निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 393, कुल 1282 में से
संदर्भ में पढ़ें८६ ३ अ० ४ पा० १ खं० ।
तृतीयेऽध्याये—
४र्थः पादः ।
(खण्ड १)
अथ लुप्तोपमानि अर्थोपमानि इति आ-
चक्षते । सिंहो व्याघ्र इति पूजायाम् । श्वा काक
इति कुत्सायाम् । काक इति शब्दानुकृतिः ।
तदिदं शकुनिषु बहुलम् । “न शब्दानुकृति विद्यते”
इति औपमन्यवः । काकः अपकालयितव्यो भवति ।
तित्तिरिः तरणात् । तिलमात्रचित्र इति वा ।
कपिञ्जलः कपिरिव जीर्णः । कपिरिव जवते ।
ईषत्पिङ्गलो वा । कमनीयं शब्दं पिञ्जयति इति
वा । ‘श्वा’ आशुयायी । श्वयते र्वा स्याद् गति-
कर्मणः । श्वसिते र्वा । ‘सिंहः’ सहनात् । हिंसे
र्वा स्याद् विपरीतस्य । सम्पूर्वस्य वा हन्तेः ।
संहाय हन्ति इति वा । ‘व्याघ्रः’ व्याघ्राणात् ।
व्यादाय हन्ति इति वा ॥ १ ॥
अर्थ ।
यहांसे 'लुप्तोपम' जिनमें उपमावाचक लुप्त हो जाते हैं ऐसे
पदोंकी व्याख्या करेंगे । इनको आचार्य अर्थोपम कहते हैं । पूजा
प्रशंसा में 'सिंह' 'व्याघ्र' [ शब्द बोले जाते हैं । ] कुत्सा ( निन्दा )