात् सर्त्तेः अभ्यस्तात् ।
'तपुषिः' तपतेः । 'हेतिः' हन्तेः ।
“त्यं चिदित्था कत्पयं शयानम्” (ऋ०सं०४,१,३२,६)
सुखपयसम् । सुखमस्य पयः ।
'विस्रुहः' आपो भवन्ति । विस्रवणात् ।
“वयाइव रुरुहुः सप्त विस्रुहः” (ऋ०सं०४,५,९,६)
इत्यपि निगमो भवति ।
'वीरुधः' ओषधयो भवन्ति । विरोहणात् ।
“वीरुधः पारयिष्णवः” [ऋ० सं० ८, ५, ८, ३]
इत्यपि निगमो भवति ॥४॥
'नक्षद्दाभम्' अश्नुवानदाभम् । अभ्यशनेन दभ्नो-
ति-इति ।
“नक्षद्दाभं ततुरिं पर्वतेष्ठाम्” (ऋ०सं० ४,६,१३,२)
इत्यपि निगमो भवति ।
'अस्कृधोयुः' अक्रुध्वायुः । 'कृधु' इति ह्रस्वनाम ।
निकृत्तं भवति ।