निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 643, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २२८ ) ६ अध्याय
शब्द अर्थ
आप्यम् आप्नोतेः । ( खं० ५ )
चतुर्थः पादः ।
करस्नौ बाहू । कर्मणां प्रस्रवतारौ । ( खं० १ )
हनुः हन्तेः ।
नासिका नसतेः ।
धेना दधातेः । ( खं० १,)
स्कन्धः वृक्षस्य समास्कन्नोभवति । अयमपीतरःस्कन्धः
एतस्मादेव । आस्कन्नं काये । ( खं० २ )
घ्रंसः इति अहर्नाम । ग्रस्यन्तेऽस्मिन् रसाः । (खं०४)
ऊधः ( गोः ) उद्धततरंभवति । उपोन्नद्धमितिवा । स्नेहानु-
प्रदानसामान्याद्रात्रिरांपऊध उच्यते ।
द्यमान् द्योतनवान् ।
तनूशुभ्रम् तनूशोभयितारम् ।
कवासखः यस्यः कपूयाः सखायः ।
दृढा दृढानि । ( खं० ४ )
प्रभरा प्रहर । ( खं० ५ )
तूतुजानः तूर्णत्वरमाणः । ( खं० ५ )
अस्मयुः अस्मान् कामयमानः । ( खं० ६ )
देवयज्यया देवयज्यायै । ( खं० ७ )
सनये लब्धये ।
शकटम् शकृदितंभवति । शनकैस्तकतीतिवा । शब्देन
तकतीतिवा ।
एधमानद्विट् एधमानान् असुन्वतोद्वेष्टि ।
अधायि अध्यधायि ।